Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
व्युत्पत्तिवादः ।
ब्दस्याधातुत्वाद्, निपातत्वाच्च । नच प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सह लक्ष्मणेनेत्यादौ शत्रुघ्नप्रसव लक्ष्मणप्रसवयोः समानकालीनत्वाभावात् क्रियाद्वयसमानकालीनतायाः सहशब्दार्थस्वासंभव इति वाच्यम् तत्रापि स्थूल कालघटित समानकालीनत्वसत्वात् । नच कालत्वेनैव कालस्य तदर्थान्तर्भावे पुत्रागमनपूर्वमागन्तरि आगतोऽयं न पुत्रेण सहेति प्रयोगानुपपत्तिः । पुत्राः गमनाधिकरणस्थूलकालवृत्त्यागमन कर्तृत्वसस्वेनान्वयितावच्छेदकरूपावच्छिन्न प्रतियोगिताकसाहि त्याभावबाधादिति वाच्यम् । तत्र क्षणत्वेनैव कालस्य सहशब्दार्थे ऽन्तर्भावनीयत्वात् । एवं यत्र एककालेऽपि विभिन्न स्थले भुञ्जानमधिकृत्य न सह भुङ्गइति प्रयुज्यते तत्रैकशालारूप भोजनाधारोSपि सहशब्दार्थेऽन्तर्भावनीयः । अतएवाला पाद्वात्र संस्पर्शानिश्वासात्सहभोजनादित्यादिना पतितभोजन समानकालीनभोजनमात्रस्य पापजनकस्वं न योग्यते एकपतेरपि विवक्षणात् । एवं " याजनं योनिसंबन्धं स्वाध्यायं सह भोजनम् । सद्यः पतति कुर्वाणः पतितेन न संशय" इत्यादावेकदैकपात्रभोजनस्यैव सद्यःपातहेतुत्वं प्रत्याय्यते, तत्र तादृशार्थस्यैव सहशब्देन विवक्षणात् । अथ नामार्थस्यैव सहार्थविशेष्यतयान्ययोपगमे पुत्रेण सह नागच्छत्ययमित्यादौ सहशब्दार्थपुत्रसा हित्याभाव एव पुरुषांशे नत्र बोध्यतइत्युपगन्तव्यम् तच्च नोपपद्यते तथासत्याख्यातार्थोद्देश्यतावच्छेदकतयैव नअर्थभानस्योपगन्तव्यतया प्रसज्यप्रतिषेधस्थले निषेधस्य तं प्रति प्राधान्येन भाननियमव्याघातात् । एवमनागच्छन्तमपि पुरुषमधिकृत्य तथा प्रयोगात्तत्रायोग्यताप्रसङ्गाच्च । एतेन तत्र पर्युदासनव्यूवत्क्रियायोगपरित्याग इत्युक्तावपि न प्रतीकारः । नच तत्रागमनाभावकाल पव पुरुषान्वयी सहशब्दार्थः तथाच पुत्रागमनाभावकालावच्छिन्नपुरुषे वर्त्तमानकालावच्छिन्न आगमनाभावः प्रतीयत इति न काचिदनुपपत्तिरिति वाच्यम् । यत्रास्य पुत्र आयाति न त्वयं तत्रापि ताशप्रयोगात् । तत्रच पुत्रागमनकालावच्छिन्नस्यागमनकर्तृत्वस्य भावसत्त्वेऽपि पुत्रागमनकालावच्छिन्नवपुरुषे वर्त्तमानकालावच्छिन्नागमनाभावस्य सवेनायोग्यतापातात् । मैवम् । सद्दशव्दार्थस्तत्तत्क्रियाकालः क्वचित्तत्तत्क्रियान्वयि प्रथमान्तपदार्थे ऽन्वेति । कचिच्च समभिव्याहृतक्रियायाम् । सपुत्र आगच्छतीत्यस्य पुत्रेण सहागच्छति य इति विग्रहात् प्रथमान्तान्यपदार्थ एव पुत्रागमनकालान्वयो नतु क्रियायामिति न समासानुपपत्तिः । नवान्यपदार्थपुरुषालाभः । नचैवं समासलभ्यस्य पुत्रागमनकालावच्छिन्नस्य पुंसोविग्रहवाक्येनापि प्रतिपादनाद्बहुव्रीहिमात्रस्यैव नित्यसमासत्वमिति भज्येतेति वाच्यम् बहुवीहिमात्रस्य तथात्वानियमात् प्रथमान्तानुपस्थाप्यान्यपदार्थबोधकबहुव्रीहेरेव तत्त्वाभ्युपगमात् । अत्रचान्यपदार्थस्य प्रथमान्तोपस्थाप्यत्वात् । नच वृष्टे देवे गत इतिवत् प्रथमार्थे बहुव्रीहेरसाधुत्वमिति वाच्यम् अनेकमित्याद्यनुशिष्टबहुव्रीहावेव तत्रियमात् । अत्रच सूत्रान्तरेण तद्विधानात् । अतएव तदारम्भोऽपि । पुत्रेण सह नागच्छतीत्यादौ च क्रियायामेव तादृशसहार्थान्वय इति पुत्रागमनकालीनागमन कर्तृत्वाद्यभावः प्रथमान्तार्थे प्रतीयतइति सर्वे सुस्थम् । भारमनुद्वहन्तं पुत्रमनुद्वहन्त्यामपिगर्दभ्यां, “सहैव दशभिः पुत्रै” रिस्यादौ वर्त्तमानेत्यध्याहाराद्वर्त्तमानत्वक्रियामादायैव साहित्यबोध इति वदन्ति ।
१६६
लाभसंभव इत्यपास्तमुक्तरीत्या तत्संभवादिति । तत्रायोग्यताप्रसङ्गाश्चेति । नञर्थस्य सहपदार्थेनान्वये आगमनकर्तृत्वस्य पुरुष एवान्वयस्योपगन्तव्यतया तस्यानागच्छत्ययोग्यत्वादुक्तवाक्यार्थस्यायोग्यत्वप्रसङ्गादित्यर्थः । नित्यसमासत्वमिति । विषवाक्याप्रतिपाद्यविशिष्टस्वार्थकत्वं नित्यसमासत्वं तत्पुरुषकर्मधारयादिषु केषांचिदेव गीष्पतिधनाधिपकृष्णसर्पादीनां समासार्थ जातिविशेषावच्छिन्नानां विग्रहवाक्यतोबोधाभावेन नित्यसमासत्वं बहुव्रीहेस्तु सर्वस्यैव स्वार्थस्य चित्राभिनोसंबन्धिरूपान्यपदार्थादेर्यत्सम्बन्धिचित्राभिन्नगवादिरूपार्थप्रतिपादकविग्रहवाक्याप्रतिपाद्यत्वेन नित्यसमासत्वमिति तनियमो भज्येतेत्यर्थः । अनेकमित्याद्यनुशिष्टेति । अनेकमन्यपदार्थइति सूत्रानुशिष्टेत्यर्थः । सूत्रान्तरेणैवेति । तेनसहेतितुल्ययोगेतिसूत्रेणेत्यर्थः। तुल्ययोगेवर्तमानं सहेत्येतत्तृतीयान्तेन प्राग्वदिति तस्यवृत्तिः । अतएवेति । अनेकमित्यादिसूत्रस्य प्रथमान्तार्थान्यान्यपदार्थविषयत्वादेवेत्यर्थः । तदारम्भोपीति । सूत्रान्तरारम्भोपीत्यर्थः । भारमनुद्वहन्तं पुत्रमनुद्वहन्त्यामिति । यदा पुत्रा भारं वहन्ति गर्दभी च यदा गर्दभी भारं पुत्रख वहति तदा पुत्रेण सह भारं वहति गर्दभीत्यस्य सूपपाद

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218