Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 189
________________ गूढार्थतत्वालोकव्याख्यासहितः । इस्थमेव च संयन्धत्वेन कर्मत्वादिविवक्षया मातुः स्मृतमित्यादावधीगर्थेस्य नुशासनस्य नियमपरसया सार्थक्योपपादनं वृत्तिकृतामुपपद्यते । संबन्धत्वविशिष्टसंबन्धविवक्षायां शेषे षष्ठीत्यस्य पछयविधायकत्वे तादृशानुशासनस्य विधित्वमेव स्यात् । अतपवच "आमं शुद्धस्य पक्कानं पचमच्छिष्टम. च्यत" इत्यत्र पक्कमित्यनुषज्यमानायाः षष्ट्याः संबन्धत्वेन कर्तृत्वमर्थः न तु स्वत्वम्। शुगकर्तृकवृषो. रसर्गे चरुहोमानुपपत्तेरिति नवीनस्मार्सानां मतमप्युपपद्यते । नच तत्र कृद्योगा षष्ठी कर्तृत्वत्वेनैष बोधयतीति वाच्यम् । निष्ठायोगे तस्या निषेधात् । अतएव "नाग्निस्तृप्यति काष्ठानां न पुंसां काम. लोचना" इत्यादी करणत्वादेः संबन्धत्वेन विवक्षया षष्ठयुपपत्तिः तृतीयादिविधिविषयतया वि. शेषरूपेण करणत्वादिसंबन्धविवक्षायां षष्ठ्यनुपपत्तेः । अथ संबन्धत्वेन संन्बधस्य षष्ठीवाच्यत्वे पुरुषस्य दण्ड इत्यादौ दण्डस्य पुरुष इत्यादिरपि प्रयोगः स्यात् । दण्डी पुरुषो रूपवान् घट इस्यादिवहण्डरूपादेः पुरुषघटाद्यनाधारत्वेऽपि पुरुषी दण्डो घटवदूपमित्यादिः प्रयोगो दुर्वारः, तदत्रास्तीत्यर्थ इव तपस्येत्यर्थे मतुपो विधानात् । दण्डरूपादिपदोसरषष्ट्या चैत्रघटादिनिष्ठतदर्थसंबन्ध्रप्र. तिपादने तदुत्तरमत्वर्थीयस्य प्रसंगादिति चेत् । विशिष्य केषांचिरसंबन्धानां षष्ठयर्थतोपगमेऽपि रमित्यादिप्रयोगानुरोधेन समवेतत्वादेः षष्ट्यर्थताया आवश्यकत्वेन हस्तस्य चैत्रः, चैत्रवान् हस्तः शाखाया वृक्षः वृक्षवती शाखेति कथं न प्रयुज्यते पूर्वप्रयोगाभावादिति चेत्तुल्यम् । नराणां क्षत्रियः शूरो नरेषु वा, अध्वगानां रथगामिनः शीघ्रतरा अध्वगेषु वा, गवां कृष्णा संपन्नक्षीरा गोषु वेत्यादौ यतश्च निर्धारणमित्यनेन षष्ठीसप्तम्यौ विधीयेते, तदर्थश्च जात्यादिविशेषणविशि. एयद्धर्मावच्छिन्नस्य तादृशविशेषणशून्यतद्धर्मावच्छिन्नध्यावृत्तत्वविशिष्टविधेयवत्तया प्रतिपादनं तावच्छिन्नार्थकपदाषष्ठीसप्तम्याविति । प्रकृतेच क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छन्धनरादिव्यावृत्तत्वेन शौर्यविशेषादिरूपविधेयसंबन्धोऽभिमत इति नरादिपदाषष्ठी। नरेभ्यो राक्षसाः शूरतमा इत्यादी राक्षसत्वादिविशेषणविशिष्टे तच्छ्रन्यनरादिव्यावृत्तशूरतमत्वविवक्षायामपिन निरुक्तनिर्धारणं राक्षसत्वादिविशिष्टस्यनरत्वादिसामान्यधर्मानवच्छिन्नत्वात् नराणां क्षत्रियः शूरतम इत्यादी क्षत्रियादिनिष्ठशूरतमत्वादौ नरादिसामान्यव्यावृत्तत्ववाधात् शन्यत्वान्तं व्याः त्यवधेर्षिशेषणम् । तद्धर्माश्रययत्किचिद्यावृत्तत्वविषक्षणे द्रव्येषु घटो गन्धवानित्यपि स्यात्, गन्धा देर्यत्किचिद्व्यव्यक्तिव्यावृत्तत्वात् । ताशविशेषणशून्यसामान्यव्यावृत्तत्वनिवेशे नराणां क्षत्रियः शूरतम इत्यादावेव तदसंभवः । शूरतमत्वादेः क्षत्रियत्वादिशून्यराक्षसाधन्यावृत्तत्वादतस्तधर्मायच्छिन्नेति । अथ विधेये जास्यादिविशेषणशून्यसाधारणधर्मावच्छिन्नान्धित व्यावृत्तत्वं साधारणधर्मावच्छिन्नवाचकपदोत्तरषष्ठ्यादेरेवाओं वाच्यः । तावता च नरत्वादिरूपसाधारणधर्माव. च्छिन्नवृत्तत्वस्यैव लाभः संभवति । नतु क्षत्रियत्वादिशून्यत्वविशेषितनरादिव्यावृत्तत्वस्य प्रकत्यर्थे नरादौ तादृशविशेषणशून्यत्वबोधकाभावात् । नच षष्ठ्या पव तदर्थः शत्तथानन्त्यप्रसङ्गात्। नच भेद एव षष्ठयर्थः तत्रच क्षत्रियादिपदार्थस्य प्रतियोगित्वेनान्वयात क्षत्रियान्यन लाभः शक्तिभेदं विनैवेति वाच्यम् । पवमपि संख्यातिरिक्तविभक्त्यर्थस्य प्रकृत्यर्थविशेष्यतयैव भानमिति व्युत्पत्तिविरोधापरिहारात् । नरेषु क्षत्रियाणामेव शौर्यमित्यादी क्षत्रियादेविभत्यर्थवि. शेषणतयोपस्थितस्य भेदे विशेषणतया भानोपगमे व्युत्पत्यन्तरविरोधाश्च । अस्तु लक्षणया मरादिपदादेव क्षत्रियान्यनरत्वादिविशेषरूपेणोपस्थितिरिति चेत् । अस्तु । व्यावृत्तत्वं किं तावत् व्यवच्छेदः क्रियते कुलालो घटस्य कर्ता न पटस्येति कुलालसंयुक्तऽपि घटे संवन्धनिषेधस्थले संवन्धत्वेनाभावस्य वाघितखात् कर्मतालादिना कर्मत्वबोधो लक्षणयैव भवति सा च कर्मवस्यान्यविभक्त्यर्थत्वेऽपि कर्तृकर्मणोः कृतीति सूत्रेणानुशिष्टत्वान्न विरुध्यते नज्समभिव्याहारस्थले कर्तृतात्वेन कर्तृत्वबोधे विवक्षितेऽपि तृतीयादिकं न भवत्यपि तु ष - बेति नियमस्य निरूढलक्षणाग्राहकलपर्यवसन्त्रस्य सूत्रफलत्वेन सूत्रवैयर्थ्यस्यापि न प्रसङ्ग इति भावः । तदर्थश्चेति । ४ व्यु

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218