Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः ।
बैंक कियान्तरे संबन्धः । तत्र वर्त्तमानार्थक कुत्समभिव्याहारस्यले समानकालीनत्वं दोग्धव्यासुगतयदि भविष्यदर्थकृत्स्थले प्राकालीनत्वं दुग्धासुगतइत्यादावतीतार्थकृत्स्थले उत्तरकालीनत्वं संबन्धतयां भासते पाथसि पीते तृषा शाम्यतीत्यादावती तार्थककृत् समभिव्याहारात्कार्यकारणभावोऽपि संबतथा भासत इत्यादिकमूहनीयम् । गुणान्यत्वे सति सत्त्वादित्यादी सतीत्यनन्तरं सत इस्यध्याहार्यअन्यथा लक्षणीय क्रियाभावेनोकसूत्राविषयतया सप्तम्यनुपपत्तेः । तत्र चारधातोरर्थ आधारता गुमान्यत्वाद्याधारतायाश्च सत्ताधारतायां तद्वनिष्ठत्वं संबन्धतया भासतइति चिन्तामणिकारोकसामानाधिकरण्यलाभनिर्वाहः । शयानेन चैत्रेण भुक्तमित्यादौ शयनभोजनादिक्रिययोः समानकालीनत्वभानेऽपि तत्र लट्प्रत्ययेनैव समभिव्याहाराद्भोजनादिसमानकालीनत्वं शयनादिक्रियायां बोच्यतेऽतो न सप्तमी अन्यतस्तदनभिधानएव सप्तमीविधानात् । इति सप्तमी ।
१८९
: चैत्र त्वया भुज्यतामित्यादौ संबोधने चेति प्रथमा संबोधनमेवाह, तच्च वक्तुख्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा । प्रथमार्थतादृशेच्छाया विषयतासंबन्धेन प्रकृत्यर्थविशेषणतया भानम् । अथ संबोध्यत्वज्ञानं विनापि त्वया भुज्यतामित्यादिवाक्याधीनस्य चैत्रादेर्वाक्यार्थबोधस्य भोजनादि - प्रवृत्तेश्च निर्वाहात् चैत्रेत्यादिप्रथमान्तपदप्रयोगोऽनर्थक इति चेन्न | संबोध्यतानुमापकासाधारनाभिमुख्यादिविरहे विशिष्यचैत्रत्वाद्यवच्छिन्ने युष्मत्पदशक्तिग्रहनिर्वाहस्यैव तत्प्रयोजनत्वात् । चैत्रत्वाद्य बोध्यत्वग्रहं विना संबोध्यतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नवाचक युष्मत्पदस्य विशिष्यचैत्रत्वाद्यवच्छिन्ने शक्तेर्निश्चेतुमशक्यत्वात् । न चैवमपि यत्रानन्तरवाक्यं न युष्मच्छन्दघटितं चैत्रात्र घटोऽस्तीत्यादौ तत्र संबोधनपदसार्थक्यं दुरुपपादमेवेति वाच्यम् । तत्रापि तत्तद्वाक्ये स्वीयवाक्यार्थबोधार्थोच्चरितत्वरूप तात्पर्यनिश्चयार्थमेव तत्पदप्रयोगात् । तादृशतात्पर्यनिश्चयं विना श्रुतादपि तत्तद्वाक्या चैत्रादेः शाब्दबोधासंभवात् । चैत्रस्याश्वानयनादिबोधाय मैत्रस्वच लवणानयनादिबोधायोश्च्चरितात् सैन्धवमानयेति वाक्याद्वैपरीत्येन चैत्रमैत्रयोस्तद्वाक्यार्थयोधवारणाय तदीयतदर्थबोधे तदीयतद्बोधार्थेच्चरितत्वरूपतात्पर्यनिश्चयस्य हेतुताया आवश्यकत्वात् । संख्यातिरिक्तसुबर्थः प्रकृत्यर्थविशेष्यतयैव भासत इति नियमे संख्याभेदवत्संबोधन भेदोऽपि निवेशनीयः अतः संबोधनस्य प्रकृत्यर्थविशेषणतया भानेऽपि न क्षतिः । संबोधनस्य प्रकृत्यर्थविशेतयैव वा भानमुपेयम् । वस्तुतो नामार्थस्य प्रकृतिप्रत्ययार्थमन्तरा कृत्वैव क्रियान्वय इत्यनुरोधात्सुबर्थ कर्मत्वादेः प्रकृत्यर्थविशेष्यतयैव भानमुपेयते नतूतनियमानुरोधेन तथा नियमे मानाभावात् । संयोधनविभक्तयन्तप्रकृत्यर्थस्यान्यत्र विशेषणतयाऽन्वयात्संबोधनस्य विशेष्यतया भानं निर्युक्तिकमिति कृतं विस्तरेण । इति संबोधनम् ।
प्रातिपदिकप्रकृतिकाः स्त्रियामित्यनेन विहिताष्टाबादयः कचित्स्त्रीखं प्रकृत्यर्थविशेषणतया श्रोधयन्ति । अजा अश्वा शूद्रा श्यामा चपला ब्राह्मणी गौरी सुकेशी गर्भिणीत्यादौ । स्त्रीत्वं च योनिमत्वम् । नच स्त्रीपरपदात्साधुत्वार्थष्टाबादिप्रत्ययो नतु स्त्रीत्वं तस्यार्थः । कचित् स्त्रीत्वबोधश्च स्त्रीप्रत्यय प्रकृतितात्पर्यविषयत्वरूपलिङ्गज पवेति वाच्यम् । खादौ व्यभिचारेण तादृशदेतो! स्त्रीत्वासाधकत्वात् । प्राणित्वेन विशेषणेऽपि देवतादौ व्यभिचारात् । वस्तुतस्त्वजवत्यपि अजा नास्तीत्यादिप्रयोगात्स्त्रीत्वस्य नञर्थान्वयितावच्छेदकतया भानमावश्यकम् अन्यथा पुंसाधारणजातिविशेषावच्छिन्नाभावस्य बाधेन तादृशप्रयोगस्य प्रामाण्यानुपपत्तेः । नच प्रातिपदिकार्थ एव स्त्रीत्वं तस्य च तदर्थएव जात्यादिमति विशेषणत्वेनान्त्रयः स्त्रीप्रत्ययास्तु द्योतका एव । अतपव "स्वार्थी द्रव्यं च लिङ्गं च संख्या कर्मादिरेव च । अमी पश्चैव नामार्थास्त्रयः केषांचिदग्रिमा" इति शान्दिकानां कारिकापि सङ्गच्छते । तत्र स्वार्थो जात्यादिरूपो गवादिपद मुख्यार्थः । द्रव्यं गवादिरूपस् तन्मते औपचारिको गवादिपदार्थः । लिङ्गस्य प्रातिपदिकार्थत्वमावश्यकमेव नात्र ब्रा

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218