Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः । उपाध्यायादधीते, रामादधीतसंदेश, इत्यादावाख्यातुराख्यातोपयोग इत्यनेनापादानता । तत्र प्रकस्यर्थपण्डितादिकतृकोचारणाधीनत्वं पञ्चभ्यर्थः । तस्य च श्रवणोचारणार्थविशेषज्ञानादिक्रियायामन्वयः । मृत्पिण्डाद् घटो जायते इत्यादी जनिकर्तुःप्रकृतिरित्यनेनापादानत्वम् । तत्र प्रकृतित्वं न विकारित्वम्, प्रकृतिविकृतिभावाभावेऽपि “प्राक्केकयीतो भरतस्ततोऽभूद्, वायोर्जात" इत्यादी पञ्चमीदर्शनात् । नहि सुतवपुषो मातापितृशरीरविकारत्वमपितु तदीयशुक्रशोणितादिविकृतित्वमेव । शुक्रशोणितादेः शरीरस्थत्वेऽपि मलमूत्रादेरिव शरीरावयवत्वाभावात् । नच तत्र हेतुपञ्चम्येव नापादानपञ्चमीति वाच्यम् । गुणातिरिक्ततौ पञ्चम्यनुशासनविरहात् । अन्यथा दुग्धाइधि जायते, मृत्तिकाभ्यो घटो जायते, शृङ्गानुर्जायत; इत्यादावपि हेतु. पञ्चम्यैवोपपत्ती जनिकर्तुरित्यादिसूत्रस्यैव वैयापत्तेः । तस्मात्कारणत्वमेव प्रकृतित्वम् । दण्डाद्धटो जायत इत्यादयोऽपि प्रयोगा इष्यन्त एव । अतएवेश्वरस्य' द्रव्यादिकार्याप्रकृतित्वेऽपि यतो द्रव्यं गुणाः कर्मेत्यादौ पञ्चमी । नच प्रकृतिपदेन कारणमात्रविवक्षायामपि क्रियाविवक्षाभावादपादानपञ्चम्यनुपपत्तिहेतुपञ्चमी च प्रकृतेऽनुपपन्नैवेति वाच्यम् । अगत्या जायत इत्यादिक्रियाध्याहारेण तत्र पञ्चम्या उपपादनीयत्वात् । हिमवतो गङ्गा प्रभवतीत्यादौ भुवः प्रभव इत्यनेनापादानता। यत्संबन्धात्प्रभवनं प्रथमप्रकाशः स प्रभवः। प्रथमप्रकाश एवं प्रभवत्यर्थः। पञ्चम्यर्थः संबन्धाधीनत्वं तादृशक्रियायामन्वेति संबन्धे च हिमवदादेः प्रकृत्यर्थस्थान्वयः । उपाध्यायादन्तर्द्धत्ते छात्र इत्यादावन्तद्धौं येनादर्शनमिच्छतीत्यपादानता । अन्तर्द्धिरन्तर्धानम् स्वनिष्ठान्यकर्तृकदर्शनविषयताविरहोद्देश्यको व्यापारः । एवंच व्यापारानुकूलतयान्त नघटको यत्कर्तृकदर्शनविषयताविरहोद्देशः सोऽपादानमिति सूत्रार्थः । उक्तस्थलीयपञ्चम्या अन्तर्द्धिघटकदर्शनान्वयि कर्तृतानिरूपकत्वमेवार्थ इत्युपाध्यायकर्तृकदर्शनविषयताया यः स्वनिष्ठोऽभावस्तदुद्देश्यकव्यापारकर्ता छात्र इति तत्रान्वयबोधः । इदन्तु बोध्यम् । अस्मादयं दीर्घोऽस्मादयं तार इत्यादौ नापादानपञ्चमी, दैाद्यवधेरपादानस्वस्थाननुशासनात् । ध्रुवमपायइत्यनेन हि अपाये विभागरूपक्रियायां क्रियान्तरजन्यविभागे च यदवधिभूतं तस्यापादानत्वं विधीयते न स्ववधिमात्रस्य । यदि चापायपदं वस्तुमात्रोपलक्षणं तदा तदुपादानमनर्थक स्यात् । अथ तत्पदेन क्रियामात्रमुपलक्ष्यते अस्माद्दीर्घ इत्यादौ च भवतीत्यध्याहार्यम् दीर्धभवनं च दीर्घतैवेति क्रियायाः सावधित्वम् । आव. श्यकश्च क्रियाध्याहारस्तद्योगमन्तरेण कारकत्वस्यानिर्वाहात् एवं बलाहकाद्विद्योतते विद्युदित्यादौ द्योतनादिक्रियायाः सावधिकत्वविरहेण निःसृत्येत्यध्याह्रियते। अतएव नैतदपादानं निर्दिष्टविषयमपि तूपातविषयमिति वैयाकरणाः निर्दिष्त्वमुश्चरितत्वम् । उपात्तत्वमध्याहतत्वम् । विषयोऽवधित्वनिरूपकः । निःसरणं च विभाग एवेति उक्तस्थलेऽध्याहृतक्रियायाः सावधिकत्वमिति चेत् । एवं
ताकखवृत्तित्वस्य यवनिष्टकर्मताकत्ल निष्ठत्वस्यचान्वयः यदिवारणं न स्यात्तदा भक्षणं तश्वकर्मक गोकर्तृकं च स्यादिति वारणं भक्षणनिष्टोभयाभावप्रयोजकं यत्र गौः यवभक्षणे न प्रवृत्ता अपितु तृणभक्षणे महिषीच यवभक्षणे तत्र वारणं. विनापि भक्षणे तादृशोभयाभावस्य सिद्धवाद्वारणस्य तत्प्रयोजकलासंभवात् यवेभ्यो गां वारयतीति न प्रयोगः प्रयासश्वान्यन कुप्तद्वितीयादेर्धालर्थतावच्छेदकफलशालिस्वरूपकमलादिबोधकव्युत्पत्तिसंकोचव्युत्पत्त्यन्तरकल्पनादिरूपो बोध्यः । गुणातिरिक्तेति । गुणवमन्त्र कार्यस्य ज्ञाप्यस्य वाश्रय आश्रितलं बोध्यम् कारणत्वमेवेति । कार्याश्रयाश्रितव्यतिरिक्तकारणलं विवक्षितं तादृशहेतौ हेता वित्यनेन पञ्चमीप्राप्तेः सामान्यतः कारणलविवक्षायामपि वा न क्षतिः अस्य सू. त्रस्य क्रियाविषयकत्वेन क्रियायोगाभावे तादृशहेतावपि हेतोरित्यस्य चरितार्थतासंभवात् । विरहोहेश्यकइति । तादृशविषयत्वाभावरूपफलेच्छाधीन इत्यर्थः । उद्देश इच्छा तथाच व्यापारानुकूलत्वेनोद्देशस्यान्त नघटकलोपपत्तिः । वि.

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218