________________
(९)
कुसरित्
The Brook
enfa: - Alfred Tennyson “अहं समागता जलीयपक्षिवृन्दवासतो हठात् किलाक्रमामि चारुगुल्मके स्फुराम्यहम् । उपक्रमामि वानियुद्धमाशु कन्दरे ततो निपातिनी रखलामि शैलकूटतस्तटेष्यहम् ॥” “वहन्त्यहं बहुप्रकारसेतुपत्तनादिभिः सलीलमप्रपूरनिम्नगासमागमोद्धरा । अलक्षितक्रमा तूणप्रभूतिमज्जलाध्वभिः कूतास्खलद्गतिर्नृणां गतागते निरादरा ॥" “अदृश्यदृश्यदेहवत्यपि च्युता विसर्पिणी नदीपथेन चारुनर्तना रवेर्मरीचिभिः । गभीरताविहीनवालुकानिनादतर्पिणी मृगातारकोदये रवान् करोमि वीचिभिः ॥” "अशीघ्रगामिनी भवामि वन्यगुल्मसङ्कुले जलीयसस्यमालिनि क्षमाङ्गणे दृषद्-युते । पुनर्वहामि वक्रिमाणमातनोमि शीतले जले करोमि धावनानि पूर्णवारिणः कूते ॥"
१. क्षमा-भूमिः ।
३४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org