Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 169
________________ गूढार्थतत्वालोकव्याख्यासहितः । १६५ एवं ज्ञानप्रयोज्यत्वप्रविष्टं ज्ञानमपि तत्तत्संबन्धावच्छिन्न प्रकारकत्वविशेषितमर्थः । तेन समवायेन हेतुत्वपरस्यायं वद्धिमान् तद्रूपान्न तु धूमादिति प्रयोगस्य नायोग्यता । वहिविधेयतायां संयोगेन धूमप्रकारकशानप्रयोज्यत्वसत्त्वेपि समवायसंबन्धावच्छिन्नतत्प्रकारताशालिझानप्रयोज्यतास्वरूपाम्वयितावच्छेदकावच्छिन्नाभावस्याबाधात्संबन्धविशेषघटितधर्मस्यान्वयितावच्छेदकतया भाननियामकं तु तात्पर्यमेव वयादिविधेयताया व्याप्त्यादिघटकाभावादिज्ञानप्रयोज्यत्वसत्वेऽपि पर्वतो वहिमानभावादित्यादिर्न प्रयोगः मुख्यविशेष्यतानिरूपितप्रकारताया एवं निवेशनीयत्वादिति दिक। केन हेतुना कस्मै हेतचइत्यादी विभक्तिभिहें तुताविशिष्टे हेतुताबोधयितुमशक्या पौनरुत्यादिति न शक्यम् । हेतुशब्दस्य स्वरूपयोग्यपरत्वात् , विभक्तेः फलोपधानपरत्वात् । दण्डवान् रक्तदण्डवानितिवत कार्यविशेषानुपरक्तहेतुताविशिष्ट कार्यविशेषोपरक्तहेतुताबोधेऽनाकारताविरहाच्च । नचा स्वयबोधसंभवेऽपि हेतुशब्दप्रयोगवैयर्थ्यम् । फलोपधायकतालाभे स्वरूपयोग्यताया अर्थाल्लाभसंभवादिति वाच्यम्। विभक्तरन्यार्थताया अप्यन्यत्र दृष्टत्वा तुतापरत्वनिश्चयार्थ तत्प्रयोगात । - सहार्थयोगेऽपि साहित्यप्रतियोगिवाचकपदासृतीया, पुत्रेण सहागत इत्यादौ । अथ यदि सहशब्दार्थः समभिव्याहृतपदोपस्थाप्यक्रियासमानकालीनक्रियान्वयित्वम् । तदन्वयित्वं च समभिव्याहतक्रियाबोधकपदेन क्रियाया यादृशः संबन्धः साहित्यान्वयिनि प्रत्याय्यते, तादृशतत्संबन्ध एव सच पुत्रेणेत्यादौ कर्तृत्वम् । ना सहोदनो भुज्यतइत्यादौ कर्मत्वादिस्तृतीयार्थोऽपि स एव संबन्धः। तशाच पत्रककागमनसमानकालीनागमनकर्तृत्वदधिकर्मकभोजनसमानकालीनभोजनकर्मत्वादिकं पुरुषौदनादौ तत्र तत्र प्रतीयत इत्युच्यते । तदा सह शब्देनैव तत्तक्रियाकर्तृत्वबोधने क्रियापद्वैयर्थ्यम् । क्रियान्वयिनि क्रियान्वयबोधस्योद्देश्यतावच्छेदकविधेययोरभेदेननिराकारतयाऽसंभवाच । नच तत्तत्क्रियासमानकालीनत्वमा सहशब्दार्थः तस्य च क्रियापदोपस्थापितक्रियायामेवान्षय इति क्रियापदसहितसहशब्दादेवोक्तविशिष्टार्थलाभ इति वाच्यम् । एवं सहागत इत्यादी सहशब्दार्थस्य क्रियापदार्थान्वयित्वेनान्यसापेक्षतया तेन सह पुत्रशब्दस्य समासासंभवेन सपुत्र इत्यादिप्रयोगानुपपत्तेः । नात्र समासे सहार्थस्य प्राधान्यम् । येनान्यसापेक्षत्वेऽपि समासो भवेत् किंतु बहुव्रीहित्वादन्यपदार्थप्राधान्यमेवेति चेन्न । समभि'व्याहतपदोपस्थाप्यक्रियाकाल एव सहशब्दार्थः तस्य क्रियान्वयिनि नामार्थपवान्वयः । तारशकालविशिष्ट नामार्थे क्रियान्वये च क्रियायामपि तादृशकालावच्छिन्नत्वं भासते । उहेश्यतावच्छेदकाचच्छेदेन विधेयान्वयस्य व्युत्पत्तिसिद्धत्वात् । अतः क्रियाद्वयसमानकालीनत्वलाभ इति सामञ्जस्यात् । अथवा आगमनसमानकालीनागमनादिकमेव सहशब्दार्थः । तस्य कर्तृत्वादिसंखमधेन परुषादावन्बयः । तादृशसंबन्धेन तद्विशिष्टे चागत आगच्छतीत्यादिपदोपस्थाप्यागमनकर्तृत्वादीनामन्वये न व्युत्पत्तिविरोधः । विधेयस्योद्देश्यतावच्छेदकप्रकाराभेदविरहात् । नच सहशब्दार्थान्वयबलादेव तक्रियाकर्तृत्वस्य पुरुषादौ लाभे प्रकारतयापि क्रियापदेन तत्प्रतिपादन. मफलमिति तत्प्रयोगो व्यर्थ इति वाच्यम् । समभिव्याहतपदेन तत्तक्रियाया अनुपस्थापने सह शब्देनापि तत्तक्रियाघटितसाहित्यस्याशक्यस्य बोधनं न संभवतीति क्रियापदप्रयोगस्यावश्यकत्वात । सहशब्दार्थक्रियायाः कर्तृत्वादिसंबन्धेन नामार्थेऽन्वयश्च न व्युत्पत्तिविरुद्धः । सहशभासमानस्य स्वरूपमात्रं न संसर्गोऽपितु पर्वतविशेष्यतानिरूपितखप्रतियोगिकलवरूपं तथाच प्रथमज्ञानस्य द्वितीयज्ञानस्य वा पर्वते विषयत्वस्य प्रत्ययः । यद्वा पर्वतलावच्छिन्नविशेष्यताकशानघटिते लक्षणोपगमाद्विशिष्टान्वयमाहात्म्याच लिङ्गविषयकत्वेन लिङ्गिविषयकत्वेन वा पर्वतविशेष्यकत्वस्यावच्छद्यावच्छेदकभावलाभात् समूहालम्बनव्यावृत्तेः पर्वत उक्तविषयलप्रतीतिः एवंच ज्ञाने प्रमात्वविशेषणस्योक्तलात् पर्वतविशेष्यकमहानसत्त्रप्रकारकज्ञानस्यैव पर्वतविशेष्यकवड्यनुमितिजनकत्वेन तस्य भ्रमतया महानसत्वेन पर्वतोवहिमानित्यस्य नापत्तिः एतेन प्रथमान्तपर्व- . तपदार्थस्य प्रथमज्ञानेन द्वितीयज्ञानेन च समन्वये व्युत्पत्त्यभावात् पर्वते ज्ञापकत्वस्य सर्वथैव झाप्यवस्यापि च न

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218