Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 171
________________ गूढार्थतत्वालोक व्याख्यासहितः । १६७ 1 इत्थंभूतलक्षणइत्यनेन लक्षणवाचिपदात्तृतीयाऽनुशिष्यते । लक्षणत्वं च व्यावर्तकत्वं तच विशेष्यतावच्छेदकसमानाधिकरणाभावप्रतियोगित्वम्, तदाश्रयश्च धर्मो द्विविधो विशेषणमुपलक्षणं च । विद्यमानं सद्व्यावर्तकं विशेषणम् । पुरुषादौ वर्त्तमानकालावच्छेदेन विद्यमानो दण्डादिः अविद्यमानं व्यावर्तकमुपलक्षणम् । तापसादेः कालान्तरीणजटादिकम् । विशेषणस्य संबन्धो मतुबादिभिः प्रत्याय्यते अस्तीत्यर्थे विहितानां वर्त्तमानसंबन्धार्थकत्वात्, अतो जटाभिस्तापस इत्यादावविद्यमानजटादेः संबन्धविवक्षया मतुवाद्यनवकाशात् तृतीया । तथाच विद्यमानत्वस्याविद्यमा नवस्येवाय प्रत्यायनात् विशेषणवाचि पदादपि तृतीया । यथा शायमानत्वेन लिङ्गं करणमित्यादौ । अथ तत्र शायमानत्वादिवैशिष्ट्यं तृतीयया लिङ्गादौ न प्रत्याय्यते अपि तु पदार्थैकदेशे करणत्वा दावेव तदवच्छिन्नत्वमिति चेत्तथापि सा विशेषणतृतीयैव अनुशासनान्तराभावात् । वस्तुतोलिङ्गादौ शायमानत्वादिवैशिष्ट्य बोधनेऽपि संबन्धविधया करणत्वज्ञायमानत्वाद्यविच्छेद्यावच्छेदकभावभानसंभवादेकदेशान्वयस्वीकारोऽनुचितः । नच संबन्धविधया करणत्व एकदेशेऽवच्छिन्नत्व भानेऽप्येकदेशान्वयध्रौव्यमिति वाच्यम् । करणाभेदरूपे करणत्वे करणस्य संबन्धविधया भा समाने ज्ञायमानत्वावच्छिन्नत्वस्यावच्छेदकतया भानोपगमेनैकदेशान्वयं विनाप्यवच्छेद्यावच्छेदकभावभानात् । अथ दण्डवानयमासीद्दण्डीगतवानित्यादौ दण्डस्यातीततया विशेषणत्वासंभवाम्मतुवाद्यनुपपत्तिरिति चेन्न । प्रकृतशब्दप्रयोगाधिकरणकालावच्छिन्नस्येव विधेयान्तरसमभिव्याहा रस्पले तदधिकरणकालावच्छिन्नस्य संबन्धस्यापि मतुबादिना प्रत्यायनात् । तत्रातीतकालसत्त्वादिरुपविधेयाधिकरणातीतादिकालावच्छिन्नसंबन्धस्यैव मतुबाद्यर्थत्वात् । अविद्यमानोऽपि दण्डादिधर्मान्तार संबन्ध समानकालीनतया धर्मान्तरान्वयिनि विशेषणम् । तत्प्रकारेण भासमाने धर्मान्तराम्बयबोधो विशिष्टवैशिष्ट्यबोधइत्युच्यते । नत्वसावन्वयिन्युपलक्षणम् नवा ताहशबोधस्तदुपलक्षितान्वयवोध इत्युच्यते । कचिद्विधेयान्तरसमानकालीनमपि विशेषणं तदनन्वयितया तदयिन्युपलक्षणमुच्यते यथा रूपवान् रसवानित्यादौ रूपादिक रसान्वयिनि सास्तावान् गोपदवाच्य इत्यादौ सास्नादिकं गवादिपदवाच्ये । कचिद्धर्मिसंबद्धधर्मान्तिरसंबन्धितानवच्छेदकतया धर्मान्तरसंबन्धिन्युपलक्षणमतो दण्डपुरुषावित्यादिसमूहालम्बनबोधो दण्डाद्युपलक्षितपुरुषादिविषयको नतु विशिष्टविषयक इत्युच्यते विशेष्यसंबन्धा संबन्ध्यपि तत्संबन्धितावच्छेदकतया सति विशेषणम् । अतएव संज्ञाविशिष्टसंश्यादिज्ञाने संज्ञादेर्विषयत्वमनङ्गीकुर्वतां प्राभाकराणां प्राचीननेयायिकानां च मते तटस्थज्ञानविषयतयैवविषयतावच्छेदकत्वात्संज्ञादेः प्रकारस्य ज्ञानविषयविशेषण स्वात् भारमनुद्वहन्तं पुत्रमनुद्वहन्त्यामित्युपातं प्रथमे भारोद्वहनकर्तृत्वरहितपुत्रस्याप्रसिद्धिर्द्वितीये पुत्रवहन कर्तृस्वाभा वस्माप्रसिद्धिरिति स्थलद्वयाविषयललाभे भारोद्वहनकर्तृगर्दभी सहभावमात्रविषयत्वमुक्तप्रयोगस्य लभ्यते तच तादृश क्रियाभावाद्दुरुपपादमिति भावः । विशेष्यतावच्छेदकसमानाधिकरणेत्यादि । तापसमात्रस्य जढाया अभावेन तत्संबन्धस्य विशेष्यतावच्छेदकतापसत्वसमानाधिकरणाभावप्रतियोगित्वसंभवः गन्धेन पृथिवी जटाभिः स इत्यादावुद्देश्यतावछेदकपृथिवीलतव्यक्तित्वादिमति जटासंबन्धगन्धसम्बन्धाभावासत्त्वेन यद्यप्यनेन सूत्रेण न तृतीयासंभवस्तथापि ज्ञापकहेती भवत्येव तृतीया । यत्तु हेतीतृतीया कारकहेतावेव ज्ञापकहेतौ चानेनैव लक्षणलमपि ज्ञानज्ञापकत्वमेव जटाभिस्तापस इत्यस्य जटाज्ञानज्ञाप्यतापसलविशिष्ट इत्यर्थ इति कश्चित्तत्र ज्ञापकत्वं हि व्याप्यस्यैव भवति नहि जटातापसमात्रधर्म, एकदेशान्वयप्रसङ्गोऽपि च दोषः खमतेऽभावप्रतियोगिसंबन्धस्तृतीयार्थः संबन्धेप्रकृत्यर्थस्य प्रतियोगिताकत्वेनान्वयः अभावेच प्रकृत्यर्थतावच्छेदकावच्छिन्नस्याधेयतयाऽन्वयस्तेन द्रव्यत्वेन घटइत्यादेर्नप्रामाण्यप्रसङ्ग इति । नप्रत्याय्यतइति । तथासति विवक्षितस्य ज्ञायमानत्वेन करणत्वस्यालाभादितिशेषः । करणाभेदरूपे करणत्वइति । तदभेदस्य तद्गतासाधारणरूपतापक्षे यद्यपीदं न सम्भवति तथापि प्रकृत्यर्थतावच्छेदकधर्मस्यैव स्ववृत्तित्वविशिष्टत्वेनाभेदसंसर्गरूपत्वपक्षेऽभेदसंसर्गस्य करणत्वरूपतासंभवत्येव । अवच्छेदकतयेति । संसर्गतावच्छेदकतयेत्यर्थः । अविद्यमानोऽपीति । प्रतियोगि कालइत्यादिः । तदनन्वयितयेति । विधेयान्तरानन्वयितयेत्यर्थः । अन्वयच विधेयान्तरेण सह तस्य धर्म्यंशे भासमानो यः स एव प्रा

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218