Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 179
________________ १७५ गूढार्थतत्वालोकव्याख्यासहितः । बोधरूपफलाश्रयत्वरूपकर्मत्वं तत्राबाधितमेवेति वाच्यम् । एवंसति नारायणावधिकापकर्षयो. धकदण्डवत्प्रणिपातादिजन्यताशापकर्षबोधाश्रयतायाः पुरुषान्तरसाधारणतया नारायणप्रणामदशायां मनुष्यं नमस्करोतीत्यादिप्रयोगापत्तिः । यदिचापकर्षावधित्वप्रकारकबोधानु नमस्कारस्तद्धटकबोधविशेष्यतया नारायणादेः कर्मत्वम् । क्रियाजन्यफलशालिस्वरूपे कर्मत्वे च व्यापाराशेऽनुकूलतासंबन्धेन विशेषणीभूतं फलमेव विवक्षणीयं । अत्र चानुकूलत्यमेव व्यापाराशे विशेषणमित्यपकर्षावधित्वबोद्धः पुरुषान्तरस्य न कर्मतेत्युच्यते तदापि नारायणं प्रणम्येत्यादावेव कर्मत्वमुपपद्यते नतु नारायणं नमस्कृत्येत्यादौ नमःपदार्थघटकशानस्य धात्वर्थताविरहेण तद्विषयतायाः कर्मतानात्मकत्वात् । कृतिविषयतायाम्च नमःस्वापकर्षावपदार्थव्यापारपव सत्त्वात् । मैवम् । नमस्करोतीत्यादी कृधातुनैव व्यापारबोधात् । अत्रच धित्वप्रकारकयोधविषयतामा निपातार्थः । अत्र स्खं समभिव्याहृतः कर्ता, तथाच तादृशबोधविषयताप्रयोजकव्यापारानुकूलकृतिमानिति समुदायाधीनो बोधः तादृशविषयताश्रयतया नारायणादेः कर्मत्वम् । यतो धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यत्र धात्वर्थतावच्छेदकत्वं न धातुशक्यतावच्छेदकत्वमपितु व्यापाररूपार्थेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यस्वम् । प्रकृते निपातार्थे धात्वर्थस्य साक्षान्वये तादृशबोधविषयत्वरूपस्य तदवच्छेदकत्वमक्षतमेव । नचैवं पूर्वदेशादेर्गम्यादिकर्मत्वं दुवार विभागादी क्रियाजन्यत्वसत्वेऽपि निरुतधात्वर्थतावच्छेदकत्वाभावात् । नहि विभागादिर्गम्याद्यर्थ कथमपि विशेषणतया भासते। एवं च नारायणादेः करोतिकर्मत्वेऽपि नमःपदादिकं विना न तद्योगे नारायणादिपदोत्तरं द्वितीया तदर्थान्वयिफलोपस्थापकाभावेन तदर्थानन्वयात् । नापि नारायणं फलं करोतीति प्रयोगापत्तिः। फलस्यात्र धात्वर्थव्यापारे साक्षादविशेषणत्वात् । निपातातिरिक्तनामार्थस्य धात्वर्थे भेदेनान्वयस्याव्युत्पन्नत्वात । धात्वर्थे साक्षाद्विशेषणीभवत्येव फले द्वितीयार्थाधेयत्वान्वयात् । अतएव पुरस्कृत्य शिखण्डिनमित्यादावपि शिखण्ड्यादेः कृतिकर्मता धात्वर्थव्यापारविशेषणपुरम्पदरूपनिपातार्थानदेशावस्थानरूपफलाश्रयत्वात् । नारायणो नमस्क्रियते, ज्यायान् पुरस्क्रियत इत्यादौ निपातार्थफलं धात्वर्थव्यापारविशेष्यतयैव भासते । तदन्वितमाश्रयत्वं कर्माख्यातादिना प्रत्याय्यते । अथैवमपि कारकविभक्तेः साक्षाद्धात्वर्थान्वयित्वनियमभङ्ग इति चेन्न । तादृशनियमे निपातातिरिक्तार्थमन्तराऽकृत्वत्यस्यैव साक्षादर्थत्वात् । अन्यथा घटो दण्डाजायते न पारिमाण्डल्यादित्यादी कारकपञ्चम्या जन्याद्यन्वयिनि नमर्थाभावे प्रतियोगितया स्वार्थप्रयोज्यत्वादियोधनासंभवात् । पारिमाण्डल्यादिनिपितमपि प्रयोज्यत्वं विषयितया तदवच्छिन्नजनकताकज्ञानादौ प्रसिद्धम्, प्रयोज्यत्वविशिष्टोत्पतिरेव वा तत्र धात्वर्थः । तत्र पश्चम्यन्ताथेपारिमाडल्यनिरूपितत्वस्याभावो ना बोध्यते । उक्तरीत्या क्रियायोगे नमस्कार्यस्थ कर्मत्वेऽपि स्वयंभुवे नमस्कृत्येत्यादौ चतुर्थी अपकर्षावधित्वमात्रविवक्षया । केचिस नारायणं नमस्कृत्येत्यादौ नमःपदं नतिकर्मपरम् । तथाच नारायणं नतिकर्मीकत्येत्यर्थविवक्षया घटं शुक्लं करोति शुक्लीकरोतीत्यादौ घटादेरिव नारायणादेः कृतिकर्मता । शिखण्डिनं पुरस्कृत्येत्यादौ पुरःपदमनस्थितपरम् । एवं घटं साक्षात्करोतीत्यादौ साक्षात्पदं प्रस्थ. क्षविषयपरम् । एवं दुःखमाविष्करोतीत्यादावप्याविःपदं शानगोचरार्थकमिति सर्वत्र पूर्ववद्वितीकर्तृवं तस्याप्रसिद्ध्येत्यर्थः । तत्राबाधितमेवेति । यद्यपि नारायणादेरीश्वरत्वोपगमादीश्वरे च नित्यज्ञानोपगमायापारजन्योक्तबोधस्य तत्र बाधएच तथापि पुराणादिप्रसिद्धेस्तस्मिन्नशरीरोपाध्यवच्छिन्ने जन्यज्ञानाभावेऽपि शरीरावच्छिन्ने कोपप्रसादवज्जन्यज्ञानमप्यभ्युपेत्योक्तम् अथवा नित्य एव ज्ञानप्रयत्नादी समयविशेषावच्छिमत्वेन कोपप्रसादादिजन्यतया प्रसिकार्यजातीयोपधायकत्वेन कोपप्रसादत्ववत् व्यापारजन्योक्तबोधकार्योपधायकसमयविशेषावच्छित्रत्वोपरागेण तादृशबोधखमपि नित्यसाधारणक्षैमिकप्रयोज्यत्वघटितमभ्युपगम्योक्तमित्यवधेयम् । नारायणंफलमिति । खापकर्षावधिलप्रकारका बोधविषयत्वरूपस्य फलशब्दप्रतिपाद्यस्य व्यापारेऽनुकूलत्यसंबन्धेन विशेषणत्वे प्रागुक्तधामर्थतावच्छेदकत्वसंभवात्तदाश्रय

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218