Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 186
________________ १८२ व्युत्पत्तिवादः। सति वृक्षात्पततील्याची वृक्षादेरसंग्रहः। तत्रापि विभागक्रियाऽध्याहियताति चेत्, तत्र निर्दिष्टविषयताप्रवादविरोधः। एवमस्मादीर्घ इत्यादावपि क्रियाध्याहारे तत्समशीले माथुराः सौन्नेभ्यः माख्यतरा इत्यादावपि क्रियाया अध्याहरणीयतया तत्रापादानस्यापेक्षितक्रियात्मकस्योपात्तविषयान्तर्भावप्रसङ्ग इति ताहशापादानयोरविशेषापत्तिः। एवंच "उपात्तविषयं किञ्चिनिर्दिष्टविषयं तथा। अपेक्षितक्रियं चेति विधापादानमुच्यते" इति शाब्दिकविभागविरोधः । अथापायपदेन क्रियासामान्य क्रियाजन्यविभागश्च विवक्षितः । एवंच वृक्षात्पततीत्यादौन विभागात्मकक्रियाध्याहार, इति तद पादानमपि निर्दिधविषयम् । यत्रापादानतानिर्वाहार्थमेव क्रियाध्याहारो बलाहकादित्यादौ तदपादानमुपात्तविषयम् । यत्र वाक्यसमात्यर्थ तदध्याहारस्तत एव चापादानतानिर्वाहो, यथा माथुरा: सौन्नेभ्यः अस्माद्दीर्घ इत्यादौ तत्रापेक्षितक्रियत्वमिति चेत्, पचमण्ययमस्मात्तार इत्यादावगतिस्तत्रहि तारभवनं तारत्वं जातिः । जातेश्च न सावधिकत्यमिति कुतोऽपादानता। अन्यथाऽयमस्माद्गौरित्याचापत्तिः। नच जातेरपि तारत्वस्यैवायमस्मात्तार इति प्रतीतियलाद्भवत्येव सावधिकत्वमिति वाच्यम् । यदेव होकापेक्षं तारत्वं तदेवान्यापेक्षया मन्दत्वं समनियतजातिद्वयानभ्युपगमात् । समनियतत्वानभ्युपगमे जातिसङ्करप्रसङ्गात् । तथाच तारत्वादेः सावधिकत्वे स्वापेक्षया यस्तारस्तमपक्ष्य स्वस्मिन्मन्दव्यवहार इव तारव्यवहारोऽपि स्यात् । स्वापेक्षया यो मन्दस्तमपेक्ष्य तारब्यवहारवत्तमपक्ष्य स्वस्मिन्मन्दव्यवहारोऽपि स्यात् । अथ तदपेक्षया सारव्यवहारस्तत्सजातीयत्वे सति साक्षात्कारप्रतिबन्धकतावच्छेदकजातिमत्त्वमवलम्बतेऽतो न स्वापेक्षया यस्तारस्तदपेक्षया तारव्यवहारोन्यापेक्षया तारेऽपि भवतीति चेत्तर्हि अस्मात्तार इत्यत्र साजात्यसमानाधिकरणसाक्षात्कारप्रतिबन्धकतावच्छेदकजातिरूपतारपदप्रवृत्तिनिमित्तघटकसाजात्ये साक्षात्कारेच पञ्चम्यान्वयो वाच्यः । तावतैव दर्शितातिप्रसनवारणसंभवात् । साआत्यं तद्धृत्तिशब्दत्वजातिस्तस्याः साक्षात्कारस्य च न सावधिकत्वमिति न सावधिकत्वरूपमपादानत्वं तत्र पञ्चम्यर्थः । नच साजात्यघटकजातेः सावधिकत्वाभावेऽपिवृत्तेःसावधिकत्वमस्त्येव । एवं साक्षात्कारो विलक्षणविषयिताशालिज्ञानविषयिताच सावधिकैवेति तत्र पश्चभ्यर्थान्वयेन सामञ्जस्यमिति वाच्यम् । यतो वृत्तर्विषयितायाश्च स्वाधारविषयप्रतियोगिकत्वमेव नतु तदवधिकत्वम् । तदवधिकत्वतत्प्रतियोगिकत्वयोर्वस्तुनोमेदात् । अन्यथा घटे वर्तते घटमवगाहतइत्यत्र घटाद्वर्त्तते घटादवगाहतइति प्रयोगस्य घटस्यापादानत्वेन दुर्धारत्वात् । अतएव प्रतियोगिताया अपादानत्वानात्मकतयाऽन्यादिशब्दयोगे प्रतियोगिवाचकपदात्पश्चमी सूत्रान्तरेणानुशिष्टा । प्रतियोगित्वस्यापादानतारूपत्वे तद्वैयर्थ्यांपत्तेः । अथान्यादिशब्दा. र्थभेदादेः क्रियात्वाभावेन कारकत्वासंभव इति मुनिः सूत्रान्तरं प्रणिनायेति चेत् । तत्कि तारादिघटकवृत्त्यादेः क्रियात्वमनुमन्यते भवता । तस्मादत्र पञ्चम्युपपादक सूत्रान्तरमनुसतव्यमिति, गुणो द्रव्याद्भिन्न इत्यादौ अन्यारादिति सूत्रेणैव पश्चमी । अन्यपदस्यान्यार्थकपरत्वादिति बहवः। नचान्यपदेन तदर्थकविवक्षणे तत्समानार्थकेतरपदोपादानवैयर्यम् । अन्येतरपदयोरेकस्यान्योन्या. भावविशिष्टार्थपरत्वात् । अपरस्य पृथक्त्वरूपगुणविशिष्टार्थपरतया सार्थक्यात् । पृथग्विनेत्यादिसूत्रे प्रथकपदोपादानं तद्योगे वैकल्पिकतृतीयोपपत्यर्थम्। वस्तुतस्तत्र पृथकूपदमसाहित्यार्थकं, नतु गुणवद. र्थकम् चन्द्रापृथगप्यनङ्ग इत्युदाहरणेऽसाहित्यस्यैव प्रतीतेः।यस अन्यादिपदं नान्योन्याभावार्थकपदपरं, घटः पटो नेत्यादावपि नमस्तदर्थकतया तद्योगे पञ्चम्यापत्तेः । नचान्यपदमन्योन्याभावविशि भागक्रियाध्याहियत इति । विभज्येत्येवमध्यालियत इत्यर्थः । विवक्षित इति । तथाच शत्रोपात्तक्रियानिरूपितावधित्वेनापादानत्वं तत्रावधितानिरूपकत्वं यत्रोपात्तक्रियाजन्यविभागावधित्वेनापादानलं तत्र खावधिकविभागजनकलं पञ्चम्यर्थ इति पततीत्यत्र विभज्यत इति क्रियाध्याहारस्य न प्रयोजनमित्युपात्तविषयतैवेति भावः । वृत्ते. रिति । खवृत्तिशब्दलादिजातिमत्त्वं साजात्यं तद्धटकवृत्तेरित्यर्थः । तस्मादब्रेति । तारोमन्द इत्यादौ यत्राव

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218