Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 204
________________ २०० व्युत्पत्तिवादः। अथ चैत्रनिष्ठक्रियाजन्यसंयोगविभागादेमादाविव चैत्रादावपि सत्त्वात्, चैत्रेण त्यज्यते गम्यते चैत्र, इत्यपि स्यात् । न स्याश्च चैत्रेण न गम्यते, न त्यज्यते चैत्र, इत्यादीति चेत् । अत्र दीधितिकारप्रभृतयः फलमिव तत्र क्रियान्वयिपरसमवेतत्वमपि कर्माख्यातार्थः। परत्वे च भेदरूपे प्रतियोगितया फले आश्रयतयान्वयिनः प्रथमान्तपदोपस्थाप्यस्यान्वयः । चैत्रे चैत्रान्यसमवेतक्रियाजन्यसंयोगादिमत्त्वस्याम्वयायोग्यत्वात् । तादृशसंयोगाद्यभावस्य च तत्रान्वययोग्यत्वा तत्रापत्यनुपपत्त्योरवकाश इत्याहुः। तत्रेदं चिन्तयन्ति । प्रथमान्तपदोपस्थाप्यकर्मणोऽन्वयितावच्छेदकावच्छिन्नत्वाविशेषितप्रतियोगितया भेदांशेऽन्वयोपगमेऽपि चैत्रेऽपि चैत्रस्य द्वित्वादिनाभेदसंभवेन तत्समवेतक्रियायां परसमवेतत्वाक्षतेरुक्तदोषोद्धारासंभवः । अन्वयितावच्छेदकावच्छिन्न प्रतियोगितया तत्र तद्भानस्वीकारे चैत्रेण द्रव्यं गम्यते इत्यादावनुपपत्तिः, द्रव्यत्वावच्छिन्नभिन्नसमवेत. स्वादेः क्रियादौ बाधात् । नच तत्र द्रव्यपदं लक्षणया चैत्रान्यद्रव्यपरमिति वाच्यम्, मन्देन गम्यते मन्द इत्यादी मन्दस्य मन्दान्यमन्दपरत्वासंभवात् मन्दान्यसमवेतमन्दवृत्तिक्रियाया अप्रसि. स्यानुपपत्तितावस्थ्यात् । अननुगतमन्दगततत्तद्व्यक्तित्वोपस्थित्यनैयत्वात् । कर्तृव्यक्तिभिन्नमन्दत्वेन लक्षणाग्रहस्य ताशवाक्यजन्यधीपूर्वत्वस्य नियमतोऽसंभवात् । नच फलविशेष्यव्यक्तीनां तत्सम्यक्तित्वावच्छिन्नप्रतियोगितासंबन्धेन परत्वेऽन्वयात्संबन्धोपस्थितेश्चानपेक्षणान्नानुपपत्तिरिति वा. च्यम् । संसर्गतात्पर्यशानानुरोधेन तदुपस्थितेरपि शाब्दबुद्धावपेक्षणीयत्वात् । तद्व्यत्या तव्यक्तिर्न गम्यते इत्यादावभावप्रतियोगिकोटिप्रविष्टतव्यक्तित्वावच्छिन्नभिन्नसमवेततव्यक्तिसमवेतक्रियाया अप्रसिद्धः। येतु फलं भेदश्च कर्मप्रत्ययार्थः, फले जन्यतासंबन्धेन भेदे च स्वावच्छिन्नप्रतियोगिताकस्वसंबन्धेन क्रियाया अन्वयः भेदफलयोश्च कर्मण्याश्रयतासंबन्धनान्वयः । चैत्रसमवेतक्रियावच्छि चैत्रो नाश्रय इति ताशक्रियाजन्यफलाश्रयत्वेऽपि तस्य चैत्रेण चैत्रो गम्यतइति न प्रयोगः । मन्दो मन्देन गम्यते इत्यादेरेकमन्दादिनिष्ठक्रियावच्छिन्नभेदसहितस्य तज्जन्यफलस्य मन्दान्तरे सत्त्वान्नानुपत्तिरिति युवते । तन्मतेऽपि चैत्रेण चैत्रो न गम्यते इत्यादेरनुपपत्तिर्दुर्वारैव । चैत्रे चैत्रसमवेतक्रियावच्छिन्नभेदाभावसत्त्वेऽपि तादृशक्रियाजन्यफलाभावस्य बाधात् । नय फलाभाषो ना न तत्र प्रत्याय्योऽपितु भेदाभाव एवं कर्मणीति वाच्यम् । यदा चैत्रेण ग्रामो न गम्यते तदापि तादृशप्रयोगानुपपत्तेः। तादृशभेदाभावस्य ग्रामे बाधात् । नच भेदस्य सामानाधिकरण्यसंबन्धेन फलेऽन्वयः ताशसंबन्धेन क्रियावच्छिन्नभेदविशिष्टस्य क्रियाजन्यफलस्यैव चाभावो ना कर्मणि प्रत्याय्यतइपि न दोषः विशिष्टाभावस्योभयत्र सरवादिति वाच्यम् । एवमपि मन्देन यत्रापरमन्दो न गम्यतेऽपितु प्रामादिरेव तत्र प्रामादिगन्तरि मन्दे मन्दान्तरनिष्ठक्रियावच्छिन्नदसहितस्य स्वात्मकमन्दनिष्ठक्रियाजन्यनामादिसंयोगस्य सत्त्वेन विशिष्टाभावबाधान्मन्देन मन्दो न गम्यते इत्यादेरनुपपत्तिः । यदि फलमेव कर्माख्यातार्थस्तस्याश्रयत्वखानुकूलक्रियावच्छिन्नभेदवत्वोभयसंबन्धेन कर्मण्यन्वयः, नसमभिव्याहारे च तदुभयसंबन्धावच्छिन्नक्रियाजन्यफलाभाव एव तत्रान्वयीत्युच्यते, तदापि यत्र चैत्रमत्रयोरुभयकर्मजसंयोगस्तत्र चैत्रनिष्ठतादृशसयोगस्य चैत्रे आश्रयत्वस्वानुकूलक्रियावच्छिन्नभेदवत्स्वोभयसंबन्धेन सत्त्वाच्चैत्रेण चत्रो न गम्यते इत्यस्यानुपपत्तेः। चैत्रेण चैत्रो गम्यते इत्यापत्तेश्च । अप्रोच्यते । भेदः फलंच कर्माख्यातार्थः । स्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन चैत्रादिनिष्ठक्रियाविशेषितभेदस्य स्वसामानाधिकरण्यस्वप्रतियोगितावच्छेदकजन्यत्वोभयसंबन्धेन फलेऽन्वयः। विशिष्टफलस्य नमसमभिव्याहारे विशिष्टफलाभावस्य नसमभिव्याहारे च कर्मण्यन्वयः चैत्रमैत्रयोरुभयकर्मजसंयोगस्थले चैत्रवृत्तिक्रियावच्छिन्नभेदस्य चैत्रेऽसत्वेन विशिष्टफलाभावोऽक्षतः। यत्र मन्देन ग्रामो गम्यते नतु मन्दान्तरं तत्र मन्दनिष्ठग्रामसंयोगे मन्दान्तरनिष्ठक्रियावच्छिन्नभेदसामानाधिकरपयस्य तन्मन्दान्तर्भावेण सत्त्वेऽपि तादृशभेदप्रतियोगि

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218