Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 167
________________ गूढार्थतत्वालोकव्याख्यासहितः । १६३ पात्रादेरपि खरूपयोग्यतया करणत्वापसेः । लिङ्गशानस्थानुमितिकरणतामते धूमेन वहिमनुमिनोतीत्यादौ धूमादिपदं तमानपरम् । व्याप्तिविशिष्टहेतुशानस्य व्यापारस्तद्विशिष्टवैशिष्ट्यावगा. हीपरामर्शः । स चात्ममनोयोगादिरूपानुमातृपुरुषव्यापाराधीन इति तस्य निरुककरणत्यमबाधितमेव । धूमादिलिङ्गकवन्धनुमितौ यत्र लिनान्तराद्धटादिभानं तत्र तेन घटमनुमिनोमीति न प्र. योगः । अन्वयितावच्छेदकतद्विधेयकानुमितित्वावच्छेदेनैवान्वयितावच्छेदकधूमादिविषयकज्ञानत्वावच्छिन्नत्वेन भासमानस्य करणत्वस्य निरूपकत्वभानोपगमात् निरूपकत्वं तु करणतामात्रस्य तृतीयार्थतावादिनां प्राचां मते संसर्गः । नव्यमते तु करणतानिरूपकत्वस्यैव नर्थाभावे प्रतियोगित्वेनाम्वयात्तावत्पर्यन्तस्य तृतीयार्थतया प्रकारतेत्यन्यदेतत् । __ परेतु लिङ्गमानस्य करणत्वेऽपि धूमेनानुमिनोतीत्यादौ धूमादिपदं मुख्यार्थमेव हेताविति सूत्रेण तत्र तृतीया । हेतुत्वस्य कारणतावच्छेदकसाधारणप्रयोजकत्वरूपस्य तत्र विवक्षितत्वात् । जनकमानविषयधूमादेश्चानुमितिकारणतावच्छेदकतया प्रयोजकत्वमक्षतमेव । उक्तसमूहालम्बनस्थलेऽतिप्रसङ्गध वद्विविधेयकानुमितित्वावच्छेदेन प्रयोजकतानिरूपकत्वभानाभ्युपगमेन वारणीयः । वस्तुतो जनकतावच्छेदकादिनिष्ठप्रयोजकतानिरूपकत्वं कार्यस्येव कार्यतावच्छेदकस्याप्यक्षतं प्रतीतिसाक्षिकं च । तथाचानुमितिविशेषणतत्तद्विधेयकत्वरूपसुबन्तार्थएव तृतीयार्थान्वय उपगम्यते । समूहालम्बनानुमितिनिष्ठघटादिविधेयकत्वस्य धूमाद्यप्रयोज्यतया नोक्तार्थातिप्रसङ्गः । धूमेन यतिमनुमिनोति न घटेनेत्यादावनुमितौ घटादिप्रयोज्यत्वाभावो नान्वेति अपितु नअर्थाभावप्रतियोग्यन्वयिनि धन्यादिविधेयकत्वएवातो यत्र धूमादिलिङ्गचन्ह्यनुमिती घटादिरूपलिनाधीनं द्रव्यस्वादिभानं तत्र धूमेन वह्निमनुमिनोति न घटेनेति प्रयोगोपपत्तिः । समूहालम्बनरूपतादृशानुमितौ घटादिरूपलिङ्गप्रयोज्यत्वाभावस्यासत्वेऽपि वन्ह्यादिविधेयकत्वे तदबाधात् । मह्यमुमितावपि द्रव्यत्वादिविधेयकत्वावच्छिन्नघटादिलिङ्गप्रयोज्यत्वस्य वन्ह्यादिविधेयकत्वावच्छेदेनाभायो बाधित इति संभवति । प्रयोज्यताया व्याप्यवृत्तित्वात् । एतेनानुमितौ धूमादिलिनशानकरणकत्वं तृतीयया प्रत्याय्यते। करणएव तृतीया तत्रेति मतं प्रत्युक्तम् । उक्तस्थलेऽनुमिती नअर्थान्वययोग्यताया अनुपपत्तेः । वयादिविधेयकत्वे धूमादिशानरूपकरणजन्यतावच्छेदकत्वतदभावौ तृतीयान्ततत्समभिव्याहृतनबुभ्यां प्रत्याय्येत इत्यपि न सत् । कारकविभत्त्यर्थस्य क्रियातिरिक्तेऽनन्वयात् । न चोक्तस्थले वहयादिविधेयकत्वावच्छेदेन घटादिरूपलिनशानजन्यतावदनुमितिमत्त्वाभावः पुरुषनिष्ठो नत्रा प्रत्याय्यते तादृशानुमितिघंटादौ वयादिलिङ्गत्वभ्रमदशायां प्रसिद्धति वाच्यम्। धूमेन वढेरनुमानमिदं न घटेनेत्यादावनुमितिमत्त्वाद्यभावबोधानुपपत्तेरिति प्राहुः। पर्वतो धूमेन यति मानित्यादौ क्रियायोगाभावाद्धेतुतृतीयैव तत्र ज्ञापकज्ञानविषयत्वं हेतुत्वं ज्ञानज्ञाप्यत्वरूपं वा हेतुमत्त्वं तृतीयार्थः । हेतुशब्दो यद्यपि कारणपर्यायो न तु सापकपर्यायस्तथापि हेतावितिसूत्रस्थहेतपटन समभिव्याहृतनिरूपितहेतुतामात्रपरमपितु समभिव्याहृततज्शानान्यतरनिरूपितहेतुतापरमेवेति स. पटिहानतमानविषयधमादिपदादपि तृतीया तत्सूत्रेणानुशिष्यते । गणहती प. श्चम्या विकल्पेन विधायकसूत्रान्तरमप्यन्यतरनिरूपितहेतुताविषयकमेवातो जाड्यावद्धो जाये घेत्यत्र जाड्यहेतुतावद्भूमावह्निमान् धूमेन वेत्यादौ धूमादेर्वयादिशानहेतुता प्रतीयते । हेतुत्वं च ---- --------- ----- समासापटकेन तेन साकावत्वे सापेक्षखापस्या समाससाधुता न स्यादिति भावः । अनुमितित्वावच्छेदेनैवेति । इदशावच्छेदकलं खरूपसंबन्धरूपमेव नबनतिरिक्तवृत्तित्वम् आलोकादिलिङ्गकवलिविधेयकानुमितावपि तादृशकरणखनिरूपकलशल्ये वतिविधेयकानुमितिलस्य सत्त्वात् । नचैवं बहिविधेयकानुमितित्वस्य धूमज्ञानलावच्छिन्नकरणतानिरूपकतायां न खरूपसंबन्धरूपावच्छेदकत्वस्यापि संभव इतिवाच्यम् । अवच्छेदकलपर्याप्तिभानानभ्युपगमेन धूमलिङ्गकवचनुमितिलावच्छिन्ननिरूपकल एव तत्संभवात् । अनुमानमिदमिति । अनुमितिरियमित्यर्थः ।

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218