________________
१७५
गूढार्थतत्वालोकव्याख्यासहितः । बोधरूपफलाश्रयत्वरूपकर्मत्वं तत्राबाधितमेवेति वाच्यम् । एवंसति नारायणावधिकापकर्षयो. धकदण्डवत्प्रणिपातादिजन्यताशापकर्षबोधाश्रयतायाः पुरुषान्तरसाधारणतया नारायणप्रणामदशायां मनुष्यं नमस्करोतीत्यादिप्रयोगापत्तिः । यदिचापकर्षावधित्वप्रकारकबोधानु नमस्कारस्तद्धटकबोधविशेष्यतया नारायणादेः कर्मत्वम् । क्रियाजन्यफलशालिस्वरूपे कर्मत्वे च व्यापाराशेऽनुकूलतासंबन्धेन विशेषणीभूतं फलमेव विवक्षणीयं । अत्र चानुकूलत्यमेव व्यापाराशे विशेषणमित्यपकर्षावधित्वबोद्धः पुरुषान्तरस्य न कर्मतेत्युच्यते तदापि नारायणं प्रणम्येत्यादावेव कर्मत्वमुपपद्यते नतु नारायणं नमस्कृत्येत्यादौ नमःपदार्थघटकशानस्य धात्वर्थताविरहेण तद्विषयतायाः कर्मतानात्मकत्वात् । कृतिविषयतायाम्च नमःस्वापकर्षावपदार्थव्यापारपव सत्त्वात् । मैवम् । नमस्करोतीत्यादी कृधातुनैव व्यापारबोधात् । अत्रच धित्वप्रकारकयोधविषयतामा निपातार्थः । अत्र स्खं समभिव्याहृतः कर्ता, तथाच तादृशबोधविषयताप्रयोजकव्यापारानुकूलकृतिमानिति समुदायाधीनो बोधः तादृशविषयताश्रयतया नारायणादेः कर्मत्वम् । यतो धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमित्यत्र धात्वर्थतावच्छेदकत्वं न धातुशक्यतावच्छेदकत्वमपितु व्यापाररूपार्थेऽनुकूलतासंबन्धेन विशेषणतया धातुप्रतिपाद्यस्वम् । प्रकृते निपातार्थे धात्वर्थस्य साक्षान्वये तादृशबोधविषयत्वरूपस्य तदवच्छेदकत्वमक्षतमेव । नचैवं पूर्वदेशादेर्गम्यादिकर्मत्वं दुवार विभागादी क्रियाजन्यत्वसत्वेऽपि निरुतधात्वर्थतावच्छेदकत्वाभावात् । नहि विभागादिर्गम्याद्यर्थ कथमपि विशेषणतया भासते। एवं च नारायणादेः करोतिकर्मत्वेऽपि नमःपदादिकं विना न तद्योगे नारायणादिपदोत्तरं द्वितीया तदर्थान्वयिफलोपस्थापकाभावेन तदर्थानन्वयात् । नापि नारायणं फलं करोतीति प्रयोगापत्तिः। फलस्यात्र धात्वर्थव्यापारे साक्षादविशेषणत्वात् । निपातातिरिक्तनामार्थस्य धात्वर्थे भेदेनान्वयस्याव्युत्पन्नत्वात । धात्वर्थे साक्षाद्विशेषणीभवत्येव फले द्वितीयार्थाधेयत्वान्वयात् । अतएव पुरस्कृत्य शिखण्डिनमित्यादावपि शिखण्ड्यादेः कृतिकर्मता धात्वर्थव्यापारविशेषणपुरम्पदरूपनिपातार्थानदेशावस्थानरूपफलाश्रयत्वात् । नारायणो नमस्क्रियते, ज्यायान् पुरस्क्रियत इत्यादौ निपातार्थफलं धात्वर्थव्यापारविशेष्यतयैव भासते । तदन्वितमाश्रयत्वं कर्माख्यातादिना प्रत्याय्यते । अथैवमपि कारकविभक्तेः साक्षाद्धात्वर्थान्वयित्वनियमभङ्ग इति चेन्न । तादृशनियमे निपातातिरिक्तार्थमन्तराऽकृत्वत्यस्यैव साक्षादर्थत्वात् । अन्यथा घटो दण्डाजायते न पारिमाण्डल्यादित्यादी कारकपञ्चम्या जन्याद्यन्वयिनि नमर्थाभावे प्रतियोगितया स्वार्थप्रयोज्यत्वादियोधनासंभवात् । पारिमाण्डल्यादिनिपितमपि प्रयोज्यत्वं विषयितया तदवच्छिन्नजनकताकज्ञानादौ प्रसिद्धम्, प्रयोज्यत्वविशिष्टोत्पतिरेव वा तत्र धात्वर्थः । तत्र पश्चम्यन्ताथेपारिमाडल्यनिरूपितत्वस्याभावो ना बोध्यते । उक्तरीत्या क्रियायोगे नमस्कार्यस्थ कर्मत्वेऽपि स्वयंभुवे नमस्कृत्येत्यादौ चतुर्थी अपकर्षावधित्वमात्रविवक्षया । केचिस नारायणं नमस्कृत्येत्यादौ नमःपदं नतिकर्मपरम् । तथाच नारायणं नतिकर्मीकत्येत्यर्थविवक्षया घटं शुक्लं करोति शुक्लीकरोतीत्यादौ घटादेरिव नारायणादेः कृतिकर्मता । शिखण्डिनं पुरस्कृत्येत्यादौ पुरःपदमनस्थितपरम् । एवं घटं साक्षात्करोतीत्यादौ साक्षात्पदं प्रस्थ. क्षविषयपरम् । एवं दुःखमाविष्करोतीत्यादावप्याविःपदं शानगोचरार्थकमिति सर्वत्र पूर्ववद्वितीकर्तृवं तस्याप्रसिद्ध्येत्यर्थः । तत्राबाधितमेवेति । यद्यपि नारायणादेरीश्वरत्वोपगमादीश्वरे च नित्यज्ञानोपगमायापारजन्योक्तबोधस्य तत्र बाधएच तथापि पुराणादिप्रसिद्धेस्तस्मिन्नशरीरोपाध्यवच्छिन्ने जन्यज्ञानाभावेऽपि शरीरावच्छिन्ने कोपप्रसादवज्जन्यज्ञानमप्यभ्युपेत्योक्तम् अथवा नित्य एव ज्ञानप्रयत्नादी समयविशेषावच्छिमत्वेन कोपप्रसादादिजन्यतया प्रसिकार्यजातीयोपधायकत्वेन कोपप्रसादत्ववत् व्यापारजन्योक्तबोधकार्योपधायकसमयविशेषावच्छित्रत्वोपरागेण तादृशबोधखमपि नित्यसाधारणक्षैमिकप्रयोज्यत्वघटितमभ्युपगम्योक्तमित्यवधेयम् । नारायणंफलमिति । खापकर्षावधिलप्रकारका बोधविषयत्वरूपस्य फलशब्दप्रतिपाद्यस्य व्यापारेऽनुकूलत्यसंबन्धेन विशेषणत्वे प्रागुक्तधामर्थतावच्छेदकत्वसंभवात्तदाश्रय