Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
१६२
व्युत्पत्तिवादः ।
व्यापारोऽपि तत्रान्यथासिद्धः स्यात् यश्च व्यापारो मरणेऽव्यवहितसाधनं, तत्र तद्धेतुः कृतिरे. वान्यथासिद्धेतिमरणकारणव्यापारकारण कृतिमत्त्वं न कस्यापि हेतुः स्यादिति वाच्यम् । तण्डुलविक्लित्त्यादिरूपफलव्यवहितस्यापि तुषादिप्रक्षेपस्य तत्करणदशायां पचतीत्यादिव्यवहारानुरोधेन यथानन्यथासिद्धत्वे तथा खङ्गप्रक्षेपादिकरणदशायां हन्तीति व्यपदेशानुरोधेन तत्र व्यवहितस्यापि भरणेऽनन्यथासिद्धत्वमवश्याभ्युपेयमिति सामञ्जस्यात् । तण्डुलक्रयणदशायां पचतीत्याद्यभाववत खादिनिर्माणदशायां हन्तीत्यव्यवहारात्तद्व्यापारो मरणेऽन्यथासिद्धतया न हिंसा । व्याघ्रमरणोदेशेन कृतो यन्त्रार्पणादिर्यत्र तत्र देवाद्भवादिमरणेऽपि न हिंसारूपस्तथा न व्याघ्रादिहिंसारूपोषि तत्करणदशायां हन्तीत्यप्रयोगात् । अतथात्वेऽपि तन्मरणोद्देश्यकादृष्ट्राद्वारकतन्मरणप्रयोजककृतिजन्यव्यापारस्यापि हिंसावत् पापजनकत्वादुक्तस्थले गोवधाभिसंधाने गोवधप्रायश्चित्ताचरणमित्यवधेयम् । एवं च चैत्रः पचतीत्यादौविषयताघटितकर्तृत्वबोध निर्वाहाय यथा कृतौ पाकादेरुपधायकत्वविषयित्वोभयसंबन्धेनान्वयः, विषयितायाः संबन्धत्वेऽपि उपधायकत्वनिवेश आवश्यकः पाकाद्यनिप्पत्तिस्थले पचति पश्यतीत्यादिप्रयोगस्य प्रामाण्यवारकत्वात्, तथा चैत्रेण पच्यतइत्यादावपि तृतीयार्थकृतेर्जन्यत्वविषयित्वोभयसंबन्धेनान्वयो बोध्यः । कृतिजन्यत्वस्य तृतीयार्थत्वे जन्यत्वसंबन्धमध्यएव स्वनिरूपकविषयत्वं प्रवेशनीयम् । कृतिविषयत्वमेव वा तृतीयार्थः । स्वनिरूपकजन्यत्वं विषयतायाः संबन्धमध्येऽन्तर्भावनीयम् काष्ठेन पचतीत्यादौ करणत्वं तृतीयार्थः । तच्च व्यापारवत्कारणत्वम् । व्यापारे कर्तृव्यापाराधीनत्वं निवेशनीयम् । अन्यथा कर्त्तुरपि करतापत्या चैत्रश्चैत्रेण पचति, काष्ठं चैत्रेण पचतीत्यादिप्रयोगापत्तेः । नच कर्त्तुश्चेष्टादिरूपव्यापारस्य तदीयकृत्यादिरूपव्यापाराधीनतया तद्विशेषणदानेऽपि कर्तुः करणत्वं दुर्वारमेवेति वाच्यम् । स्वभित्येन कर्तुर्विशेषणीयत्वात् । यत्रैकैव पाकादिक्रिया चैत्रेण काष्ठादिना मैत्रेण तुषादिप्रक्षेपेण निष्पाद्यते, तत्र चैत्रस्तुषैमैत्रः काष्ठैः पचतीति प्रसङ्गः समभिव्याहृत कर्तृव्यापाराधीनत्वस्य त तरकरणव्यापारे भानमुपगम्य वारणीयः । नच समभिव्याहृतकर्त्रन्तर्भावेण तृतीयार्थत्वे कर्त्रसमभिव्याहारस्थले करणे तृतीयाया अप्रयोगापत्तिरिति वाच्यम् । तत्रापि हेताविति सूत्रेण हेतुतामात्रार्थकतृतीयासंभवाद् धनेन कुलं विद्यया यश इत्यादिवत् नहि तत्र करणे तृतीया क्रियायोगाभावात् । नचैवमुक्तस्थले चैत्रस्तुषेण पचतीति प्रयोगस्य हेताविति सूत्रबलादापत्ताविष्टापति वि नोत्तराभावात्समभिव्याहृतकर्त्रन्तर्भावस्य करणे स्वतन्त्र तृतीयानुशासनस्यैव वा वैयर्थ्य मिति वाच्यम् । उक्तस्थले पाके तुषहेतुकत्वाभावबाधेऽपि चैत्रस्तुषेण न पचति किन्तु दारुणैवेति प्रयोगोपपत्तये समभिव्याहृतकर्त्रन्तर्भावेण तृतीयायाः शक्तिकल्पनाया आवश्यकत्वात् । तज्ञाहकतयैव करणे तु तीयानुशासनस्यावश्यकत्वात् । शरैः शातितपत्रोयमित्यादौ तृतीयायाः कारकविभक्तित्वएव तद्र्थान्वितार्थकशातितादिपदेन समासस्य साधुतानिर्वाहाच । नच तृतीयायाः समभिव्याहृतक अन्त: भवेण करणत्वार्थत्वे तत्र समभिव्याहृतक भावादकारकविभक्तित्वं करणे तृतीयानुशासनेऽपि दुर्षारमेवेति वाच्यम् । एतदनुरोधेन तत्र कर्तुरध्याहरणीयत्वात् । वस्तुतः समभिव्याहृतक तृव्यापाराधीनत्वे व्यापारवत्कारणत्वे च तृतीयायाः शक्तिद्वयम् । कर्त्रसमभिव्याहारस्थले व्यापारवत्कारणत्वमात्रं प्रतीयते । कर्तृसमभिव्याहारस्थले च व्यापारे तद्व्यापाराधीनत्वम पीति सामञ्जस्यम् । एवं हेत्वनुशिष्टतृतीयाया अकर्तर्युणेपञ्चमीत्यनेन बाधनात्करणत्ववि वक्षायां धनवता ॠणेन बद्धोयमित्यत्र तृतीयाया उपपत्तये करणे तृतीयानुशासनस्याव श्यकता । करणत्वं च फलोपधानरूपमेव करणताघटकम् अन्यथा कुठारादिकरणकच्छिदादी ष्टखजनककृतिमत्त्व संबन्धसत्त्वेन पापजनकतयाऽर्धप्रायश्चित्तप्रयोजकत्व संभव इतिभावः । व्यापारोपीति । वध्यशरीरखना संयोगजनकखङ्गप्रक्षेपादिरूपव्यापारोपीत्यर्थः । निर्वाहाचेति । करणत्वस्य तृतीयार्थत्वाभावे हेतुपदस्य कारकपदभिनत्वेना

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218