________________
सुभाषितकथा
कथा
- एम. के. नञ्चुण्डस्वामी अथ कस्मिँश्चित् दिने कबीरः साधुः कस्या अपि प्रवचनसभाया: प्रतिनिवर्तमानः श्रान्तः कस्यचित् जलाशयस्य निकटे उपिववेश।
उपिवष्टस्य तस्य कतिपयेषु क्षणेषु व्यतीयमानेषु विवदमानाश्चत्वारो युवानस्तत्रैवाऽऽगत्य आसीनाः । ते पुन: सद्य एव स्वरचिते द्यूते जयापजयविषये परस्परमसम्मता निर्णयमगच्छन्तो वाक्कलहाय प्रारेभिरे। अथ तेष्वेकः, "आत्मना वयं विवादस्याऽन्तं गन्तुं न शक्नुमः । तस्मात् अत्रैवोपविष्टं साधुमिमं याचामहे-यथा अस्मासु कृपया आस्माकीने विवादे न्याय्यं अन्विष्य निर्णयं कथयतु भवान् " इति कथितवान् ।
तदा तेष्वेकतमः, शृण्वति कबीरे, सोपहासमवदत् - "अहो एष साधुरेतादृशान् विषयान् किं जानीयात् ? विकृतान् मुखवालान् असीमं संवर्धयितुं केवलं जानीयाद्" इति । तयोपहासं शृण्वन्तोऽपि अन्ये तमनाक्षिप्यैव तूष्णीं स्थिताः ।
अथ गतेषु कतिपयक्षणेषु तेष्वेको जगाद - "को दोषः, यद्येष साधुर्वर्षीयान् बाह्यपुरुषः पक्षपातदूरोऽस्माकं विवादं प्रशमयेद्" इति ।
एवं अन्योन्यं संमन्त्र्य ते कबीरं "आर्येति" संभाव्य स्वविवादविषयं तस्मै न्यवेदयन् । ___ कबीरः सर्वमपि तदुक्तं शान्तेन मनसा श्रुत्वा विवादस्याऽसारतां विदित्वा, तान् प्रकारान्तरेण बोधियतुं यत्नवान् मृदुलया वाचाऽपृच्छत् - "भो वत्सा ! यूयं के, वृत्तिर्वा युष्माकं का?" इति ।
ते पुनरात्मनो विद्यार्थिदशां निवेद्य, किमप्यनिष्टं घटितं स्मारिता इव खिन्ना: तूष्णींस्थिताः। एवं खिन्नान् तानवलोक्य कबीर: पुनर्मुदुलया वाचा पृष्टवान् - "भो वत्साः ! विद्यार्थिभिः विद्याव्यासङ्गविधये सदा हृष्टचित्तैर्भवितव्यं ननु ? तिष्ठतु तावद् विवादविषयः। यूयं कुत एवं विषण्णा इव दृश्यध्वे? निगूहनीयं किमपि नास्ति चेत् कथ्यतां यत्किमप्यात्मनो वृत्तान्त " इति ।
ते छात्रा अवदन् - "आर्य ! न किमप्यस्ति निगूहनीयम् । वयं विद्यार्थिनः परीक्षार्थिनश्च स्मः । स्वसामर्थ्य मिथ्याभिमानितया नियतशिक्षासमयस्व पूर्वार्धं सहपठिनीभिविनोदविहार
९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org