Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 177
________________ गूढार्थतत्वालोकव्याख्यासहितः । १७३ क्षितायां तुमुन्ण्वुलोर्विधानात् । एतत्सूत्रस्यापि स्वर्गीय पुण्यमित्यादिने विषय इति सोऽसाधुरेव । धानाहर्तुं व्रजतीत्यर्थे एधेभ्यो व्रजतीत्यत्र एधस्य न वजनप्रयोजनत्वं सिद्धत्वात् वजनस्य तदनुकूलव्यापारानाश्रयत्वाच्चेति न तादर्ध्यइति सूत्रस्य प्रवृत्तिर्नापि तुमर्थादित्यादेरेधपदस्य क्रियारूपभाववचनत्वाभावादिति तत्र क्रियार्थोपपदस्येति चतुर्थी । तदर्थश्च क्रियार्थोपपदस्तु मुत्रन्तो यो धातुरप्रयुक्तस्तस्य यत्कर्म तत्प्रयोगं विना तदर्थकर्मतया यद्विवक्षितं तद्वाचकाच्चतुर्थीति । तत्र चाहर्तुमिति तुमुन्नन्तार्थः समभिव्याहृत क्रियान्वयिस्वार्थकत्वान्वय्याहरणं, तादृशार्थकर्मतया पधस्य विवक्षितत्वात्तत्र चतुर्थी । चतुर्थ्या एवार्थस्तत्कर्मकाहरणप्रयोजनकत्वम् । पाकाय व्रजतीत्यादौ पार्क कर्त्तुमित्यर्थविवक्षायामनेनैव सूत्रेण चतुर्युपपत्तावपि यदा पाककृतीच्छाधीनेच्छाविषयत्वरूपं पाककर्मक कृतिप्रयोजनकत्वं न व्रजनस्य विषक्षितमपितु पाकेच्छाधीनेच्छाविषयत्वरूपं पाकार्थकस्वमेव तत्रापि चतुर्युपपत्तये तुमर्थादिति सूत्रम् । अश्वाय घास इत्यादावश्वपदस्याश्व भोजनपरतथा तादर्ध्यचतुयैव । आहियत इत्यस्याध्याहारेणाश्वं भोजयितुमा हियत इत्यर्थविवक्षया क्रियार्थो - पपदेत्यादिसूत्रेण चतुर्युपपत्त्या अभ्वपदस्य मुख्यार्थपरत्वोपपादनेऽपि अश्वघास इत्यत्राभ्वपदस्य तद्भोजनपरतायास्तादर्थ्य चतुर्थ्याश्चावश्यकता | अन्यथाऽऽहृतपदसापेक्षतया चतुर्थीसमासानुपपत्तेः । नच तथापि समासानुपपत्तिः, रन्धनाय स्थालीत्यादौ तद्वारणाय चतुर्थी तदर्थेतिसूत्रेण समासे प्रकृतिविकारभावस्य नियामकत्वानुसरणादिति वाच्यम् । आरामगृहाभ्व घासादौ चतुर्थीतियोगविभागेन शाब्दिकैः समासोपपादनात् । नमः स्वस्त्यादिशब्दयोगेऽपि तदर्थविशेषणवाचकपदाश्रमः स्वस्तीत्यनेन चतुर्थ्यनुशिष्यते । नमः शब्दार्थस्त्यागो नमस्कारथ एषोऽर्ध्यः शिवाय नम इत्यादी त्यागार्थकः । चतुर्थ्यां च तत्र प्रकृत्यर्थस्य शिवादेरुद्देश्यत्वं प्रत्याय्यते। त्यागश्च यदि शि वस्यायं भवत्वित्यादिफलेच्छाधीनस्वस्वत्वाभावेच्छारूपस्तदा त्यागोद्देश्यत्वं स्यागजनकेच्छायाः स्वत्वभागितया विषयत्वम् । यदिच त्यागरूपेच्चैव स्वस्वत्वाभावमिवान्यदीयत्वेन त्यज्यमानगतं स्वत्वमपि तत्र विषयीकरोति, नतु तजनकेच्छा तदा स्वत्वभागितया त्यागविषयत्वमेव तदुद्देश्यत्वम् । शिवादेर्विग्रहवतोऽपि स्वीकाराभावात् तदाकारतया ध्यातमन्त्रस्य त्यागोद्देश्यतामते सुतरां तदभावाश्व । त्यज्यमानोपचारादौ स्वत्वाभावेऽपि तदीयत्वेन द्रव्ये स्वत्वावगाहिनीच्छा विसंवादरू पैव । द्रव्यनिष्ठेऽन्यदीयस्वत्वे बाधितं शिवादिनिरूपितत्वं शिवादिनिरूपितप्रसिद्धस्वत्वान्तरे वा बाधितं तत्तद्रव्यसंबन्धमवगाहते । नच खत्वान्तररूपफलेच्छां विना स्वस्वत्वाभावगोचरेच्छेष न संभवतीति शिवादिस्वत्वं त्यागस्यैव विषय इति पक्षोऽसंभवदुक्तिक इति वाच्यम् । स्वस्वस्वाभावविषयकेच्छायाः पुण्यादिरूपफलजनकत्वात्तद्विषयस्य पुण्यादिजनकतावच्छेदकस्यापि पुण्यादिकलकत्वात् । अन्यथा तत्स्वत्वस्यापीष्टाजनकतया स्वतोऽपुरुषार्थतया च प्रथममपि तदिच्छाया असंभवेन प्रथमकल्पस्यापि हेयत्वापातात् । तत्रच प्रथमकल्पे स्वस्वत्वप्रकारकेच्छाजन्यत्वं जन्यतासंबन्धेन ताद शेच्छावत्वं वा चतुर्थ्यर्थः । तत्र प्रकृत्यर्थस्य शिवादेर्विषयताविशेष संबन्धेनान्वयः । द्वितीयकल्पे च विषयिताविशेष एव चतुर्थ्यर्थः । तत्र च निरूपितत्व संबन्धेन शिवादेरन्वयः नमः पदार्थत्यागस्य च विषयताविशेषसंबन्धेन द्रव्येऽन्वयः । द्रव्यस्यैव वा विशेष्यतया भासमानत्यागे विषयिताविशेषसम्बन्धेनान्वयः । नच प्रथमान्तपदार्थस्य मुख्यविशेष्यतानियमः भूतले न घट इत्यादौ निपातार्थप्रतियोगिनाश्यतापक्षे शोधनोत्पत्त्यव्यवहितोत्तरक्षणे दुरदृष्टापत्तिवारणाय शोधनात्यन्ताभावत्वेनैव हेतुलस्य वाच्यत्वात्तस्य शोधनप्रागभाववति सत्त्वे तद्धुंसवत्यपि सत्त्वे बाधकाभावादित्येतदभिप्रायकत्वेन यथाकथंचित्संगमनीयत्वात् ॥ स्वत्वभागितयात्यागविषयत्वमेवेति । एवकारेण खखभागित्वव्यवच्छेदः । अनहेतुमाह । शिवादेर्विग्रहवतोपीति । स्वीकाराभावादिति । स्वत्वोत्पत्तिप्रयोजकस्य स्वीकारस्याभावादित्यर्थः । नित्य तृप्तस्य शिवा देरिदंमम भवलितीमच्छारूपस्य स्वीकारस्यासंभवात् नच शिवस्वमित्यादिव्यवहारानुपपत्तिरिति वाच्यं त्यागीयस्य शिवादिनिष्ठविषयतानिरूपित'स्वत्वनिष्ठविषय तानिरूपितविषयताश्रयत्व त्यैव तत्प्रयोजकत्वादिति भावः ।

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218