________________
एको निबन्धः
- मुनिरत्रकीर्तिविजयः विद्यालये परीक्षायां प्रश्नपत्रे एक: प्रश्नः पृष्ट आसीत् यद् - "निम्नलिखितेभ्यो विषयेभ्य एकस्मिन् विषये निबन्धं लिखतु - महात्मा गान्धी:, गौः, अस्माकं विद्यालयः इति" एकेन विद्यार्थिना 'गो' विषयं चित्वा एवं लिखिम् - गौरत्यन्तं सरलः प्राणी अस्ति ।
अस्माकं राष्ट्रे गोरपि गान्धीवर्यस्य इवोच्चं स्थानं विद्यते । यतो गान्धीवर्यवत् तमपि निबन्धस्य विषयत्वेन स्वीकृत्य श्रीकारेण तस्मै गौरवं प्रदत्तमस्ति।
महात्मगान्धीवर्योऽस्माकं राष्ट्रस्य पिताऽस्ति तथा गौरस्माकं माताऽस्ति ।
गोरपि मनुष्यस्य इवैकमेव मुखं (मनुष्यमुखाद् भिन्नस्वरूपं) विद्यते। द्वावेव कर्णो किन्तु बृहतौ भवतः । एका नासिका एकैव च जिह्वा विद्यते । गौः कियन्तो दन्ताः सन्ति इति न मयाऽद्यापि ज्ञातम् । तद् ज्ञातुं च कोऽपि प्रयत्नविशेष: साहसो वाऽपि मया न कृतः न च तत्करणे ममोत्साहोऽपि वर्तते । अत: तद्विषयकमज्ञानं तस्य ज्ञातृणामग्रे स्वीकरोमि।
गोझै एव शृङ्गे वर्तेते, ये च सततं बहिर्दश्यते । येन मनुष्यः सावधानं वर्तितुं शक्तो भवेत् । (न किन्तु मनुष्यस्य इव अनेकानि गुप्तानि च सन्ति)
शरीरसंरचनामनुसृत्य चत्वारः पादास्तस्य भवन्ति, येन स्थितौ गतौ च न कष्टं तस्य भवेत् । द्वाभ्यां पादाभ्यां तु न काऽपि क्रिया सुकरं कर्तुं शक्या तस्य, अपरं च यदि द्वावेव पादौ स्याताम् तहि शरीरस्य मध्यभागे तौ स्थापितव्यौ, यन्नोचितम् । अतो दीर्घदृष्टयैव विचार्य चत्वारः पादाः प्रदत्ता ईश्वरेण।
वस्त्राणामभावे एकं पुच्छमपि दत्तं तस्मै ईश्वरेण । यद्यपि कण्डूयनकाले स्वरक्षणकाले च न तद् वस्त्रस्य कार्यं करोति तथाऽपि अनुक्रमेण द्वे अपि कार्ये (रक्षणकण्डूयनादि वस्त्रकाएँ
९३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org