Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 176
________________ १७२ व्युत्पत्तिवादः। स्वेन स्वकर्तृकाम्योद्देश्यकतावद्रव्यदानमेव विषय इत्युपेयम् । तदुत्तमर्णोदेश्यकतत्कर्तृकतावद्रव्यः दामस्याप्रसिद्धत्वात् । तथाचान्योद्देश्यकताधाव्यदानोत्तरं तदभ्युपगमविषयद्रव्यदानविशिष्टान्य -प्रागभावासत्त्वाधारयतीति व्यवहारानुपपत्तिरिति चेत् । अत्राहुः ऋणग्रहणेनाधमर्णनिष्ठः परिशो धननाश्योऽदृष्टविशेषो जन्यते । तेनैवादृष्टेन ऋणमपरिशोध्य मृतस्य नरकादिकम् । तथाच द्रव्या न्तरदानाभ्युपगमपूर्वकपरदत्तद्रव्यादानजन्यादृष्टविशेषवत्त्वमेव धारयतेरर्थः । तटकदानान्ययि का त्वं तत्र चतुर्थ्यर्थः । नच ऋणाशोधनमेव दुरदृष्टजनकमुपपातकमध्ये तस्य परिगणनात्, नत ऋणादानम् तस्य तथास्वे मानाभावादिति वाच्यम् ऋणादानस्य दुरदृष्टविशेषजनकत्वेऽपि परिशोध नेन तस्य नाश इति बोधनायापरिशोधनस्य नरकरूपफलोपधानप्रयोजकत्वाभिप्रायेण तस्योपपातक मध्ये परिगणनोपपत्तेः। ऋणमादायापरिशोधकस्य नरकभागितया ऋणादानस्यैव दुरदृष्टसाधनताया कल्पनीयत्वात् । गृहीतर्णपरिशोधनापेक्षया लघुत्वात् । अपरिशोधनस्य हेतुत्वे परिशोधनपूर्वकाले ऽध्यपरिशोधनसरचे दुरदृष्टोत्पत्तेरावश्यकतया परिशोधनस्य तन्नाशकताया आवश्यकतयाऽस्माकंत स्कल्पनाधिक्यविरहात् । परिशोधनोत्तरकालं परिशोधनाभावसत्वेन तद्वलात्तदुत्तरमदृष्टवारणाय प रिशोधनध्वंसस्य प्रतिबन्धकतायाः कल्पनीयतया भवन्मते गौरवाच्च। नच परिशोधनानुत्तरमरणमेव पापजनकं वाच्यं तथाच नोकातिप्रसङ्ग इति वाच्यम् । गृहीतद्रव्यमपरिशोध्यमरणस्थले तद्रव्य परिशोधनाप्रसिध्या तदनुत्तरत्वादिधटितरूपेण हेतुतायाः कल्पयितुमशक्यत्वादित्यलम् । यूपाय दारु इत्यादौ न संप्रदानचतुर्थी, अपि तु तादर्थ्यर्थे सूत्रान्तरेण । तादर्थं च स एवार्थः प्रयोजनमस्य तस्वम् । समभिव्याहतपदार्थतादर्थ्यविवक्षायां तवाचकाचतुर्थीति तदर्थः। प्रयोजनवंचानन जन्यत्वं दुःखादेः पापादिजन्यतया दुःखाय पापमित्याद्यापत्तेः, नापि जन्यतयेच्छाविषयत्वम् खर्गादेः पु. ण्यादिजन्यत्वेनेच्छाविषयत्वात् स्वर्गाय पुण्यमित्याद्यापत्तेः । तथासति पक्तुं बजतीत्यर्थे पाकाय ब. जतीति निर्वाहाय तुमथैतिसूत्रप्रणयनवैयात् पाकादेर्निरुक्तवजनाद्यर्थतयैव तद्वाचकपदाचतु. र्युपपत्तेः । अपितु समभिव्याहतपदार्थनिष्ठव्यापारेच्छानुकूलेच्छाविषयत्वं तत्प्रयोजनत्वं तत्प्रयो. जनकत्वरूपतादर्थ्यच तदिच्छाधीनेच्छाविषयव्यापाराश्रयत्वं दारुणो यूपेच्छाधीने छाविषयतक्षणाविरूपव्यापारवत्तया युपार्थत्वमिति तद्विवक्षया युपपदाचतुर्थी । इच्छाधीनेच्छाविषयव्यापाराश्र यत्वं चतुर्थ्यर्थः । प्रथमेच्छायां यूपादेः प्रकृत्यर्थस्य विषयतयाऽन्वयः । एवं रन्धनाय स्थालीत्यादावूयम् । तत्र तादृशव्यापारस्तण्डुलधारणादिः । पुण्यादेः स्वर्गेच्छाधीनेच्छाविषयव्यापारानाश्रयतया न स्वर्गाय पुण्यमित्यादिप्रयोगो, ब्रजनादेः पाकानुकूलब्यापारानाश्रयतया न पाकाय बजतीस्वादावनेन चतुर्थीति तुमाश्चेत्यादिसूत्रम् । तदर्थश्च तुमुन्नन्तयद्धातुना याशोऽर्थः प्रत्याय्यते समभिव्याहृतक्रियाऽन्विततदर्थपरासद्धातुघटितभावकृदन्ताच्चतुर्थीति पक्तुं बजतीत्यत्र तुमुन्नन्तेन बजने पाकविषयेच्छाधीनेच्छाविषयत्व बोध्यते । तुमुन्ण्वुलावितिसूत्रेण समभिव्याहतक्रियायां प्रकृतक्रियासमानकर्तृकत्वसहिततदिच्छाधीनेच्छाविषयत्वरूपतदर्थकत्वेन विव. पुष्पं मेस्यादित्यत्र बनस्य विशेषणत्वात् पुष्पविशिष्टं वनंमेस्यादितीच्छायां वनाय स्पृहयतीति भवत्येव । ऋणादानस्येति । नच ऋणादानस्य दुरदृष्टजनकत्वे मानाभावस्योक्तत्वेन तत्र मानमनुक्त्वा जनकत्वेऽपीत्युक्तिरयुक्तेति वाच्यमनुपदपक्ष्यमाणं मानं वृत्तमिवाकलय्य तद्धेतुखपक्षे स्मृतिसमर्थनमेव कर्तव्यमाकलयता ग्रन्थकृता तस्यैवारब्धत्वात् । ऋणादानस्य दुरदृष्टजनकरवे भानमाह । ऋणमादायेति । परिशोधनोसरकालमिति । अथ परिशोधनाभावमात्रस्य दुरदृष्टकारणत्वे ऋणादानोत्तरं परिशोधनात्प्रागनन्तदुरदृष्टोत्पादप्रसङ्गः । कारणस्य सर्वक्षणेषु सत्त्वादित्यनन्तादृष्टापत्तिरेवोद्भावयितुमुचितेति चेन्न प्रथमोपनादृष्टाभावस्यापि तत्सहकारित्वेऽदृष्टोत्पत्त्यनन्तरमदृष्टान्तरापादनासंभवादतः शोधनेन तत्राशे शोधनस्यापि नाशे शोधनाभावादृष्टाभावोभयसत्वात्तदुत्तरमदृष्टापत्तेरेवोक्तत्वात् । नचादृष्टाभावकारणतागौरवकुतोनोकमितिवाच्यमादानहेतुतापक्षेऽप्यादानस्य क्षणद्वयाद्यवस्थायित्वेनादृष्टद्वयादिवारणाय त तुताया आवश्यकलात् नच शोधनप्रागभावरूपाभावस्यैव हेतुत्वे शोधनोत्तरमदृष्टापत्तेरसंभवाटुंसस्य प्रतिबन्धकत्वकल्पनमयुक्तमिति वाच्यम् प्रागभावस्य

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218