________________
व्युत्पत्तिवादः ।
स्यापि मुख्यविशेष्यतया भामात् । शिवायोत्सृजतीत्यावाविव नामानिराकर्तृसंप्रदानतास्य नमःपदार्थ क्रियात्वाभावात् । नमापदेन च स्वप्रयोक्तृपुरुषकर्तृकत्वोपरागेणैव त्यागोऽभिधीयते । अन्योच्चरित नमःपदेनान्यदीयत्यागाबोधनात् । तत्पुरुषोश्चरितनमःपदात् त्यागबोधे सति त्यागे त्यज्यमाने द्र चान्यदीयत्वसंशयानुदयात् । अतएव त्यागे तदीयत्वबोधनायाहं ददइत्यादिवदहनम इति : प्रयुज्यते। नवा परकीयत्वबोधनाय चैत्रो नम इत्यादि । ऋत्विजा च यजमानरूपपुरुषान्तरीयतत्त द्रव्यत्यागे स्वीयत्वमारोप्यैव पूजायां नमःपदं प्रयुज्यते । सचारोपस्तस्य विशेषदर्शनदशायामण्याहार्य तयोपपद्यत इति प्रतिनिधिप्रयुक्तस्य दानवाक्यस्यैव पूजायां तादशनमःपद्घटितवाक्यस्य बाधि तार्थत्वेऽप्यष्टजनकत्वं न विरुद्धम् । अस्मच्छब्दादिवत्वोच्चारणकर्तृत्वोपलक्षितपुरुषविशेषवाच कानमापदाद्विशेषरूपेण पुरुषभानम् । अशक्यस्य चैत्रत्वादेर्भानासंभवे तस्यापि वाच्येऽन्तर्भाव स्वीकरणीयः। तदनुगमकं चोपलक्षणीभूतमेककालीनोभयावृत्सिवोच्चारयितृशरीरवृत्तिजातित्वम् खत्वाननुगमेऽपि शक्त्यैक्यं कथंचिदुपपादनीयं, सर्वनामशक्त्यैक्यवत् । उपलक्षणरूपप्रविष्टमुच्चा रणं वेदीयत्वेन विशेषणमतः पूजाभिन्नयादृच्छिकान्नत्यागबोधनायानं दीयत इतिवदनं नम इति र प्रयोगः। योग्यतासत्त्वेऽपि तत्र नमःपदप्रयोगस्य वेदाबोधितत्वेन तद्धस्तितत्पदशक्यपुरुषोपलक्षणरू पाप्रसिश्याऽवाचकत्वात् । अतएव यथा नीचप्रीतिहेतुक्रियास्थले पूजयतीत्यादिवारणाय पूजय त्यादिवाव्यप्रीती गौरवितवृत्तित्वं, स्वसमभिव्याहतपदार्थकर्तृपुरुषावधिकोत्कर्षववृत्तित्वरूपमुप लक्षणमुपेयते । उक्तस्थले च योग्यतासत्वेऽपि नीचवृत्तिप्रीतेस्तत्त्वाभावेन तत्तात्पर्येण पूजयत्या देर्न प्रयोगः । तथा नीचोद्देश्यकत्यागतात्पर्येण नमःपदाप्रयोगात्सदतिप्रसङ्गवारणाय गौरवितोद्देश्यक त्यागएव नमःपदशक्तिरित्यनादेयम् । गौरवितोद्देश्यकत्वस्य नमःपदार्थशरीरे निवेशेऽपि गौरवितो हेश्यकपूजातिरिक्तद्रव्यत्यागबोधनाय नमःपदप्रयोगवारणायोक्तविशेषणस्योच्चारणेऽप्यपश्यं निवेश नीयसया तत पव तदतिप्रसङ्गवारणात् । इन्द्राय स्वाहा तुभ्यं स्वधेत्यादौ अग्निप्रक्षेपोपहित देवोद्देश्यकत्यागबोधकथाहापदपिद्देश्यकत्यागबोधकस्वधापदयोरपि नमःपदवद्देशनादशितोश्वार रणकर्तृत्वोपलक्षितपुरुषीयत्यागवाचकता । अन्यथा पूर्ववदेवातिप्रसङ्गः । एवं च देवोद्देश्यक त्वादेरपि न वाच्यान्तर्भावः । अतादृशत्यागतात्पर्येण स्वाहादिप्रयोगस्य देशनादेशितत्वविरहेणे वानतिप्रसङ्गात् । अतएव तान्त्रिकपूजायामाचमनीयादिदानेऽग्निप्रक्षेपोपहितत्वपित्रुद्देश्यकत्व विरहेऽपि स्वाहावधाप्रयोगस्य नासमवेतार्थता । एवंच सति नमःस्वाहास्वधाशब्दानामेकस्थले ऽन्यप्रयोगस्य वेदबोधितत्वाभावेनैव नातिप्रसक्तः नतिरूपो नमःपदार्थश्व स्वापकर्षबोधनानुकूलः स्वीयव्यापारः। चतुर्थ्या चापकर्षान्वय्यवधित्वमवधिमत्वं वा प्रत्याय्यते । स्वमुचारयिता, तथाच चैत्राधुच्चारितानमो हरयइत्यादिशब्दार्यवधिकचैत्रापकर्षबोधानुकूलश्चैत्रीयव्यापार इत्याकारको बोधः । नारायणं नमस्कृत्येत्यादौ नमःशब्दयोगेऽपि न चतुर्थी । द्वितीयया कारकविभक्ति त्वेन बलीयस्या बाधात् । अथात्र नारायणादेनमस्कारघटकापकर्षावधित्वमेव तञ्च न कर्मत्वम् । कर्मत्वं च क्रियाजन्यफलशालित्वादिरूपमेव तश्च न तस्येति द्वितीयाया नायं विषयः । नचापक --------- -..---.-- .. --- -- ' क्रियात्वाभावादिति । अनिराकर्तृसंप्रदानलस्य समभिव्याहृतक्रियाघटितस्य । प्रागुक्तलादितिभावः । कथंचिदु. पपादनीयमिति । नमःपदं नमःपदविशिष्टं भवलितीच्छाया नमःपदशक्तिरूपत्वाभ्युपगमेनोपपादनीयमित्यर्थः । वैशिष्ट्यञ्च खतादात्म्यखोचारयितृवृत्येककालिकशरीरद्वयावृत्तिजातित्वसमानाधिकरणाबच्छेदकतानिरूपितावच्छित्रत्वसंबन्धावच्छि नशरीरनिष्ठावच्छेदकतानिरूपितात्मनिष्ठाधेयखसंबन्धावच्छिन्न प्रकारतानिरूपितत्यागनिष्ठविशेष्यताकबोधजनकत्वोभयसंबन्धेन । एवञ्च वलस्य संबन्धघटकलान्नाननुगमः चैत्रादौ नमःपदस्योच्चारयितृत्वग्रहे नमःषदशक्यत्वस्य शरीरवृत्तिचैत्रवादिजाति विशेषविशिष्टावच्छिन्नारमवृत्तित्यागादौ सुग्रहतया ततस्तन रूपेण बोधस्यापि संभव इति भावः । तटितेत्यादि। तेन वेदबोधितोच्चारणेन घटितं यत् तत्पदशक्यखोञ्चारयितृपुरुषकर्तृकत्यागघटकपुरुषस्योपलक्षणं वेदबोधितखोचारणा