Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 182
________________ व्युत्पत्तिवादः । भागनिरूपितान्यमात्रनिष्ठाधिकरणताप्रयोजकत्वम् । कारणस्यापि स्वाश्रयनिष्ठकार्याधिकरणतामा त्रप्रयोजकत्वादिति सामञ्जस्यात् । अथ वृक्षात्पतति, वृक्षाद्विभजत इतिवत् वृक्षास्यजतीत्यादि कथं प्रयोगः । पञ्चम्यर्थस्य विभागजनकत्वस्य विभागावच्छिन्न क्रियारूपत्यांगेऽवधिमत्त्वरूपपण म्यर्थस्य च विभागरूपधात्वर्थतावच्छेदकफलेऽन्वये बाधकाभावात् । नच विभागावच्छिन्न त्रि यायां विभागान्योऽव्युत्पन्नः । उद्देश्यतावच्छेदकविधेययोरैक्यादिति वाच्यम् । जनकतासंबन्धे विभागावच्छिने प्रकृत्यर्थविशेषित विभागजनकत्यान्वये व्युत्पत्तिविरोधविरहात् । नच प्रणम्यर्थ विभागजनकत्वावधिमत्वयोरन्वयबोधे धातुविशेषाधीनव्यापारविभागोपस्थिते हैतुत्वापगमात्तदभा वेन त्यजधातूपस्थिततत्तदर्थे न पञ्चम्यर्थान्वय इति वाच्यम् । त्यजिपत्योस्त्यजिविभज्योश्च पर्याय ताभ्रमदशायां त्यजत्यर्थव्यापारविभागयोः पञ्चम्यर्थान्वयात् त्यजधातुजन्य तत्तदर्थोपस्थितेरपि पश्च म्यर्थान्वयहेतुताया अवश्यं वाच्यत्वात् । नच पञ्चम्यर्थविभागजनकत्वान्वयबोधे धातुजन्यवि भागरूपफलानवच्छिन्नव्यापारोपस्थितिस्तादृशावधिमत्त्वान्वये च धातुजन्यविभाग मुख्य विशेष्यको पस्थितिर्हेतुरिति त्यजधातुजन्यविभागावच्छिन्नव्यापारोपस्थितिविषयव्यापारविभागयोः पञ्चम्यर्थवि भागजनकत्वावधिमत्त्वान्ययासंभव इति वाच्यम् । फलव्यापारयोः पृथग्धात्वर्थतामते त्यजधा तोरपि प्राधान्येन विभागस्य तदनवच्छिन्नस्पन्दस्य चोपस्थित्या तदुपस्थितिविषयतादशार्थयोरवि ततत्पश्ञ्चम्यर्थान्वयसंभवादिति चेन्न । फलावच्छिन्नव्यापारस्य धात्वर्थतामते उक्तरीत्यैव साम अस्यात् । तयोः पृथग् धात्वर्थतामते च फलविषयकव्यापारविषयकबोधं जनयतु धातुपदमित्ये ताशेच्छारूपा फलव्यापारयोरेकैव शक्तिः, पुष्पवन्तादिपदवत् । नतु फलविषयकं व्यापारविषयकं बोधं जनयत्विति समूहालम्बनात्मकषोधनिष्ठतत्तद्विषयकत्वावच्छिन्नविभिन्नविषयताशालिसंकेतरूपा । तथासति नानार्थत्वाविशेषेण कदाचित्फलव्यापारयोरेकैकपरित्यागेनाप्येकैकस्य बोधप्रस ङ्गात् । तथाच विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधे सङ्केतीय बोधनिष्ठविषयत्वांशे विभागेतर विषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिशानं क्रियांशे विभागजनकत्वरूपपञ्चम्यर्थान्वयबोधे च ता दशबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिनत्वावगाहिधातुशक्तिशानं हेतुरुपेयत इतित्यजधातोस्तादृशज्ञानमभ्रान्तस्यासंभवीत्यतिप्रसङ्गानवकाशात् । शक्तिद्वयादिवदर्शित कशतेरपि कर्मप्रत्ययस्थले फलव्यापारयोर्विशेषणविशेष्यभाववैपरीत्येन शाब्दबोधसंभवात् । विशिष्टशक्तावेव वि शेषणविशेष्यभावविपर्यासानिर्वाहात् । यदिच फलव्यापारयोः शक्तिभेदे एकार्थपरित्यागेनापरार्थबोधप्रसङ्गवदुक्तरूपसङ्केतोपगमेऽपि पुष्पवन्तपदशक्यविशेषेण तत इव सकर्मकधातुतोऽपि विशेषणविशेष्यभावानापन्नस्यैवान्वयबोधः स्यान्नतु तदापनार्थद्वयविषयक इत्युच्येत तदा संकेतस्य बोधांशे विशेषणतया भासमानयोः फलव्यापारविषयकत्वयोरवच्छेद्यावच्छेदकभावावगाहित्यमपि स्वीकरणीयम् । विशेषणविशेष्यभावेन भासमानयोरेव फलव्यापारयोर्विषयताद्वयमवच्छेद्यावच्छेदक भाषापनमिति तथैव तयोर्भानम् । पुष्पवन्तपदसंकेतेच चन्द्रसूर्यविषयतयोरवच्छेद्यावच्छेदकभावो न भासते अतस्तयोर्विशृङ्खलमेव भानमिति न काप्यनुपपत्तिः । यदिच वृक्षात्स्यन्दत इत्यादिर्न प्रयोगस्तदा सकर्मकधातोः फलविशिष्टव्यापारवाचकतामते पञ्चम्यर्थविभाग जनकत्वबोधे विभागानवच्छिन्नफलावच्छिन्नव्यापारविषयक धातुशक्तिज्ञानजन्योपस्थितिः फलव्यापारयोर्वैशिष्ट्यानुपरकयो १७८ विभागेतरविषयकत्वावच्छिन्नत्वानवगाहीति । नच विभागईश्वरेच्छीय विभज्धातुनिष्टविषयतानिरूपितजनकस्वविषयतानिरूपितबोधनिष्ठविषयतानिरूपित्तविषयत्वनिष्ठविषयतानिरूपितविषयतावानिति शक्तिज्ञानस्य बोधनिष्ठविषयत्त्रांशे विभागेतर विषयकत्वानवच्छिन्नत्वा नवगाहित्वेन तस्मादुपस्थिते विभागे पश्चम्यर्थानन्वयप्रसङ्ग इतिवाच्यमिष्टापत्तेः । यतु विभागेतरविषयकत्वावच्छिन्नानवगाहीत्यत्र तात्पर्यमिति तत्र त्यजधातुशक्तिज्ञानस्याप्युक्तरूपस्य तादृशानवगाहिनः प्रमाTreer संभवेनाभ्रान्तस्य वृक्षात्यजतीति प्रयोगबोधयोरापतेस्तद्वारणायोकानवच्छिन्नत्वावगाहिज्ञानत्वेन कारणत्वस्यावश्य

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218