________________
गूढार्थतत्वालोकव्याख्यासहितः। धार्थपदपरम् । तस्यापि विशिष्टार्थवाचकत्वात्। नञ्पदंच न तथा तदुपस्थितार्थस्य नामान्तरार्थे भेदाबयसंभवेन तत्र धर्ममात्रवाचकत्वादिति वाच्यम् । द्रव्याहुणस्य भेद इत्यादौ पञ्चमीनिहाय भेदार्थकपदस्यैवोपादेयत्वात् । अन्यादिपदस्थापि वाच्यविशेषणभेदार्थकत्वादित्युक्तरीत्यानान्येतरोभयपदसार्थक्यमिति तन्न । अन्योन्याभाववाचकपदस्य पञ्चम्यनुपयोगिचे द्रव्यादन्यो गुण इत्यादी पञ्चम्यनुपपत्तेः गुणादौ पृथक्त्वरूपगुणासंभवेनान्योन्याभावस्यैवान्यपदार्थत्वात् । अन्योन्याभावार्थकपदस्य पञ्चमीप्रयोजकत्वे तत्र निपातातिरिक्तविशेषणप्रवेशेनापि नयोगे पञ्चमीवारणसंभवात। वस्ततस्त्वन्योन्याभावीयप्रतियोगित्वरूपार्थविवक्षायां पञ्चमी नपदोपस्थापिताभावस्य च प्रतियोगिता न विभत्त्या बोध्यते नर्थे प्रतियोगितयैवाधेयत्वातिरिक्तविभक्त्यर्थान्वयस्य व्युत्पत्रत्वान्न चैत्रस्येत्यादौ षष्ठ्याद्यर्थस्य नर्थप्रतियोगित्वादतो न तद्योगे पञ्चमी । पृथक्त्वगुणानी कर्तुमीमांसकमते सूत्रे अन्यतरपदयोरेकतरोपादानवैयर्थ्य दुर्वारमुक्तरीत्या सार्थकत्वासंभवादिति चेन । तन्मतेऽप्येकपदस्य प्राधान्येनान्योन्याभाववाचकस्यापरपदस्य तद्विशिष्टवाचकस्य संग्राहकतया सार्थक्यात् । नच पटाद्भेद इत्यादी क्रियायोगादपादानपञ्चम्येव । धातूपस्थाप्यपदार्थप्रतियोगिताया अपादानतारूपत्वे घटे वर्ततइत्यादौ पञ्चमीप्रयोगस्य परत्वेनाधिकरणसप्तम्यादिना बाधादेवानवकाशात् । अभावीयविलक्षणप्रतियोगिताया एष वा तथात्वात् । घटादन्यत्वमित्यादौ चापादानत्वासंभवेऽप्यन्यपदयोगेनैव पश्चमी । तत्रान्यपदाद्विशेषणतया भासमानभेद एव पवम्य - न्वयोपगमात् । ननु भावप्रत्ययात्प्राधान्येन भासमाने तस्मिन् पदार्थैकदेशेऽपि ससंबन्धिके प्रतियोगिसंबन्धान्वयस्य व्युत्पत्तिसिद्धत्वादिति वाच्यम् । प्राधान्येन भावप्रत्ययाद्भासमानेऽप्यन्यत्वे घटपटादिप्रतियोगिकत्वान्वयविवक्षया घटादन्यत्वमिति प्रयोगात्तनिर्वाहायैवान्येतरपदद्धयोपादानम् । 'अथवा धुवमपाये इत्यत्रावधित्वमेव विवक्षितं नतु प्रतियोगित्वमुभयानुगतरूपाभाषादिति पटाद्भेद इत्यादौ पञ्चम्युपपत्तयेऽन्येतरपदोपादानम् । वस्तुतोऽन्येतरपदं स्वरूपपरमेव । अर्थपरत्वे घटादन्य इतिवद्धटादेक इति प्रयोगापत्तेः । यद्येकपदस्यान्यस्वरूपेण नान्यार्थकताऽपित समभिव्याहतान्यत्वोपलक्षिते वस्तुनि बुद्धिविषयतावच्छेदकघटत्वादिनैव । चैत्र एकमानयति मैत्रश्चापरमित्यादी घटत्वपटत्वादिनैवानयनकर्मतादिप्रतीतेनतु पटघटान्यत्वादिना । अन्यस्वान्वयिप्रतियोगिवाचकपदासमभिव्याहारत् । अन्यथा तद्योगे पञ्चम्या असाधुत्वेऽपि घटस्यैक इति प्रतियोगिनि षष्ठयापत्तेरित्युच्यते तदाप्यन्यार्थकतदादिपदयोगे पञ्चमीप्रयोगापत्यार्थग्रहणासंभव इति । तथाच पटाद्भिनं घटाद्भिद्यतइत्यादौ पञ्चमीनिहाय तत्रापादानत्वमेव कथं चिदुपपादनीयम् । तथाहि । भिवधातो न्योन्याभावोऽर्थों घटाद्भिनत्ति पट इति प्रयोगापत्तेः भिद्यते पट इत्यादिप्रयोगानुपपत्तेश्व, कर्तरि यगात्मनेपदासंभवात् अदेवादिकाच्च न श्यन्संभव: परस्मैपदित्वाच्च अकर्मकधातुयोगे कर्मकर्तृविवक्षाया अप्ययोगात् । कस्यचिवकर्मकस्य योगेण्यर्थान्तीवेणैव कर्मकर्तृत्वस्योपपादनीयत्वात् अन्योन्याभावस्थाजन्यतया तदर्थकधातोर्यर्थान्तर्भाघस्य दुष्करत्वात् । भिद्यते कुसूल इत्यादौ भिर्विदारणार्थकत्वेन सकर्मकतया कर्मकर्तृत्वसं. भवात् । अतोऽन्यत्वेन शापनं भिद्धातोरर्थः । ज्ञापनं ज्ञानविषयताप्रयोजकव्याप्तिपक्षधर्मता । तदाश्रयोऽसाधारणधर्म एष भिदाकर्तृत्वाद्भेदक उच्यते । अन्यत्वप्रकारकानुमितिविषयतारूपधात्वर्थतावच्छेदकफलाश्रयो भिदाकर्मतया भेद्यः! एवंच पृथिवी इतरेभ्यो भिद्यते इत्यादौ पृथिव्यादेः
-..-....धिमत्त्वं नानुभविकं तत्र, नतु दीर्घोहख इत्यादी तत्रोक्तरीत्या भुवमपायइति सूत्रेणैव पश्चम्युपपादनसंभवात् । अपासानपञ्चम्येवेति। ध्रुवमपाय इति सूत्रेणेति शेषः भिद्धातो:दार्थकत्वे-तस्याकर्मकधातुलापत्त्या भियत इति प्रथमान्तपदसाकाङ्गस्य साधुलानुपपत्तिस्तदनुपपत्तिमुपपादयति कर्तरीसादिदुःकरखादित्यन्तेन । भिदाकर्तत्वादिति । तथाच घटादाकारविशेषः पर्ट भिनत्तीत्येव प्रयोगः साधुः ध्रुवमपाय इति सूत्रस्यागल्यान्यतरत्वेनावधिप्रतियोग्युभयरूपापादन