Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः ।
२०१ सापच्छेदकमन्दान्तरनिष्ठक्रियाजन्यस्वस्थासत्वात्तद्धटितोभयसबन्धेन मन्दनिष्ठकियावच्छिचमेदधिशिष्टस्य फलस्याभावो भन्देऽक्षत पवेति न कश्चिद्दोषः। कर्तृप्रत्ययस्थले चाधेयतया प्रत्यर्थान्वितस्य फ. लक्ष्य भेदरूपापरार्थे सामानाधिकरण्यषजनकक्रियावच्छिन्नप्रतियोगिताकस्वोभयसंबन्धनान्वय: ताहशभेदस्य च स्वप्रतियोगितावच्छेदकत्वसंबन्धेन क्रियायाम् । यत्र चैत्रक्रियया प्रामेन संयोगऽपि त्वन्यत्र तत्र ग्राम गच्छति चैत्र इति प्रयोगवारणाय खजनकक्रियावच्छिन्नप्रतियोगिताकत्वस्व चैत्रो प्रामं गच्छतीत्यादौ चैत्रश्चैत्रं गच्छतीति प्रयोगवारणाय सामानाधिकरण्यस्य संबन्धमध्ये कि देशः चरमस्थले चैत्रग्रामसंयोगस्य ग्रामनिष्ठचैत्रक्रियावच्छिन्नभेदे संबन्यद्वयसस्वेपि चैत्रवृतित्वविन शिष्टस्य तत्संयोगस्य तादृशभेदे सामानाधिकरण्यविरहाचैत्रक्रियायां तद्भेदप्रतियोगितापच्छेदकत्वसस्वेपि नातिप्रसङ्ग । चैत्रौत्रं न गच्छतीत्यादौ च तादृशभेदान्वितक्रियाकर्तृत्वाभाव पव चैत्रे प्रतीयते, मतु क्रियायां द्वितीयार्थविशिष्टभेदस्य प्रतियोगितावच्छेदकत्वसंबन्धावच्छिन्नाभावः । तादृशसंबग्धस्य वृत्त्यनियामकत्वात् । यदि तात्पर्य विशेषवशात् क्रियानुयोगिकोऽप्यभावः क्वचित्प्रतीयते इस्यनुभवसिद्धं तदा प्रतियोगितावच्छेदकत्वेऽपि द्वितीयाद्यर्थत्वमुपगम्यविशिष्टभेदप्रतियोगितावच्छेदकत्वाभावान्वय पव तत्रोपगन्तव्य इति दिक् । फलावच्छिन्नव्यापारबोधकधातूनां फले व्यापारे च शक्तिद्वयम् । कर्घाख्यातस्थले फलं धात्वर्थव्यापारविशेषणतया भासते तत्र द्वितीयार्थाधेयत्वान्धयः, कर्माख्यातस्थले फलं धात्वर्थव्यापारस्य विशेष्यतया भासते तस्य विशेप्यतया आख्यातार्थ आश्रयत्वं तद्विशेष्यतया कर्मेति दीधिधिकृतः। केचित्तु, संयोगादिरूपफलावच्छिन्नब्यापारबोधकानां गमिप्रभृतीनां कर्मप्रत्ययापेक्षया बहूनां फले शक्तिकल्पनामपेक्ष्य कर्मप्रत्ययानां फले शक्तिकल्पनमेव लघीयः, धातूनां च व्यापारमात्रवाचिता । धातोः फलबोधकतामते नामार्थधात्वर्थयोराधाराधेयभावसंबन्धेन साक्षादग्धयासंघात्फलाश्रयत्वस्थ कर्मणि प्रकारतया भानस्योपगन्तव्यतया तत्संसर्गस्याधिकस्यभानकल्पनेनापि गौरवं फलस्य प्रत्ययार्थत्वे च तदाश्रयत्वं संबन्ध एवेति लाघवम् । नच धातूनो व्यापारमात्रवाचित्वे ग्राम त्यजतीत्यादितोऽपि प्रामं गच्छतीत्यादित इव संयोगादिरूपफलावच्छिन्नस्यन्दबोधापत्तिः ।
। इत्यादितोऽपि ग्रामो गम्यतइत्यत इव स्पन्दजन्यसंयोगादिमत्त्वेन भानप्रसङ्ग इति घाच्यम् । कर्मप्रत्ययस्य संयोगविभागादिरूपनानाफलवाचिल्वेऽपि तत्तत्फलबोधे धातुविशे षसमभिव्याहारशानस्यापेक्षयातिप्रसङ्गविरहात् । त्यजति गच्छति स्पन्दते इत्यादौ कर्मासमभिव्याइते बोधबैलक्षण्यं च तत्तधातूनां फलविशेषावच्छिन्नव्यापारलक्षणोपगमेनोपपादनीयम् । फलान्वितस्वार्थव्यापारबोधकत्वं गम्यादेः स्वभावाधीनं तदभावात्स्यन्दिप्रभृतिष्वकर्मकत्यव्यवहार इत्या. हुस्तम । यागमिप्रभृतीनामिव त्यजिगमिप्रभृतीनामपि पर्यायतेति भ्रमवशायां याति गच्छतीत्या. बाविव त्यजति गच्छतीत्यादितोऽप्यविलक्षणबोधोत्पत्त्या धातुविशेषसममिव्याहारस्य फलविशेषयोधनियामकताकल्पनासंभवात् । नच प्रामं त्यजतीत्यादितः संयोगावच्छिन्नव्यापारबोधस्तात्पर्य सत्त्वे इभ्यतएव । स्वन्मतेऽपि तात्पर्यानुरोधेन लक्षणया तद्रोधोत्पत्तेरावश्यकत्वात् । परंतु तत्र विभागादिरूपफलपव फलप्रत्ययतात्पर्यस्यानादितया संयोगादिरूपफलप्रत्यायनेच्छया खरसतो
साउशप्रयोग इति वाच्यम् । विना शक्किनम लक्षणाग्रहं च ग्रामं त्यजतीस्यादितः सत्यषि तात्पर्य संयोगावच्छिन्नव्यापाराप्रतीतरानुभविकतया धातोः फलविशेषवाचिताया आवश्यकत्वादशस्यते इष्यते क्रियते घट इत्यादौ विषयत्वरूपं कर्मत्वं तर्थः। नच कृतिविषयतायाः फलतत्साधनतदुपादाः सर्थः । घटादिपदेवपीर्ति । घटलकलशसाधनेकधर्माणां शक्ततावच्छेदकले गौरवादिति शेषः । प्रवृत्तिनिमित स्वाइति । शक्यतावच्छेदकं यथा शब्दव्यवहारप्रवृत्तर्निमितं तथा शक्ततावच्छेदकमपीति शक्ततावच्छेदकतायाइत्यर्थः। हमोपगम्तव्यतिदिगिति । प्रामं गच्छति न गुणं नचाभावमित्यादौ तु गतिर्द्वितीयायामुक्का द्रष्टव्येति सूचितम् । १. एतत्प्रतीकं १९९ पृष्ठस्य अष्टमयंक्तौ द्रष्टव्यम् । २. एतच्च तत्रैवैकादशपंक्ती।
व्युत्प. २६

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218