Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 24
________________ २० व्युत्पत्तिवादः। ष्यतानिरूपितप्रकारतानिरूपितावच्छेदकतायास्तादात्म्यस्य खावच्छेद्यकृत्यादि निष्ठविशेष्यतानिरूपितप्रकारतानिरूपितावच्छेदकताया अवच्छेद्यत्वस्य च सत्वात् कृत्यादौ परंपरया ब्राह्मणगवादिविशेषितस्य दानादेः प्रकारलात् । खनिरूपिताबच्छेदकता. वृत्तिलनियामकसंबन्धयोरावस्यानुपादाने चैत्रोऽत्र फलं भुते मैत्रोऽनमिल्यत्र फलनिष्ठावच्छेदकताविशिष्टत्वस्य समवायसंबन्धावच्छिन्नसंबन्धित्वसंबन्धावच्छिन्नमैत्रनिष्ठावच्छेदकतानिरूपिकायां मैत्रविशिष्टकृतिविशिष्टभोजन विशिष्टकर्मत्वनिष्ठनिरूपकतायामपि सत्वं स्यादिति स उपादेयः। द्वितीयस्यानुपादाने स्वसमानाधिकरणमैत्रवृत्तित्वसंयन्धावच्छिन्नचैत्रनिष्ठावच्छेदकताकतादृशकर्मत्वनिष्ठनिरूपकत्वस्यापि संग्रहः स्यादिति सोप्युपादेयः। तद्धटकखवैशिष्ट्यनियामकसंबन्धेषु प्रथमस्थानुपादाने मैत्रकृतिनकारकचैत्रविशेष्यकज्ञानीयचैत्रविशेष्यत्वस्यापि विशिष्टत्वं स्यादिति तदुपात्तम् । चैत्रनिष्टविशेष्यत्वे स्ववैशिष्ट्यसंपत्तये खतादात्म्यस्य कृत्यादिनिष्ठविशेष्यत्वे तत्संपत्तयेच खावच्छेद्यत्वस्यच खाश्रयत्वनियामकतयाप्रवेशःमैत्रकृतीयसंबन्धविशेषेणकृतिविशिष्टचैत्रस्य विशेष्यत्वे कृतिनिष्ठप्रकारतानिरूपितचैत्रत्वमात्रावच्छिन्नविशेष्यतायाः खवैशिष्ट्यवारणाय फल भुजानचैत्रो मैत्रीयसंबन्धविशेषेण कृतिमानित्यत्रपारतन्त्रीयकर्तृनिष्ठप्रकारतानिरूपितफलभोजनकर्तृचैत्रत्वोभयधर्मावच्छिन्नविशेष्यतावारणाय च खवृत्तित्वखानवच्छेदकानवच्छिन्नत्वयोः प्रवेशः कार्यः । खातन्त्रीयप्रकारतानिरूपितविशेष्यतामादाय दोषः खानवच्छेदकानवच्छिन्नत्वसंवन्धानुपादाने मृग्यः । यत्र चैत्रः फलमेकमन्नं च भुङ्क्ते तत्रानकर्मकभोजनकृतिसंबन्धित्वविशिष्टचैत्र विशिष्टकृतिविशिष्टभोजन विशिष्टकर्मत्वनिष्ठनिरूपकतायाक्षेत्रविशिष्टकृतिविशिष्टभोजनविशिष्टानुवृत्तित्वविशिष्टकर्मत्वनिष्ठनिरूपकतायाश्च वारणायावच्छेदकावच्छिन्नत्वस्य स्वाभाववदवच्छेदकत्वानिरूपितत्त्वरूपतोक्ता। प्रतियोगितावच्छेदकसंवन्धयोरायः चैत्रत्वकृतित्वादिनिष्ठावच्छेदकतासंग्रहार्थः द्वितीयश्च चैत्रकृत्यादिनिष्टावच्छेदकत्वसंग्रहार्थः । एतेन न यत्र यस्य विशेषणत्वं तत्तनिष्टायच्छेदकताकतत्तनिष्ठनिरूपकत्वावच्छेदकत्वादेरपि वारणम् । .. अत्र च वेदाः प्रमाणमित्यत्र प्रमाणत्वएकत्वान्वयेपि न क्षतिः तादृशैकत्वे स्वप्रकृतिप्रयोज्यप्रमाणत्वनिष्ठावच्छेदकताविशिष्टत्वस्य सत्वात् । पूर्वकल्पे तु प्रकृत्यर्थतावच्छेदके तस्मिन् प्रकृत्यर्थताबच्छेदकवत्वविरहात् प्रकृत्यर्थतावच्छेदकतत्वावच्छेदकसाधारणप्रकृत्यर्थतावच्छेदकत्वविवक्षणे प्रकृत्यर्थेपि निरुक्तसाजात्यस्य सत्वेन तत्र प्रकृत्यर्थतावच्छेदकगतैकत्ववद्भेदस्य सत्वात् । एवं प्रकृत्यर्थतावच्छेदकेपि निरुक्तप्रकृत्यर्थतावच्छेदकवत्वस्य समभिन्याहृतपदार्थसंसर्गित्वस्यच सत्वेन तत्र प्रकृत्यर्थगतैकत्ववद्भेदस्य सत्वात् तादृशैकत्वे तादृशानवच्छेदकत्वस्य प्रायशो न बहुस्थलेषु संभवः । अथ यत्र पदार्थानां विशेष्ये विशेषणमितिरीत्या शाब्दबुद्धौ भानं तत्र का गतिः विशिष्टस्य तत्राभासमानत्वेन तत्तत्पदार्थनिष्टविषयतानां निरूप्यनिरूपकभावाभावादितिचेन्न विशिष्टस्याविषयत्वेन विशिष्टसंसर्गिणः सजातीयद्वितीयराहित्यस्याविवक्षिततया तत्तत्पदार्थनिष्टविषयतानां निरूप्यनिरूपकभावाभावेपि क्षतिविरहात् । प्रकृत्यर्थस्य यत्र विशेषणत्वं तनिष्ठविषयताप्रकृत्यर्थनिष्ठविषयतन्योश्च निरूप्यनिरूपकभावसत्वात् तावन्मात्रसंसर्गित्वोपरागेण सजातीयद्वितीयराहित्यासम्भवे तादृशस्थले न भवलेवैकत्वस्य विवक्षितत्वमिति तु विभावनीयम् । भेदप्रतियोगितावच्छेदकताच प्रकारतावच्छेदकसंबन्धावच्छिन्ना ग्राह्या नतु पर्याप्तिसंबन्धावच्छिना तेनव्रीहित्वगतैकत्वस्य स्थाश्रयव्रीहित्वसंबन्धेन ब्रीहिपदार्थेऽन्वयपक्षेऽपि तस्य न तादृशानवच्छेदकत्वानुपपत्तिः । नच ब्रीहावेवतादृशनिरूपकताकाधिकरणखसत्वेन तद्वृत्तिभेदप्रतियोगितानिरूपितनिरुक्तसंबन्धावच्छिन्नावच्छेदकत्वाप्रसिद्धिरिति वाच्यम् प्रकारतावच्छेदकसंबन्धावच्छिन्नावच्छेदकत्वीयखरूपसंबन्धावच्छिन्नतादृशावच्छेदकत्वाभावस्यविवक्षितत्वात् । नच प्रकारतायाः केन रूपेण प्रवेश इति वाच्यं स्वप्रकृतिप्रयोज्यविषयताविशिष्टप्रकारतावच्छेदकत्वस्यैकवचनार्थत्वे निरुक्तपर्यनुयोगासंभवात् । वैशिष्टयं च प्रागुक्तान्य. तमसंबन्धेन स्वविशिष्टनिरूपकताकाधिकरणतापर्याप्तिसंख्यावच्छिन्नवदुत्तिभेदप्रतियोगितानिरूपितावच्छेदकतावदन्यत्वसंबन्धेन ! अवच्छेदकतावत्ता च खावच्छेदकसंबन्धावच्छिन्नत्वखसामानाधिकरण्योभयसंबन्धेन । यत्वतत्त्वयोः शब्दानुगमस्थले उपादेयत्वे येन संबन्धेन यदेकवचनार्थस्य शाब्दबुद्धौ प्रकारत्वं तत्संबन्धावच्छिन्नावच्छेदकत्वीयखरूपसंबन्धावच्छिन्नप्रतियोगिताकनिरुतावच्छेदकत्वाभात्रवत्वसंबन्धेन खप्रकृतिप्रयोज्यविषयताविशिष्टैकत्वं हि तदेकवचनार्थ इत्यपि वक्तुं शक्यम् । तृतीयसंबन्धानुपादाने पाण्डुदारा माद्रीयन माद्रीपदार्थस्य विधेयत्वे तद्गतैकत्वस्य तादृशभेदप्रतियोगितानवच्छेदकत्वं न स्यादिति स उपात्तः तथासति पाण्डदारत्वावच्छिन्नतादात्म्यसंबन्धावच्छिन्नसंबन्धिलसंबन्धावच्छिन्नानिरूपकता माद्रीत्वनिष्ठा च निरूपकताखविशिष्टा भवतीति तदुभयनिरूपिताधिकरणताबत्वं मद्रजायां पाण्डुपन्यामेव वर्तत इति तादृशैकत्यस्य तादृशानवच्छेदकलसम्पत्तिः। तादृशनिरूपकताद्वयसंग्रहार्थ संबन्धद्वयोपादान मिति द्रष्टव्यम् । चतुर्थस्य चोपादानं राज्ञः पुरुषोऽत्रास्तीत्यादौ राजनिछैकत्वस्य तादृशानवच्छेदकत्वसंपत्त्यर्थ संबन्धप्रयोजनं प्रागुक्तरीयानुसंधेयम् । संबन्धानामन्यतमत्वेनोपादानमविधाय स्वतादात्म्यापनमुख्यविशेष्यतावत्वादिप्रत्येकसंबन्धेन वैशिष्टयमविधाय व्युत्पत्तिचतुष्टयं वाच्यमिति वा प्रकार आदरणीयः । अथ पशुना रुद्र यजेतेल्यत्र का गतिः इष्टसाधनीभूतयागकर गत्वपशुलाधिकरणत्वयोस्तत्तदेकत्वानाश्रयेषु तत्तत्पशुष्वपि सत्वेन पशुनिष्टैकत्वमात्रस्य तादृशानवच्छेदकत्वासंभवादिति चेदुच्यते । यत्रकस्मिन् समभिव्याहतपदार्थ प्रकृत्यर्थयोः संबन्धव्यावृत्तय एकत्वं विवक्षितं

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218