Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
१३६
व्युत्पत्तिवादः। विभक्तेः पूर्वपदप्रकृतिकस्वाभावात् तस्याः पूर्वपदार्थान्वितप्रकारताबोधकरवायोगात् । न व दुग्द्धसमास एवासी, अल्पाचो वह्निपदस्य पूर्वनिपातप्रसङ्गात् । समाहारपक्षे पुल्लिाताया इतरेतरपक्षे च एकवचनस्थानुपपत्तेः । एतन्मते शुक्लो वहिरित्यादिप्रमायां लोहिताभेदारोपविषयवसिविषयकत्वेऽपि शुक्लो वहिलोहिता अपेति समूहालम्बनप्रमाया लोहिताभदायगाहिखविषयवद्विविषयकस्वेऽपि च तहशायां लोहितवाहि लोहितं वह्नि वा जानातीति न प्रयोगः। ताहशपदोपस्थाप्यविषयताया धर्मिपारतव्येण द्वितीयार्थविषयतायामभेदसंबन्धेन विशेषणताया नियमोपगमात् अथ वा लोहिताभेदविषयतानिरूपितविषयतापन्नस्य वधादेर्शानान्धयिविषयितानिरूपकत्वं भासते। सम्हालम्बनादौ च तादृशविषयतानापन्नस्यैव विषयितानिरूपकरवमिति नातिप्रसङ्गः । विषयितापत्रस्य निरूपकत्वमित्यस्य च विषयतावच्छिन्नं निरूपकत्वमित्यर्थः । पतञ्च विलक्षणं विषयितानिरूपकतावच्छेदकत्वमविषयस्यापि विषयत्वस्योपेयते, रक्तदण्डवानित्यादौ दण्डादिरूपप्रकारांशेऽप्रकारेणापि रक्तत्वादिप्रकारतानिरूपितविशेष्यत्वेन दण्डादिप्रकारताया अवच्छेयावच्छेदकभाववदित्याहुः । तन्न शोभनम् । उक्तरीत्या लक्षणां विनैवोपपत्तौ तस्या अन्याय्यस्वात। अधोक्तस्थले आरोप्यारोपविषयबोधकपदयोझनान्वितार्थकत्वे कर्मप्रत्ययस्थले लोहितो वर्जाियते इत्यादौ विशेष्यभेदाद्वाक्यभेदापत्तिः।न च लोहिताभेदशानविषयोवहिरित्येष शाग्दधीरुपगम्यते न तु ज्ञाने प्रकारो लोहितो विशेष्यश्च वहिरिति समूहालम्बनं, तथा सति शुक्लो वह्निलोंहिता जपेत्यादावपि तथा प्रयोगप्रसङ्गात् । दर्शितविशिष्टवैशिष्ट्यबोधस्वीकारे लोहितादिप्रकारकस्वविशिष्टनिरूपितविशेष्यतायाः शुक्लवजयादौ बाधितत्वेन तादृशप्रयोगापत्तिविरहादिति वाच्यम्। तत्र लोहितादिपदोत्तरप्रकारतार्थकद्वितीयादिविरहेण लोहितादिप्रकारकत्वेन ज्ञानभानासंभवात् । नामार्थधात्वर्थयोः साक्षादन्वयस्याव्युत्पन्नतया प्रकारितायाः संसर्गताया भानासंभवादिति चेन्न । यथाहि । घटो नीलो भवति, वृक्षो नौका भवति, काष्ठं भस्म भवतीत्यादौ धात्वर्थेऽसाधारणध. मेरूपे भावे व्युत्पत्तिवैचित्र्येण नीलनौकाभस्मादेः साक्षादेवान्वयः । प्रथमाया अन्तराभासमाना. र्थकत्वाभावात् । नौकादिपदस्य वारम्भकावयवारभ्याद्यर्थलाक्षणिकतया प्रकृतिविकृत्योर्भेदमतेऽपि वृक्षो नौका भवतीत्यादौ योग्यताया उपपत्तिः । तथा धात्वर्थे प्रकृतेऽपि प्रकारितासंबन्धेन लोहितादेः साक्षादन्वयस्यागत्योपगमात् । यथा प्रकृतिविकृतिभावस्थले वृक्षः पञ्चनौका भवतीत्यादी प्रकृ. तिभूतवृक्षादेर्विशेष्यतया भावनान्वयित्वात्, तद्वतसंख्यायोधकतया प्रकृतिवाचकपदसमानवच
व्युत्पत्तिवैचित्र्येण धर्मिपारतन्त्रयेण धात्वर्थज्ञाने ऽन्वयोभ्युपेयते तदा शुक्लो वह्रिरिति ज्ञानपरस्योक्तवाक्यस्य न संभव इत्यत आह । शुक्लोवहिलोहिताजपेति । तन्न शोभनमित्यनन्तरं लोहितवहि जानातीत्यादिसमासघटितवाक्यस्य प्रमागताया अनभ्युपगमादिति क्वचित्पाटः । तत्रोक्तसमासस्थलोद्भावितदोषस्याप्रमाणत्वेनैव समाधानं विहितमस्ति यदि प्रामाण्यमेव तस्य स्यात् तदा लोहितपदस्य लोहितविषयके वहिपदस्य वद्धिविषयके लक्षणया कर्मधारयो निर्वाह्यः द्वितीया च क्रियाविशेषणएव । नचोभयपदलक्षणापेक्षयैकपदलक्षणोपाध्यायमतानुसारिण्युचितेतिवाच्यं समूहालम्बनविषयताव्यावृत्तविषयतालाभप्रकारस्यानुभवपथातीतस्योपाध्यायपक्षे स्वीकरणीयतयोक्तरीतेरेवोचितखात् । यद्वा लोहितपदं तात्पर्यग्राहकं द्वितीयैव तादात्म्यसंबन्धावच्छिन्नलौहित्यप्रकारतानिरूपितविषयत्वे लाक्षणिकी समासघटकपदार्थयोः परसरमनन्वयेपि पूर्वपदतात्पर्यग्राहकलपक्षे चित्रगुर पिप्पलीत्यादिसमासवदेवात्रापि समासः।न च तत्र विग्रहवाक्यार्थस्य प्रसिद्धिरिह तु नेति वाच्यं तस्याकिंचित्करत्वात् शशशशादिपदानामपि साधुत्वात् समासप्रयोजकव्यपेक्षादेनिरूप्यनिरूपकभावापन्नबोधतात्पर्य विषयत्वेनाप्युपपत्तेः बोधप्रमा. खादेस्तत्रानपेक्षणात् । वस्तुत उक्तवाक्यस्य प्रामाणिकत्वे भवत्युपाध्यायमतमेव ज्यायः । लक्षणांविनेति।लोहितं वहिं जानातीत्यादाविति शेषः ।भानासंभवादिति । अथ लोहितपदार्थस्य धात्वर्थज्ञानेन्बयो न खीकरणीयोऽपितु लोहितपदलक्ष्यार्थस्य लोहिततादात्म्यविषयतानिरूपितविषयताश्रयस्याभेदेन वह्निपदार्थेन्वयः तत्राख्यातान्तार्थज्ञानविषयत्वान्वये व्युत्पत्तिवैचित्र्यालोहितपदार्थतावच्छेदकविषयत्वेप्यभेदस्य भानात्सर्वसामञ्जस्यमित्युपाध्यायमतमेव ज्याय इति चेन्न वक्ष्यमाणरीत्यात्रापि निर्वाहसंभवाल्लक्षणानौचित्यदोषस्य तन्मते जागरूकत्वात् एवमेको द्वौ ज्ञायत इत्यादावुपाध्यायमतेचायतेरभेदान्वयस्थान संभवादिति । प्रकृतिविकृत्योर्मेदमत इति । तयोरभेदपक्षे नौकावृत्त्यसाधारणधर्माश्रयलस्प वृक्षे संभवादुक्तम् ।

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218