SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ व्याप्तिपञ्चकं तु अष्टसु दिनेष्वेवाऽधीतं, तच्च सर्वेषां विस्मयकारकं सञ्जातम् । ततो मङ्गलषिग्रहेन्दु(१९७८)मिते वर्षेऽभूच्चातुर्मास्यं स्तम्भनपुरे(खंभातनगरे) । तत्र स न्यायविशारदतार्किकशिरोमणि-पूज्योपाध्यायश्रीयशोविजयवाचकैविरचितं न्यायखण्डनखण्डखाद्याख्यं ग्रन्थं श्रीमदुदयनाचार्यविरचितं न्यायकुसुमाञ्जलिग्रन्थं च समभ्यस्तवान् । १ योगोदहनं पदप्राप्तिश्च । संयमजीवने आगमसूत्राणां पठनार्थं प्रथमं योगेनाऽऽराधनमवश्यकर्तव्यतया प्रतिष्ठापितमस्ति पूर्वाचार्यैः । अतः प्रायः सर्वेऽपि मुनयो योगोद्वहनं कुर्वन्त्येव । मुनिश्रीअमृतविजयेनाऽपि संयमजीवनस्य द्वितीयस्मिन् वर्ष एव श्रीउत्तराध्ययनसूत्रस्य श्रीआचाराङ्गसूत्रस्य च योगोद्वहनं गुरूणां प्रसादतो विहितम् । ततो मुन्यर्षि-तत्त्व-शशाङ्क(१९७७)मिते वर्षे श्रीकल्पसूत्रश्रीमहानिशीथसूत्रयोर्योगाराधनं कृतम्। ततो यथानुकूलं श्रीसूत्रकृताङ्गसूत्र-श्रीस्थानाङ्गसूत्रश्रीसमवायाङ्गसूत्रादीनां योगाराधनं कृतम्। अथ बाण-मङ्गल-नन्द-विधु(१९८५)मिते वर्षे श्रीमद्गुरुभगवद्भिस्तस्य योग्यतां ज्ञात्वा कृपां विधाय श्रीकदम्बगिरितीर्थे पञ्चमाङ्गश्रीभगवतीसूत्रस्य योगोद्वहनाय समह: प्रवेश: कारितः । अयं हि योगो दीर्घकालिक आगाढोऽत्यन्तं महत्त्वयुतश्च वर्तते । अस्माद् योगात् सुमहति कारणे उपस्थितेऽपि जीवितव्ययेनाऽपि न कदाचिनिष्क्रान्तव्यम् । तस्मिन् पूर्णीभूत एव ततो निक्षेपः कार्यते । इतो यद्यपि मुनिअमृतविजयस्य स्वास्थ्यं तादृशं समीचीनं नाऽऽसीत् तथाऽपि परमकरुणावतां श्रीदेव-गुरूणां कृपया स्वीयचित्तोत्साहेन च विशेषबाधां विनैव योगाराधनं सानन्दं सम्पन्नम् । ततश्च गुरुभगवद्भिः तस्मिन्नेव वर्षे आषाढशुक्लचतुर्थ्यां मधुमतीनगरे तस्मै श्रीभगवतीसूत्रनुज्ञापूर्वं गणिपदप्रदानं विहितम् । तत आषाढशुक्लस्यैवाष्टमीतिथौ तस्मै पन्न्यासपदमपि प्रदत्तम् । ख-नन्द-नन्देन्दु(१९९०)मिते वर्षे गुरुभगवद्भिर्जावालनगरे चतुर्मासीस्थिरता कृता । तदा पन्न्यासश्रीअमृतविजयेनाऽवशिष्टानामागमसूत्राणां योगोद्वहनं कृत्वा पञ्चचत्वारिंशदागमसूत्राणां योगाराधनं पूर्णीकृतम् । Jain Education International ५६ For Private & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy