SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ इति मनसि निधाय शासनसम्राजो गुरुभगवन्तः सर्वदा स्वशिष्यान् ज्ञानाभ्यासार्थं प्रेरयन्ति स्म । स्वयमपि च शिष्याणामध्यापने भृशं प्रयतन्ते स्म। ___ वयं ह्येतत् समीचीनतया जानीमो यद् गुरूणां कृपादृष्ट्यैव विशदावदाता बुद्धिनिर्मलं ज्ञानं च लभ्यते । ये च गुरुभगवत्सु समर्पितहृदया तेषु गुरुकृपामृतधारा विनाऽऽयासेनैव वर्षति। ततश्च ज्ञानाभ्यासोऽपि तेषां निर्विघ्नतया वर्धते । एतत् सर्वं स्वीयनिर्मलबुद्ध्या स्वयमेव जानानेन नूतनमुनिश्रीअमृतविजयेन तीव्रक्षयोपशम-प्रबलपुरुषार्थयोर्बलेन गुरुकृपामृतपानेन च स्तोकेनैव कालेन ज्ञानाभ्यासे शोभना प्रगतिः कृता । प्रारम्भे आवश्यकसूत्राणां ततश्च संस्कृतव्याकरणादिशास्त्राणां चाऽध्ययनं कृतम् । मरुधरदेशीयविशुद्धजल-वायुप्रभावेण तस्य स्वास्थ्यमपि समीचीनं सञ्जातं यच्च दीक्षाग्रहणपूर्वं किञ्चित् प्रतिकूलमासीत् । चतुर्मास्यनन्तरं कातिकृष्णद्वितीयादिने मुनिश्रीअमृतविजयस्योपस्थापना विहिता। तदवसरे बोटादत: समागता देशाईलक्ष्मीचन्द्र-हेमचन्द्र-नरोत्तमदासप्रमुखा: सर्वेऽपि स्वजना: स्वीयमुनिवरस्य संयमस्थैर्याभ्यासलीनता-चित्तप्रसादादिकं च निरीक्ष्याऽतिवेलमानन्दमधिजग्मुः । ततो गुरुभगवन्तो विहृत्य सादडीग्रामं प्राप्ताः । तत्र मुनिश्रीनन्दनविजयस्याऽपि आगमनं सञ्जातम् (यः पूर्वं अमृतलालस्य मित्रं नरोत्तम आसीत् )। बहोरनेहसः पश्चात् स्वस्य प्राक्तनस्य प्रगाढमित्रस्य मिलनेन द्वयोरपि परमो हर्षोऽभूत् । सरसं स्वस्वदीक्षादिव्यतिकरं वर्णयतोस्तयोईयो: कियान् कालो व्यतीतस्तदपि न ज्ञातम्। तौ द्वावपि परस्परस्य नैपुण्यं धैर्य कार्यसाफल्यं च प्रशशंसतुः । नूनं द्वयोः समवयस्कवयस्ययोर्मित्रयोः कीदृक् सारूप्यम् ! द्वावपि गुप्तरीत्या गृहान्निर्गत्य मनोदाढ्र्येण प्रबलपुरुषार्थं स्फोरयित्वा संयम स्वीचक्रतुः । रास्वमित्र-लवजी-इत्यस्य दीक्षा शासनसम्राजां विक्रमीयरस-दर्शन-ग्रह-शशाङ्क-(१९६६)मितसंवत्सरे बोटादग्रामे चतुर्मास्यां ये पञ्च सुहृदः प्रतिबुद्धा: संयमग्रहणे च बद्धपरिकरा: दृढप्रतिज्ञावन्तश्च समभूवन् तेषु त्रयाणां दीक्षा सञ्जाता किन्तु चतुर्थो लवजी-इति अवशिष्ट आसीत् । स यथाकथमपि गृहात् पलाय्य सादडीग्रामे गुरुचरणयोः समुपस्थितः । मधुरवचसा गुरुभिराभाषित: स परमां प्रसत्तिं प्राप। ततस्तेनाऽवनतशिरसा योजितकरकुड्मलद्वयेन च विज्ञप्ता गुरुभगवन्तः - "हे कृपालवो गुरुवर्याः! मयि कृपां कृत्वा प्रयच्छतुतरां मे पारमेश्वरी प्रव्रज्याम् । विद्यते तत्कृते Jain Education International For h e & Personal Use Only www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy