________________
-- प्रथमं दृश्यम्
(राजा ईडिपस्, राज्ञी जोकास्ट्रा च सिंहासनारूढौ विराजे । मन्त्रिवर्गपरिवारस्याऽऽस्थानप्रवेशायाऽल्पसमयोऽवशिष्यते । ईडिपस् जोकास्टया सह संलपति ।)
ईडिपस्
(जोकास्टामुद्दिश्य) प्रिये ! एतावत्पर्यन्तं थीब्स्-नगरमनाथमासीत्। लायस्नृपालस्याऽमानुषनिगूढहत्यायाऽनन्तरं नः प्रजा निराश्रिता व्याकुलिताश्चाऽऽसन् । तेषां कृते सन्निहितभाग्यराशिरिवाऽहं मम पितरौ विहाय कारिन्तराज्यस्थितान्मज्जन्मस्थानादाकस्मिक घटनाप्रचोदितः सन्नत्राऽऽगतोऽस्मि । नूनमदृष्टं यदाऽस्मान्ननुगृह्णाति तदा सर्वसम्पदधिदेवता स्वयमस्माननुगच्छति । सत्यं वदामि जोकास्टे ! अत्रत्याः प्रजा मया सनाथीकृताः, न ता इतः परं शत्रुभयेनाSराजकतया पीड्यन्ते ।
Jain Education International
अहं सुष्ठु स्मरामि नाथ ! अद्याऽहं प्रायेण पञ्चचत्वारिंशद्वर्षवयस्काऽस्मि । अहं मम पञ्चदशवर्षमिते वयसि लायस् - नृपालं पर्यणयम् । आवयोरेकः पुत्रोऽपि जातः । किन्तु तच्छैशव एव, "यद्ययं शिशू राजधान्यां निवसति तदा तस्य मातापित्रोर्दुरन्तं कष्टं सम्भविष्यति " इति देववाणीमुपश्रुत्य तं शिशुं मारणार्थमरण्यवासिभ्यः प्रायच्छम् । तदनन्तरं लायस् - नृपालेन सह मम दाम्पत्यं प्रायेण पञ्चविंशतिसंवत्सरपर्यन्तं सुखसन्तोषविलासै-रन्ववर्तत । एवं सति कदाचिद् लायस्-नृपाले सपरिवारे रथारूढे विहाराय पथि गच्छति सति, दुर्दैवेन लुण्यकानां गणः सन्ध्यासमये क्षीणप्रकाशे मार्गत्रयसन्धौ नृपालमाक्रम्य शस्त्रैश्च तं भृशं प्रहृत्य जघ्नुः । तस्या दुर्घटनाया अनुपदमेव मम हस्तगत भाग्यराशिरिव त्वं कारिन्तनगरात् थीब्स् - नगरमागत्य मां पर्यणयः । त्वया सह सङ्गमनात् प्रभृति पतिवियोगनिमित्तौ दुःखशोकौ मामजहताम् । त्वं मम पतिवियोगव्यथां विस्मारितवानसि। अनावृष्ट्या भृशं शुष्के कङ्काली भूते चोषरक्षेत्रे वृष्टां प्रथमवृष्टिमिव त्वामुपलभ्याऽस्मत्प्रजाः नूनं सनाथीभूताः । प्रभो ! तेजःपुञ्जेन सुन्दरवदनेन, विशालाभ्यां नेत्राभ्यां, बालश्मश्वा, विपुल -
९६
For Private & Personal Use Only
www.jainelibrary.org