________________
सर्व बाला हर्षात् क्षणतः क्रतालिकया घोषितवन्तः ‘पश्यत पश्यत रुचिरं विहगं नीलिम-भव्यं तत्पक्षयुगम् । तदुरो माणिक्यश्रियमधरत् तन्नयनं कनकच्छविमवहत् प्राप्तप्रचयशिरस्कैरुक्तं 'न मृतः पक्षी योऽसौ धिक् तं विक्रय्योऽयं हन्त तथा सति ।' कश्चन शूरतमस्तेषामति गुलिकां सहसा स तदीयायां मरकतकान्तायां हि शिखायां प्राक्षिपदपतदिव्यो विहगो मनुजपुरस्ताद् यममन्दिरगो, न महानासीन्न च स स्थूलः ।
क्रुद्धो जन एतेन करालः "स्वादविहीनः, खादानर्हः, शकुनोऽसावेतस्य तु बर्हःकेन ध्रियतां शिरसि विचित्रः?' प्रक्षिप्तस्तैः स स्वःपुत्रः सरितायां जीवी मृतिमाप्नोत्, तेषां सोत्प्रासं हास्यमभूत् । एतल्लण्डन् नगरे विहितं तैर् बालाभिर्बालै रुदितम् ।
१. सोत्प्रासं - with irony
३३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org