________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१७७ प्रत्याय्यते पदान्तरसमभिव्यहाररूपाकाझ्यापि प्रकृत्यर्थतावच्छेदकीयताशविशेषणसंयन्धावच्छिभसंबन्धाप्रत्यायनेन प्रकृत्यर्थतावच्छेदकीयसंबन्धे विप्रत्ययार्थाभावविशिष्टप्रतियोगित्वरूपविशे
वृत्त्याऽभासमानस्य भानासंभवादित्यनुपपत्तिः । अस्मन्मते तु भवत्यर्थ भावे विप्रत्ययान्तार्थस्याधेयतासंबन्धेन पूर्वकालावच्छिन्नस्वाभावाधिकरणविशिष्टस्य शौक्ल्यादेः सामानाधिकरण्यसंबन्धेनैवान्वयस्योपगन्तव्यतया तेन संबन्धेन चाधिकरणविशिष्टाशौक्ल्यादिमा विशिष्टस्य भवत्यर्थस्यैवाख्याताद्यर्थ आश्रयत्वे निरूपितत्वसंबन्धभानात् । तादृशविशिष्टनिरूपिताश्रयत्वस्य च पूर्वकालावच्छेदेनाशौक्ल्याद्यभावाधिकरणपव सत्त्वेन नोक्तातिप्रसङ्गः । अन्यत्स्वयमूह्यम् । स्वस्ति भवतइत्यादावाशीः स्वस्त्यर्थः । सा च परहितविषयकखेच्छा । स्वमुच्चारयिता, हितान्वयी संबन्धश्चतुर्थ्यर्थः। एवं च भवदीयहितविषयिणी मदीयेच्छेति बोधः । कल्याणाद्यर्थकोऽपि स्वस्तिशम्दः, "खस्त्यस्तुमा" मित्यादौ, तत्रापि चतुर्थ्यर्थः संबन्धः स्वस्त्यर्थान्वयीत्यलम् । इति चतुर्थ्यर्थनिरूपणम् ॥
वृक्षात्पर्ण पततीत्यादौ पञ्चम्या प्रकृत्यर्थस्य वृक्षादेः पतनादिक्रियापादानत्वं प्रत्याय्यते । अपादानत्वं च स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्यविभागाश्रयत्वम् । पर्णादेः स्वनिष्ठवृक्षादिविभागअनकस्वपतनाद्यपादानत्ववारणाय भूतान्तं क्रियाविशेषणम् । भेदप्रतियोगितावच्छेदकत्वे विभागे पञ्चम्याः शक्तिद्वयम्। भेदे विभागे च वृक्षादेः प्रकृत्यर्थस्याधेयतासंबन्धेनान्वयः । प्रतियोगितावच्छेदकत्वमाश्रयत्वसंबन्धेन। विभागश्च जनकतासंबन्धेन क्रियायामन्येति । जनकतासंबन्धस्य प्र. तियोगितानवच्छेदकतया ना तत्संबन्धावच्छिन्नविभागाभावः क्रियायां बोधयितुं न शक्य इति चेत्तर्हि विभागजनकत्वमेव पश्चम्यर्थोऽस्तु प्रतियोगितावच्छेदकत्वस्येव तस्याप्याश्रयतासंबन्धेन कियायामन्धयः । एवंच वृक्षनिष्ठभेदप्रतियोगितावच्छेदकतन्निष्ठविभागजनकपतनाश्रयः पर्णमित्याद्याकारक उक्तस्थले बोधः। अथ पञ्चमीसमभिव्याहृतनोक्तयोः पञ्चम्यर्थयोईयोरेवाभावद्वयं बोध्यते, यथायोगमेकतरस्य वा । नाद्यः पक्षः पर्ण वृक्षात्पतति न स्वस्मादित्यत्र स्वनिष्ठपतने खनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावसत्त्वेऽपि स्वनिष्ठविभागजनकत्वाभावासत्त्वेन वृक्षात्पतति न भूतलादित्यत्र पतने भूतलादिनिष्ठविभागादिजनकत्वाभावसत्वेऽपि तनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावासत्त्वेनायोग्यतापतेः । नापि द्वितीयः । वृक्षास्पर्ण पतति न पर्णादित्यत्र पत्रनिष्ठपतने निष्ठविभागाजनकत्वस्येव पत्रान्तरनिष्ठभेदप्रतियोगितावच्छेदकतया पत्रनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्यापि बाधाद्योग्यताया निर्वाहयितुमशक्यत्वादिति । अत्राहुः । विभागो जनकत्वं च पञ्चम्यर्थः । विभागे प्रकृत्यर्थस्यावधिकत्वं संबन्धस्तेन संबन्धेन प्रकृत्यर्थविशिष्टस्य विभागस्य निरूपितत्वविशेषसंबन्धेन जनकत्वेऽन्वयः । जनकत्वं च फलोपधानरूपं विशि रूपितताशजनकत्वस्य क्रियायां न[समभिव्याहारस्थलेच क्रियान्वयिन्यभावे प्रतियोगित्वेनान्वयः। वृक्षपत्रादिविभागजनकपत्रादिकर्म च न पत्राद्यवधिकत्वविशिष्टविभागोपधायकम् । पत्रादेः खा. पधिकत्वविशिष्टविभागानधिकरणत्वेन तत्कर्मणि विशिष्टविभागसामानाधिकरण्याभावात् । फलोपधायकत्वस्य सामानाधिकरण्यगर्भत्वानोक्तानुपपत्तिः । वृक्षाद्विभजते इत्यादावपि वृक्षावधिकत्वं विभाग प्रतीयते । तत्रापादानतायाः अवधितारूपत्वाद् वृक्षाघवधिकत्वविशिष्टविभागनिरूपित धाश्रयत्वमाख्यातेन बोध्यतेऽतोवृक्षः स्वस्माद्विभजत इति न प्रयोगः, यथाहि स्वप्रतियोगिकत्वविशि
संयोगः स्वस्मिन्न वर्तते तथा खावधिकविभागस्य स्ववृत्तित्वेऽपि स्वस्य न विशिष्टविभागाधिकरणस्वमित्यविवादमेव । अवधित्वादिकं च स्वरूपसंबन्धविशेषः । यहा, विभागोऽधिकरणता । प्रयोजकत्वं च वृक्षात्पततीत्यादौ पञ्चम्यर्थः। विभागेऽवधित्वसंबन्धेन प्रकृत्यर्थान्वयः। तद्विशिष्टविमागस्य निरूपितत्वविशेषसंबन्धेनाधिकरणतायामन्वयः। पत्रादिकर्मणि च न तदवधिकत्वविशिष्टवि
२३ व्यु.