________________
प्रभुसम्मुखं गीयमानानां चतुर्विशतिजिनस्तुतीनां रचना तदा कृता। संस्कृतभाषायामन्यान्यपि श्लोक-स्तुति-स्तवनादीनि विरचितानि । तानि दृष्ट्वा गुरुभगवद्भिरन्यैश्च मुनिवर्यैर्बाढं प्रशंसितानि हर्षोत्फुल्लितमानसैश्च कथितम् - "अहो ! अमृतविजयेनैतावता स्तोककालेनैव सर्वेषां विस्मयकरीयं काव्यरचना कृता । एता रचना: प्रासादिकता-प्रयोगशुद्धिरचनासौष्ठवादिभिर्गुणैः प्राक्तनकवीनामिव दरीदृश्यन्ते।" ___ चतुर्मास्यनन्तरं जेसलमेरतीर्थयात्रा षड्-री-पालकसङ्घन सह पूज्यगुरुभगवतां निश्रायां विहिता । तदनु फलवृद्धिनगरे चतुर्मासी स्थिरता कृता । तत्र च बृहद्हेमप्रभाव्याकरणाभ्यास: समाप्तः । यतो निर्धारितकाले स पूर्णो नाऽभवदतो नियमपालनाय तेन मासद्वयं यावद् घृतत्यागो विहितः । पूर्णे चाऽभ्यासे ततो नियमात् स विमुक्तः । अहो ! नियमपालनदायम् । ततो विहृत्य बिकानेर-नागोर-बिलाडा-कापरडातीर्थादिक्षेत्रेषु स्पर्शनां विधाय वेदर्षि-ग्रहचन्द्र(१९७४)मिते वैक्रमीये संवत्सरे पालीनगरे चतुर्मासी विहिता । अस्यां चतुर्मास्यां तस्य न्यायदर्शनस्या-5ध्ययनं सञ्जातम्।
१ न्यायदर्शनाध्ययनम् । न्यायदर्शनस्याऽध्ययनार्थं मतितैक्ष्ण्यमपेक्षितम् । न हि तद्विना तत्र प्रवेशोऽपि भवितुमर्हति । नव्यन्यायस्तु इतोऽपि कठिनतरः । बहवोऽभ्यासिनस्तदध्ययनं प्रारभ्य स्तोकेनैव कालेन तस्य दुरवगाहित्वं विलोक्य तस्माद् विरता भवन्ति । मुनिअमृतविजये बुद्धितैक्ष्ण्यमनवरतप्रयासो गुरुप्रसादश्चेति त्रयाणां गुणानां विरल: सङ्गम आसीत् । तेन स स्वल्पैरेव प्रयासैर्गहनग्रन्थानामप्यभ्यासाय सिद्धोऽभवत् ।। __पालीनगरे स मुनिलावण्यविजयेन सह शास्त्रिणां पार्श्वे न्यायसिद्धान्तमुक्तावल्या अभ्यासमकरोत् । तदा प्रतिदिनं स पञ्चाशच्छ्लोकमितं पाठं शास्त्रिणे श्रावयामास । ततो बाणर्षितत्त्व-मृगाङ्क(१९७५)मिते वर्षे राजनगरे चतुर्मासीस्थिरतायां तेन गुरुभगवतां सविधे किरातार्जुनीयमहाकाव्यमधीतं शास्त्रिसमीपे च सिद्धान्तमुक्तावल्या दिनकरी-रामरुद्रीटीकेऽभ्यस्ते । तदनन्तरं रसषि-ग्रह-चन्द्र(१९७६)मिते वर्षे उदयपुरे चतुर्मासी विहिता। तत्र स व्याप्तिपञ्चक-सिद्धान्तलक्षण-व्युत्पत्तिवादाभिधानानां ग्रन्थानामध्ययनमकरोत् । तत्राऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org