SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ राजा पञ्चभिः परिजनैः सह रथमारुह्य नगराद् बहिविहरति स्म । तदा मार्गत्रयसन्धौ दस्यूनां निवहो हठात् लायस्-नरेशं सपरिवारमाक्रम्य तं निर्दयतया प्रहृत्य च निजघान । सर्वेषामपि लायस्-नृपपरिजनानां मध्यादेक एव कश्चिद् दूत: कथञ्चित् प्राणान् रक्षित्वा पलायितो राजधानी प्रत्याजगाम । तेनैव दूतेन लायस्-नरेशस्य दुरन्तो नाशो मे विज्ञापितः । सोऽपि राजदूत: कतिपयदिनान्तरं राजसेवां विहाय राजधान्याः बहि: कुत्रचिन्निर्गत इति अवगच्छामि । अथ सोऽसौ दूत: कुत्र गतः, इदानीं च क्व वसति किं वा करोतीति न कश्चिज्जानाति । तथाऽप्यत्रैव राजास्थानेऽद्याऽपि राजसेवानिरतो दैवज्ञः टैरिसियस्-नामा सर्वमस्य दुरन्तस्य लायस्-नरेशघातस्य ऐतिह्यं तथा तदनन्तरं घटितां घटनावलिं च यथावज्जानाति । स एवाऽस्मिन् निगूढविषये सर्वं यथावदावेदयितुं समर्थः । अत्रैव राजास्थाने निवसन्तं तमाह्वयानि प्रभो !? शीघ्रमेव तमानीयाऽत्रोपस्थापय । विलम्बो मा भूदत्र कार्ये । क्रयान् तथाऽस्तु प्रभो ! (निष्कामति ।) तृतीयं दृश्यम् । (राजभटा वृद्धमन्धं टैरीसियस्- दैवज्ञं ईडिपस्-नृपस्य सम्मुखं समानीयोपवेशयन्ति ।) राजा ज्योतिर्विन्महाशय! लायस्-नृपालस्य हत्यासम्बन्धिवृत्तं यद् यत् त्वं जानासि तत् सर्वं निर्भयतया सत्यं यथावच्च आवेदय।। टैरीसियस मैवं प्रभो ! शृणोतु मे हितवचनम् । तं कठोरं सत्यवृत्तान्तं वचसा वक्तुमेव बिभेमि । अतो मा मामागृह्णातु तत्कथनाय भवान् । न। सत्यं नैव गूहितव्यम्। निःसङ्कोचतया यथार्थं निवेदयतु भवान् । तदनिवेद्य इतः पदमपि चलितुमवकाशो ते न दास्यते । तं धूर्तापसदं लायस्-नृपहन्तारं यत्र कुत्राऽपि विलीनं भवद्वचनेनाऽवगत्य तत्स्थाने तमन्वेषयिष्यामि । ततो बद्ध्वा तं हस्तिपादतले वीथिषु कर्षयिष्यामि । ततश्च राज्याद् राजा २९ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521007
Book TitleNandanvan Kalpataru 2001 00 SrNo 07
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy