________________
1880
NAUR
HITENAP
D
किशोरगीतम् कर्तुमिच्छसि नाम लोके ।
___ डॉ.आचार्यरामकिशोरमिश्रः
ISRO
अवगुणान् कृत्वा हि दूरे सद्गुणान् हृदये निधाय । दुर्जनांस्त्यक्त्वा हि मनसा सङ्गतिं महतां विधाय । सदा सहयोगं कुरुष्व नृणामन्येषां च शोके।
कर्तुमिच्छसि नाम लोके ॥१॥ यदि करिष्यसि गुरुजनानां महापुरुषाणां च मानम् । तर्हि त्वां प्रति सर्वलोकाः सर्वदा दास्यन्ति ध्यानम् । निर्धनानां भव सहायक आर्थिक सङ्कटे स्तोके।
कर्तुमिच्छसि नाम लोके ॥२॥ सोदरैः सह भरततुल्यं सदा व्यवहारं कुरुष्व । लोकनारी मातृतुल्यां स्वसृसमानां वा भजस्व । सज्जना: सत्पथमयन्ते तादृशा वद सन्त्यहो! के?
कर्तुमिच्छसि नाम लोके ॥३॥ ये च मन्यन्ते मनुष्याः परधनं वै मृत्समानम् । शासका: साधवस्तेषां बुधा अपि कुर्वते मानम् । तादृशो भव, यतः सर्पा अवक्रा गच्छन्तु रोके। कर्तुमिच्छसि नाम लोके ॥४॥
(१) स्तोके - अल्पे (२) रोके - विले
३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org