________________
१८४
व्युत्पत्तिवादः।
कर्मतैव न केवलकर्तृता । अन्योन्याभावे साध्ये सर्वतान्त्रिकाणां ताशप्रतिज्ञालिखनं केषांचिदनवधानेन । प्रतिज्ञास्थवदयादिपदं बयादिज्ञानविषयतार्थकम् । हेत्ववयवस्थपञ्चम्याशाप्यत्वं नार्थोऽपितु प्रयोज्यत्वमेवेति मणिकारादिमतानुसारेणैव कषांचिदिति सूक्ष्मविवेचनचतुराः । अर्जुनः क्रोशाल्लस्यं विध्यति अद्य भुक्त्वायं व्यहाद्भोक्ता इत्यादौ सप्तमीपञ्चम्यो कारकमध्ये इति पञ्चमी प्रकृत्यर्थयोरध्वकालयोः कारकद्वयव्यवधायकतामभिधत्ते तथाच स्वाधिष्ठितदेशानन्तरक्रोशात्मकाध्वभागानन्तरदेशस्थं विध्यत्यर्जुनइत्यादिप्रथमस्थले बोधः । समभिव्याहृतकधिष्ठितदेशानन्तर्य विशेषणतया प्रकृत्यर्थान्वयि, विशेष्यतया प्रकृत्यर्थान्वयि चानन्तरदेशस्थत्वं पञ्चम्यर्थः । खीयैकार्यान्वितापरपदार्थान्वितापरस्वार्थबोधकत्वमप्यत्र व्युत्पत्तिवैचित्र्यादेकपदस्य स्वीक्रियते भोजनकृत्त्यधिकरणैतद्दिवसानन्तरद्वयहानन्तरदिनवृत्तिभोजनकृतिमानयमित्याकारकबोधश्चरमस्थले। कारकपदेन क्रियानुकूलव्यापाररूपकारकपदार्थतावच्छेदकस्यापिविवक्षितत्वात् एकक्रियानुकूलकृत्यन्वयिनः प्रकृत्यर्थाधिकरणकालानन्तरकालीनस्वस्य प्रकृस्यर्थविशेषणीभषदपरक्रियानुकूलकत्यधिकरणकालानन्तर्यस्य बोधकत्वेऽपि पञ्चम्युपपत्तिः। कारकद्वयमध्यवर्तिताचात्र कालस्य नोपपद्यते कर्तुरैक्यात् । अतएवोक्तम् कर्तृशक्योर्मध्ये चैकः काल इति ॥ इति पञ्चमी ।
संबन्धविवक्षायां कारकधिभक्त्यप्रसक्तेः शेषे षष्ठीत्यनेन चैत्रस्येदमित्यादौ षष्ठी । चैत्रस्य द्रव्यमित्यादौ स्वत्वस्य, चैत्रस्य खं, घटस्य कारणं, चैत्रस्य हस्तः, इत्यादौ निरूपितत्वावयवत्वादीनां संबन्धत्वेनैव षष्ठ्यार्थता नतु विशिष्य शक्यानन्त्यप्रसङ्गात् । संयोगादिसंबन्धसत्वेऽपि चैत्रस्य नेदं वास इत्यादी स्वत्वादिसंबन्धविशेषबोधतात्पर्येण यत्र न प्रयुज्यते तत्र विशेषरूपेण षष्ट्या लक्षणैव । विभक्तौ न लक्षणेति प्रवादस्यानुशासनासत्त्वे एकविभक्त्यर्थेऽपरविभक्तेन लक्षणेत्येतत्परत्वात् । अतएव च कृद्योगापि हि षष्ठी संबन्धत्येनैष बोधयतीति मिश्राः।
परत्वस्य वक्तव्यतया पञ्चम्यन्तार्थस्य घटनिष्टप्रतियोगिताकलस्यान्यसप्रकारकानुमितीयविषयताप्रयोजकव्याप्तिपक्षधर्मतारूप. धालथैकदेशेऽन्यत्वे द्वितीयान्तार्थस्य परवृत्तित्वधात्वर्थघटकविषयतायां धानर्थव्याप्तिपक्षधर्मवस्याख्यातार्थाश्रयत्वरूपकतत्वे तस्याकारेऽन्वयादित्याकार एवोक्तधात्वर्थरूपमिदा कर्ता नतु पठइति घटाद्भिनत्तिपट इति न प्रयोग उक्तविषयलरूपकर्मत्वस्य पटे सत्त्वाद्धटादाकारेण भिद्यते पट इति प्रयोगोपपत्तिः घटात्पटस्य भेदइत्यस्याप्युक्तरीत्यैवोपपत्तिरिति भावः । केषांचिदनवधानेनेति । येषां तत्तत्साध्यकप्रतिज्ञास्थसाध्यबोधकपदं साध्यपरमेव हेतुपञ्चम्या ज्ञाप्यत्वमेवार्थस्तेषां पृथिवीतरेभ्यो भिद्यत इत्यस्य भेदसाध्यकप्रतिज्ञावस्य दुरुपपादत्वादुक्तप्रकारेण धातोर्मेदार्थकवस्यासंभवादिति प्रमादेनैव तादृशप्रतिज्ञेत्येवोपेयमिति भावः । मणिकारमतानुसारेणैवकेषांचिदिति । उक्तप्रतिइत्यनुषज्यते म-' णिकारमते तत्साध्यकप्रतिज्ञायास्तत्तत्साध्यकानुमितिविषयपरपदघटिततया भेदसाध्यकप्रतिज्ञाया भेदानुमितिविषयतावली पृथिवीति बोधजनिकाया उक्ताकारत्वस्य सूपपादखान्मणिकारमतानुसारिणां केषांचिदप्रामादिक्येव सा प्रतिक्षेति भावः । सप्तमीपतम्यौकारकमध्यइति । शक्तिद्वयमध्येयोकालाध्वानौ ताभ्यामेतेस्त इत्यर्थः । विवक्षितत्वादिति। पञ्चम्युपपत्तिरित्यनेनान्वयः कारकमात्रस्य विवक्षितत्वे पूर्वस्थले यथार्जुनरूपकर्तृकारकलक्ष्यरूपकर्मकारकद्वयमध्यवर्तित्वेन कोशस्य तद्बोधकपदारपञ्चम्युपपद्यते तथाद्यभुक्लेत्यादौ यहस्य कारकद्वयमध्यवर्तिलाभावादेकस्यैव कर्त्तकारकस्य सत्त्वात् कारकपदेन कारकशक्तेरपि सङ्ग्रहे तु कर्तुरेकत्वेऽपि तच्छक्तेः कर्तृवस्य क्रियानुकूलव्यापाररूपाया एतद्दिवसीयभोजनानुकूलायाः परदिवसीयभोजनानुकूलायाश्च कृतेर्भदायहस्य तयोर्मध्यवर्तिवात्तद्बोधकपदात्पञ्चम्युपपत्तिरिति भावः । कारकशक्तिमध्यवर्तितामुपपादयति । एकक्रियेत्यादिना । एकक्रियेति भोक्तेति पदप्रतिपाद्यकियेत्यर्थः । प्रकृत्यर्थेति । पश्चमीप्रकृत्यर्थद्वयहकालेत्यर्थः । अधिकरणेति सम्पातायातम् । अपरक्रियेति।भुक्त्वेतिपदप्रतिपाद्यक्रियेत्यर्थः । कर्तशक्योरिति । कर्तुः शक्त्योः कृत्योरित्यर्थः ।
इति व्युत्पत्तिवादगूढार्थतत्त्वालोके पञ्चम्यालोकः। लक्षणेत्येतत्परत्वादिति । तथाचानुशासनाभावेऽपि खत्वादेरन्यविभक्त्यर्थलाभावात्तत्र खलत्वेन स्वत्वेलक्षणा संभवत्येवेति भावः । अतएवेति । लाघवात्संवन्धत्वेन संबन्धमाने एकशक्तलादेवेत्यर्थः । संबन्धत्वेनैवेति । एव कारेण कर्तृकर्मणोः कृतीति सूत्रेण षष्ठ्यर्थत्वेन बोधितकर्तृखकर्मखयोः कर्तृलकमखखाभ्यां सर्वत्र शक्त्या बोधन