________________
व्युत्पत्तिवादः। यानिर्वाह इत्याहुः । नमम्पदस्य धर्मिबोधकत्वे हरिराविर्भवतीत्यादिवनमो भवतीति प्रयोगप्रसङ्गात तस्मान्नमस्करोतीस्याविष्करोति पुरस्करोति अलंकरोतीत्यादौ नमःप्रभृतयो निपाता धर्मघाचका पप, लापवात् । तत्तद्धर्माश्रयस्थ दर्शितरीत्यैव कर्मतोपपत्तेः आविर्भवतीत्यादिप्रयोगानरोधेन थाविरादिशब्दानां प्रकटताश्रये धर्मिणि लक्षणोपेयते । शुक्लः पट इत्यादौ शुक्लादिशब्दानामिव । अस्तु वा तत्रापि प्रकटतादिरूपो धर्म एव तदर्थस्तस्यैव धात्वर्थभावे धर्मरूपेऽभेदाम्बयः । क्रियायां स्वार्थाभेदान्वये आविरादेरेवाकाङ्क्षा स्वीक्रियते न तु नमापदादेरिति न नारायणो नमो भवतीत्यावेः प्रसङ्गः । शुक्लीकरोतीत्यादौ विप्रत्ययान्तस्यापि शौक्यादिधर्म एवार्थः । अभूततद्भावे तदनुशासनात् । अभूतस्य पूर्वकालावच्छेदेन शुक्लादिभावरहितस्य तद्भावः शौक्लधादिः। अथवा अभूतः पूर्वकालावच्छेदेन धर्मिण्यविद्यमानस्तद्भावः शौक्लयादिः, शुक्लीभवतीत्यादौ तु दर्शिता गतिः । न चाभूततद्भावपर्यन्तस्य च्चिप्रत्ययवाच्यत्वे गौरवाच्छुक्लादिपदोपस्थाप्यपदार्थतावच्छेदकशौक्लयाधन्वयि अभूतत्वं विप्रत्ययार्थोऽस्तु । शुक्लतर इत्यादौ तरबाद्यर्थोत्कर्षस्येव व्यर्थस्यापि व्युत्पत्तिवैचित्र्येण पदार्थतावच्छेदकेऽन्वयसंभवादिति वाच्यम् । मन्मतेऽपि शौक्लयादिभाषस्यैव च्चिप्रत्ययार्थतोपगमेन. गौरवानवकाशात् । पूर्वकालावच्छिन्नस्वनिष्ठाभावप्रतियोगित्वसहितस्याधेयत्वस्य प्रत्ययार्थ प्रकृत्यर्थस्य संबन्धतया भानोपगमात् । शौक़यादावभूतत्वलाभेनैव जलपरमाणुः शुलीभवतीति प्रयोगाप्रसङ्गात् । शौक्लयादेधर्मत्वेनैव वाच्यता नतु तादूप्येणेति न शक्यानन्त्यम्। प्रकृत्यर्थतावच्छेदकतत्तद्धर्मनिष्ठाधेयताविशेषाणामेव संबन्धतया भानोएगमाद्धर्मान्तरस्याभूतत्वमादाय न जलपरमाणुः शुक्लीभवतीत्यादिप्रसङ्गीप्रकृत्यर्थतावच्छेदकगतप्रागविद्यमानत्वस्य च्चिप्रत्ययार्थत्वमतेतु शुक्लीभवतीत्यादौ प्रकृत्यर्थतावच्छेदकशौक्लयाद्यभावस्य प्रागपि क्वचिद्विद्यमानतया तभावान्वये योग्यतानुपपत्तिः । तत्तर्मिण्यविद्यमानत्वस्य व्यर्थत्वे शत्यानन्त्यमिति पूर्वकालावछिन्नोऽभाव एवाविद्यमानत्वम् । तस्य च प्रकृत्यर्थतावच्छेदके सामानाधिकरण्यसहितप्रतियोगित्य
बन्धेनान्वयो वाच्यः। प्रकृत्यर्थे च तादृशसंबन्धेनाभावविशिष्टस्य वैशिष्टयमानमुपयम् । अन्यथा ऽन्यत्र स्वाभावसमानाधिकरणस्याशीलधादेः सर्वदाऽशुक्लकाकादावपि सत्त्वेन काकोऽशक्तीभवतीति प्रयोगः स्यात् । अत्राभावरूपपदार्थान्तरविशिष्टप्रकृत्यर्थतावच्छेदकवैशिष्टयभानं च प्रकृत्यर्थे न संभवति । प्रकृत्या खवृत्तिसहकारेण स्वार्थे यादृशविशेषणावच्छिन्नप्रकृत्यर्थतावच्छेदकीयसंबन्धो न तया नारायणस्य कर्मलसंभवादुक्तप्रयोगापत्तिरितिभावः । अभेदान्वयइति । तदन्विततिकर्थाश्रयत्वस्य प्रथमान्तायेऽन्वयोबोध्यः घटमाविष्करोतीत्यादौ तु धालर्थकृतावनुकूलत्वसंबन्धेनान्वयः तदाश्रयखाद्धटादेः कर्मताधेयवं द्वितीयाथै इति । धर्मएवार्थइति। तदाश्रयलाटादेः कर्मताआधेयत्वं द्वितीयार्थः धर्मस्योक्तस्य कृतावनुकूललघटनिष्ठोद्देश्यतानिरूपितस्वनिष्ठसाध्यत्वाख्यविषयताकत्वोभयसंबन्धेनान्वयः । अभूतलस्यापि शाब्दबोधे भानमावश्यकम् जलपरमाणुः शुक्रीभवति जलपरमाणं शुकं करोतीत्यप्रयोगात्तद्भानंतु व्यर्थतया संसर्गतयावा, तश्राभूतलस्य तद्भावस्य शक्लियादेरिव व्यर्थतापले प्रयोगाधिकरणकालाद्वर्तमानलकारस्थलेऽतीतादिलकारस्थले समभिव्याहृतविधेयान्तरकालाच पूर्वो यः कालस्तदवच्छिन मभावस्यानयत्वप्रतियोगिलं वा तादृशाभावस्याभूतत्त्वम् प्रथमस्य व्युत्पत्तिवैचित्र्यात् घटादेरशुलतया प्रत्ययानुभववैचिः ध्याच द्वितीयाप्रकृत्यर्थे प्रथमाप्रकृत्यर्थे वा सर्वत्रैव खप्रकृत्यर्थे वा घटादावन्वयः तेन सह विभक्त्यर्थद्वारा स्वतोवाऽऽधेयत्वेद शुक्रत्वादिधर्मस्यान्वये तद्भाववस्वलाभः व्युत्पत्तिवैचित्र्यामनुभववैचित्र्यच्चानभ्युपगम्य प्रकारान्तरस्य च प्रकृत्यर्थतावच्छे.. दकइल्यादिना वक्ष्यति शक्यतातु तस्य धर्मत्वेन नतु सद्भावत्वेनेतिवक्ष्यति द्वितीयस्य शौऋयादिधर्मेऽन्वयस्तद्धटकाभावे च व्युत्पत्तिवैचित्र्यात् द्वितीयादिप्रकृत्यर्थस्थाधेयतयान्वयो बोध्य इति ॥ शौकृयाद्यन्वयीति । इदंचाथवेतिपक्षोक्ताभूतत्वाभिप्रायकमन्वयप्रकारः पूर्ववत् । प्रकृत्यर्थस्य संबन्धतयेति । इदंतु प्रकृत्यर्थतावच्छेदकस्योपलक्षणत्वमभिप्रेत्योक्तम् । अन्यथा शुक्रत्वविशिष्टनिष्ठाभावप्रतियोगिलस्य शौक्लयेऽसंभव एव स्यात् वस्तुतो घटं शुक्रीकरोत्यशक्तं घटं शुक्लं करोतीदि। विवरणदर्शनाच्छुक्लावृत्तिधर्मरूपे च्व्यन्तार्थे द्वितीयार्थाधेयत्वस्य खरूपस्वनिरूपकघटादिवृत्तिपूर्वकालावच्छिन्नाभावधि योगित्वोभयसंबन्धेनान्वयो बोध्यः । तदभावान्वय इति । जलपरमाणुर्न शुक्रीभवतीत्यादाविति शेषः ।
इति व्युत्पत्तिवादगूढार्थतत्वालोके चतुर्थ्यालोकः ।