________________
यात्रारताः, तासां प्रशंसासंपादनाय वाहनचालनादिस्पर्धासु संमिलन्तः, स्वसङ्केतरविद्यार्थिन: प्रथमं विरुध्य, पश्चात् तद्विरोधशमनाय कालं व्यर्थं नयन्तः, स्वाध्यायविषये आसक्तिरहिता अभूम । अथ किञ्चिज्जागिरता: पाठ्यविषयाणां बहुगम्भीरतयाऽपठितत्वाच्च परीक्षायां सफलतां प्रति दुर्बलाशाः, तज्जनितनैराश्यं विस्मर्तु एतादृशलघुद्यूतादिषु दत्तिचत्ता: कालं यापयामः । इत्येतदद्य भवद्भ्यः सर्वं निवेदितं निवेदनीयम् । आर्याः ! कथयन्तु सम्प्रति भवन्तः" इत्यावेद्य तूष्णींस्थिताः।
तदा कबीर: तानपृच्छत् - "भो छात्रा: ! क्रीडादिषु नियमेन प्रवर्तनं छात्राणामपेक्षितमेव । किन्तु सर्वदा क्रीडारतत्वं किमुचितम् ? अयं क्रीडामोह एव खलु?" छात्राः अथ किम् आर्याः ! एष मोहक्रीडा एव। कबीरः नन्वेष मोहो मनसो विकार एकः । छात्राः आर्या: ! अथ किम् ? कबीरः "ननु परीक्षाकालो दूरे वर्तते" इत्यक्तं युष्माभिः । एतदपि कथं निर्णीतम् ।
विद्यार्थिनां प्रत्यहमिति किम् , प्रतिक्षणमपि विद्यार्जनसमय एव । विद्यार्थी
स्वयमनुदिनमात्मानं परीक्षायतं कुर्वन्नेव शिक्षायामग्रेसरो भवेन्ननु ? छात्राः आर्याः ! एनाममृतवाणीं सदा हृदयसात् कुर्मः । बाढमस्माभिः कालस्य महान्
दुरुपयोगः कृतः। कबीरः नन्वेवं कालस्य दुरुपयोगः रागद्वेषनिघ्नस्य मनसो विकारेण संजातः खलु ? छात्राः आर्याः ! उपपन्नोऽयमर्थः। कबीरः युष्मादृशां विद्यार्थिनां लक्ष्यं प्राप्तुं सहपाठिनीनां प्रशंसादि किमनिवार्यमासीत् ? छात्राः न खलु आर्या ! न खलु । अत्राऽपराद्धास्स्मः । तदा इममपि मनोविकारं वेत्तुं न
पारितवन्तः। कबीर: वत्साः ! अन्यमेकं प्रश्नं श्रावियतुमिच्छामि । येन यूयं रुष्टा भवेत । अथवा न
श्रावयामि। छात्राः हन्त, आर्याः ! मा तूष्णीं भवन्तु । कृपयाऽनुशासनेनाऽनुगृहणन्त्वस्मान् ।
अहो वत्साः ! मुखे वाला युष्माभिविकृता दृष्टाः ? ततोऽपि विकृता मनसो विकारा कुतो न दृष्टाः?
कबीरः
Jain Education International
९१ For Private & Personal Use Only
www.jainelibrary.org