SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ नमो नमः श्रीगुरुनेमिसूरये ॥ पत्रम् - मुनिधर्मकीर्तिविजयः आत्मीयबन्धो चेतन! धर्मलाभोऽस्तु। पूज्यपादानां गुरुवराणां देहमाराधनानुकूलं वर्तते । विहरिष्यामो वयं सर्वेऽपि चतुर्मासी समाप्य 'बेंगलोर'नगरं प्रति। गतपत्रे जैनी कर्मपद्धति संलक्ष्य मनोविषयके द्वे तत्त्वे चिन्तिते । इदानीमवशिष्टयो: द्वयोः तत्त्वयोः विमर्शस्य चिकीर्षुरहम् । १. जीवने न कदाचिदपि कृतस्याऽशुभकार्यस्याऽनुमोदनं करणीयम्।। २. जीवने आचरितस्य दुष्टकार्यस्याऽवश्यमेव पश्चात्तापः कर्तव्यः । अथ जीवः प्रतिक्षणं मनोवाक्कायरूपस्य त्रिविधयोगस्य द्वारेण शुभमशुभं वा कर्मवृन्दं बध्नाति एवेति जैनाः मन्यन्ते; तथैव भगवद्गीतायामपि श्रीवेदव्यासभगवान् आह - न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवश्य: कर्म सर्व: प्रकृतिजैर्गुणैः॥ (३-५) __ अतो जीवमात्रेण शुभमशुभं कार्यं क्रियते, तदनुसारेण पुण्यबन्धः उत पापबन्धो भवत्येव । किन्तु स्वभाववशात् यदाऽशुभं कार्यं भवेत्तदा तत्पश्चात् तस्य कृतस्य दुष्टकार्यस्य गर्दा करणीया, परंतु नाऽनुमोदनं करणीयम् । यतोऽशुभकार्येण पापबन्धस्तु भवत्येव, किन्तु यदा तस्य कृतस्य दुष्टकार्यस्याऽनुमोदना भवति, तदा तस्य पापबन्धस्याऽनुबन्धो भवति; प्रत्युत स पापबन्धोऽत्यन्तं दृढो भवति । यथा वस्त्रस्योपरि लग्नं रजोवृन्दं केवलं वस्त्रशाटनेनैव दूरीभवति, किन्तु तैलादिस्निग्धवस्तुभिः कर्दमितस्य वसनस्योपरि संलग्ना धूलि: न महताऽऽयासेनाऽपि निर्गच्छति । तथैव पापबन्धेनोपार्जितं कर्म सहजतया क्षीयते, किन्तु पापबन्धस्याऽनुबन्धेन यदुपार्जितं कर्मवृन्दं तत्तु अवश्यमेवाऽनुवेदनीयम् । तस्य बद्धकर्मणो विपाकस्योदय: तद्भवे भवान्तरे वाऽऽगच्छत्येव । उत्कृष्टतपोभिरपि न तत्कर्म नश्यति । जैनदर्शनानुसारेण एतादृशः कर्मबन्धो 'निकाचितबन्धः' ७३ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy