________________
बहिस्तमुच्चाटयिष्यामि । तस्मै नीचजनाय क्षणमपि राज्ये निवसितुं नैवाऽवकाशं
दास्ये । अतो दैवज्ञ ! सर्वं सत्यं वृत्तं क्षिप्रमेव वद। टैरीसियस तर्हि श्रूयतां सावधानम् । अस्य प्रजासङ्कटस्य कारणं भवानेव ।
(श्रुत्वैतदशनिपातसदृशं वचो राजा भृशं चकित: समुत्तिष्ठति । ) अस्य महापापस्य शापस्य च दुर्भरं भारं ऊवा विहरन् भवानेव । लायस्नृपसहधमिण्या साकं पापपङ्के क्रीडन् वर्तमानो भवानेव नाऽन्यः । ननु सत्यं
वदेति मामागृहीतवान् भवान् न वा? तत: सत्यमेव कथितवानहं प्रभो!। राजा (भृशं क्रुद्धः करतालं वादयति । राजभटाः प्रविशन्ति।) भो राजभटाः! तमेनं
वृद्धोलूकं निष्कासयन्तु इतः । उन्मत्ततया यद्वा तद्वा जल्पति सः । (भटास्तं दैवज्ञं सरभसमाकृष्य बहिनिष्कासयन्ति । तत्समकालमेव क्रयान्कुमारस्तत्रोपतिष्ठति ।) क्रयान् ! ज्ञातमिदानीम्। एतत् सर्वं तवैव राज्यलिप्सो: कूटविजृम्भितम् । त्वं द्रोही कृतघ्नश्च । नाऽस्त्यत्र शङ्कालेशोऽपि मम । भस्मपिहितेनाऽङ्गारेणेव त्वयैवेदं वृद्धोलूकेन टैरीसियस्-दैवज्ञेन साकं सम्भूय विततं कपटजालमिति सम्यगवगतं मया । मुग्धं मां ज्ञात्वा मृषैव दूषयित्वा च मत्तो राज्यमपहृत्य राज्यभोगेच्छया विहित: कूटप्रबन्धोऽयं त्वया। किन्तु न त्वं कूटप्रबन्धेनाऽनेन मां विचालयितुं शक्नोषि क्रयान् ! । सुष्टु जानीहि,
नाऽनया द्रोहचर्यया त्वं मां राजसिंहासनात् प्रच्यावयितुं प्रभवसि। क्रयान ईडिपस् ! मैवं मतिहीन: सन् निरपराधिनं मां वृथा दूषय । त्वां स्वार्थलिप्सया
प्रशंसन्त: संस्तावका बन्दि-मागधा अत्र बहवः सन्ति । मिथ्यासंस्तवेन त्वां स्वर्णशूलमधिरोपयन्तः सर्वत्र सुलभाः, किन्तु तव हितमिच्छन्तस्तव श्रेय:साधने बद्धादरा नूनमतिविरलाः । किमेवं मां वृथा दूषयित्वा तव साधितं भविष्यति ? समानय तं दूतं, यो लायस्-नरेशस्य निगूढहत्यासमये कथं कथमपि पलायनेन स्वजीवितं रक्षितवान् । स सर्वं यथावृत्तं यथार्थतयाऽऽवेदयिष्यति । ततश्च
लायस्-नरपतेर्घातकस्याऽधिग्रहणं सुलभं सम्पत्स्यते । __(करतालं वादयित्वा राजभटानाह्वयति । ) राज्ये सर्वत्र शोधयित्वा क्षिप्रं
राजा
१०० For Private & Personal Use Only
Jain Education International
www.jainelibrary.org