________________
मर्म-नर्म
-सा.युगन्धराश्रीः
माता
नेत्रचिकित्सक: किमिति भवती निजबालं प्रतिदिनमपनेत्रं न परिधापयति?
स बालोऽतीव चञ्चलोऽस्ति, कदाचिदुपनेत्रं भज्यात् । इतोऽहमपि प्रगल्भाऽस्मि, अतः प्रतिरात्रं यदा स शेते तदैव तमहमुपनेत्रं परिधापयामि।
- र
चिन्तन: भोः! एकदा अश्वस्पर्धायामाश्चर्यं जातम् । मननः किं तत् ? चिन्तनः शृणु । तद्दिने एकादशी तिथिरासीत् , अहमपि एकादशक्षणाधिके
एकादशवादने तत्र प्राप्तः । तत्र ज्ञातं मया यदेकादशानामश्वानां
स्पर्धाऽस्ति । अहमपि एकादशमेऽश्वेऽधृष्णवम् । मनन: तर्हि किं तवैवाऽश्वेन प्रथमः क्रमाङ्कः प्राप्त:? चिन्तन: न न । ममाऽश्वस्य क्रमाङ्कोऽपि एकादशम एवाऽभवत् ।
११४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org