________________
१८२
व्युत्पत्तिवादः। सति वृक्षात्पततील्याची वृक्षादेरसंग्रहः। तत्रापि विभागक्रियाऽध्याहियताति चेत्, तत्र निर्दिष्टविषयताप्रवादविरोधः। एवमस्मादीर्घ इत्यादावपि क्रियाध्याहारे तत्समशीले माथुराः सौन्नेभ्यः माख्यतरा इत्यादावपि क्रियाया अध्याहरणीयतया तत्रापादानस्यापेक्षितक्रियात्मकस्योपात्तविषयान्तर्भावप्रसङ्ग इति ताहशापादानयोरविशेषापत्तिः। एवंच "उपात्तविषयं किञ्चिनिर्दिष्टविषयं तथा। अपेक्षितक्रियं चेति विधापादानमुच्यते" इति शाब्दिकविभागविरोधः । अथापायपदेन क्रियासामान्य क्रियाजन्यविभागश्च विवक्षितः । एवंच वृक्षात्पततीत्यादौन विभागात्मकक्रियाध्याहार, इति तद पादानमपि निर्दिधविषयम् । यत्रापादानतानिर्वाहार्थमेव क्रियाध्याहारो बलाहकादित्यादौ तदपादानमुपात्तविषयम् । यत्र वाक्यसमात्यर्थ तदध्याहारस्तत एव चापादानतानिर्वाहो, यथा माथुरा: सौन्नेभ्यः अस्माद्दीर्घ इत्यादौ तत्रापेक्षितक्रियत्वमिति चेत्, पचमण्ययमस्मात्तार इत्यादावगतिस्तत्रहि तारभवनं तारत्वं जातिः । जातेश्च न सावधिकत्यमिति कुतोऽपादानता। अन्यथाऽयमस्माद्गौरित्याचापत्तिः। नच जातेरपि तारत्वस्यैवायमस्मात्तार इति प्रतीतियलाद्भवत्येव सावधिकत्वमिति वाच्यम् । यदेव होकापेक्षं तारत्वं तदेवान्यापेक्षया मन्दत्वं समनियतजातिद्वयानभ्युपगमात् । समनियतत्वानभ्युपगमे जातिसङ्करप्रसङ्गात् । तथाच तारत्वादेः सावधिकत्वे स्वापेक्षया यस्तारस्तमपक्ष्य स्वस्मिन्मन्दव्यवहार इव तारव्यवहारोऽपि स्यात् । स्वापेक्षया यो मन्दस्तमपेक्ष्य तारब्यवहारवत्तमपक्ष्य स्वस्मिन्मन्दव्यवहारोऽपि स्यात् । अथ तदपेक्षया सारव्यवहारस्तत्सजातीयत्वे सति साक्षात्कारप्रतिबन्धकतावच्छेदकजातिमत्त्वमवलम्बतेऽतो न स्वापेक्षया यस्तारस्तदपेक्षया तारव्यवहारोन्यापेक्षया तारेऽपि भवतीति चेत्तर्हि अस्मात्तार इत्यत्र साजात्यसमानाधिकरणसाक्षात्कारप्रतिबन्धकतावच्छेदकजातिरूपतारपदप्रवृत्तिनिमित्तघटकसाजात्ये साक्षात्कारेच पञ्चम्यान्वयो वाच्यः । तावतैव दर्शितातिप्रसनवारणसंभवात् । साआत्यं तद्धृत्तिशब्दत्वजातिस्तस्याः साक्षात्कारस्य च न सावधिकत्वमिति न सावधिकत्वरूपमपादानत्वं तत्र पञ्चम्यर्थः । नच साजात्यघटकजातेः सावधिकत्वाभावेऽपिवृत्तेःसावधिकत्वमस्त्येव । एवं साक्षात्कारो विलक्षणविषयिताशालिज्ञानविषयिताच सावधिकैवेति तत्र पश्चभ्यर्थान्वयेन सामञ्जस्यमिति वाच्यम् । यतो वृत्तर्विषयितायाश्च स्वाधारविषयप्रतियोगिकत्वमेव नतु तदवधिकत्वम् । तदवधिकत्वतत्प्रतियोगिकत्वयोर्वस्तुनोमेदात् । अन्यथा घटे वर्तते घटमवगाहतइत्यत्र घटाद्वर्त्तते घटादवगाहतइति प्रयोगस्य घटस्यापादानत्वेन दुर्धारत्वात् । अतएव प्रतियोगिताया अपादानत्वानात्मकतयाऽन्यादिशब्दयोगे प्रतियोगिवाचकपदात्पश्चमी सूत्रान्तरेणानुशिष्टा । प्रतियोगित्वस्यापादानतारूपत्वे तद्वैयर्थ्यांपत्तेः । अथान्यादिशब्दा. र्थभेदादेः क्रियात्वाभावेन कारकत्वासंभव इति मुनिः सूत्रान्तरं प्रणिनायेति चेत् । तत्कि तारादिघटकवृत्त्यादेः क्रियात्वमनुमन्यते भवता । तस्मादत्र पञ्चम्युपपादक सूत्रान्तरमनुसतव्यमिति, गुणो द्रव्याद्भिन्न इत्यादौ अन्यारादिति सूत्रेणैव पश्चमी । अन्यपदस्यान्यार्थकपरत्वादिति बहवः। नचान्यपदेन तदर्थकविवक्षणे तत्समानार्थकेतरपदोपादानवैयर्यम् । अन्येतरपदयोरेकस्यान्योन्या. भावविशिष्टार्थपरत्वात् । अपरस्य पृथक्त्वरूपगुणविशिष्टार्थपरतया सार्थक्यात् । पृथग्विनेत्यादिसूत्रे प्रथकपदोपादानं तद्योगे वैकल्पिकतृतीयोपपत्यर्थम्। वस्तुतस्तत्र पृथकूपदमसाहित्यार्थकं, नतु गुणवद. र्थकम् चन्द्रापृथगप्यनङ्ग इत्युदाहरणेऽसाहित्यस्यैव प्रतीतेः।यस अन्यादिपदं नान्योन्याभावार्थकपदपरं, घटः पटो नेत्यादावपि नमस्तदर्थकतया तद्योगे पञ्चम्यापत्तेः । नचान्यपदमन्योन्याभावविशि
भागक्रियाध्याहियत इति । विभज्येत्येवमध्यालियत इत्यर्थः । विवक्षित इति । तथाच शत्रोपात्तक्रियानिरूपितावधित्वेनापादानत्वं तत्रावधितानिरूपकत्वं यत्रोपात्तक्रियाजन्यविभागावधित्वेनापादानलं तत्र खावधिकविभागजनकलं पञ्चम्यर्थ इति पततीत्यत्र विभज्यत इति क्रियाध्याहारस्य न प्रयोजनमित्युपात्तविषयतैवेति भावः । वृत्ते. रिति । खवृत्तिशब्दलादिजातिमत्त्वं साजात्यं तद्धटकवृत्तेरित्यर्थः । तस्मादब्रेति । तारोमन्द इत्यादौ यत्राव