Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः। र्तृत्वघटककृतिनिष्टतदनुकूलत्वएवारष्टाद्वारकत्वमपेक्षितं, नतु क्रियानिष्ठफलानुकूलत्वे तत्तत्रापेक्षितमिति व्यापारनिष्ठमरणानुकूलत्वेऽदृष्टाद्वारकत्वरूपमणिकारोक्तविशेषणस्य न कर्तृताघटकत्वं तथाप्यनुष्ठीयमानत्वप्रविष्टकृतेरेवादृष्टाद्वारकमरणानुकूलत्वं विवक्षितम् । विशिष्टकर्तृत्वंचादृष्टाहारकत्वविशेषितमरणानुकलत्वेन कृतिधिशेषणेन घटिसमिति मिश्राशयः । तथा चैवं पर्यवसितम् हिनस्तेः प्रवृत्तिनिमित्तं मरणरूपफलावच्छिन्नव्यापारत्वमेव, न हिस्यादित्यादी फलविशिष्वनिरूपितकर्तत्वसंबन्धेन हिनस्त्याद्यर्थस्यानिष्टविशेषसाधनत्वं प्रतीयते । श्येनस्य हिनस्त्याद्यर्थत्वे: तादृशकारणतावच्छेदकसंबन्धेन कचिदपि सत्त्वम् । तत्कर्तुररष्टाद्वारकानुकूलताधटितफलकर्तृस्वविरहेण विशिष्टाकर्तृत्वादिति नानिष्टविशेष प्रति हिंसात्वेन साधनत्वमिति न क्रियायां विध्यर्थान्वयमतेऽपि श्येनविध्यर्थबाधः । वस्तुतः श्येनानुकूलकृतेर्मरणप्रयोजकत्वमेव नतु मरणकारणत्वमन्यथासिद्धत्वात् । मरणोपलक्षितान्यकर्तृकखगाभिघातादिरूपवैरिवधं प्रत्येव हेतुताया वेदेन योधितत्वात् । क्रियाजन्यकायें तक्रियानुकूलकृतिहेतुतानियमेऽपि खड्गामिघातादावेव श्येनकृतेर्हेतुत्वात् तथा चानिष्टविशेषजनकतावच्छेदकप्रत्यासत्तिप्रविष्टमरणानुकूलत्वं मरणजनकत्वमेव, नतु प्रयोजकत्वमतो दृष्टाद्वारकत्वं न तत्र निवेशनीयम् । कारणत्वपर्यन्तनिवेशलाभायैव तदुपादानम् । यदि च विशिष्टान्वयपरताया वेदे औत्सर्गिकपरत्वेन वधसाधनताबोधकश्रुत्या विशेषणीभूतमरणसाधनतापि श्येनस्य प्रत्याय्यते, तदापि श्येनानुकूलकृतेमरणसाधनत्वमप्रामाणिकमेव । क्रियाजनककृतेस्तजन्यजनकतानियमस्याप्रामाणिकत्वात् । अथान्योद्देशेन नाराचक्षेपकविशिष्टविषयककृतिमस्वघटितविशिष्टकर्तृताविरहेऽपि यथार्धवधजन्यपापप्रायश्चित्तं तथा श्येनकर्तुर्विशिष्टाकर्तृत्वात्पापार्द्धस्यावश्यकत्वादलवनिष्टाननुबन्धित्वयाधो दुर्वार एवेति चेन्न । अकामकृतेऽप्यर्द्धप्रायश्चित्तश्रवणेन मरणावच्छिन्नव्यापारस्य विषयतामनन्तर्भाव्यविशिष्टजनककृतिमत्त्वसंबन्धेन न्यूनपापे स्वतन्त्रहेतुत्वकल्पनात् । तदलेन विशिष्टकर्तुः श्येनकहिंसाजन्यपापानुत्पत्तेः । नच लाघवेन मरणोपलक्षितव्यापारजनकत्वमेव प्रत्यासत्तिमध्ये नि वेश्यतामिति वाच्यम् । श्रुत्यर्थबाधापादकलाधवस्याप्रयोजकत्वात् । वेदस्थले विशिष्टान्वयस्यौसर्गिकत्वेऽपि श्येनस्य मरणजनकत्वे विध्यर्थवाधप्रसङ्गेन मरणं प्रति श्येनस्यान्यथासिद्धताया एवोपगन्तव्यतया तस्य (ख) जनकतागर्भहिनस्त्यर्थतावच्छेदकरूपशून्यताया अपि सूपपादत्वात् । न च पदि खङ्गाभिघातजनकादृष्टव्यवहितस्य श्येनस्य मरणेऽन्यथासिद्धत्वं तदा हन्तुकृतिजन्यव्यापारविशेष्यकेष्टसाधनत्वज्ञानाधीनकृतावपि मरणानुकूलव्यारत्वावच्छिन्नसाध्यताख्यविषयतोपगमान तत्राव्याप्तिः । नच मरणावच्छिन्न व्यापारवस्य कृतिसाध्यत्वादिधर्मितावच्छेदकत्वाभावात्कथं कृतौ साध्यत्वाख्यविषयत्वस्य तदवच्छिन्नत्वसंभव इति वाच्यमुक्तनियमे मानाभावात् यस्य फलस्येच्छाविषयत्वं तस्य कृतावुद्देश्यत्वाख्य विषयत्वं तस्यैव फलस्येष्टत्वेनेष्टसाधनताज्ञानस्य कृतिनिरूपितसाध्यताख्यविषयतावच्छेदकतत्फलानुकूलत्वव्यापारलोभयविषयकत्वसंभवे तदुभयधर्मावच्छिन्नं भवति कृतेः साध्यत्वाख्यविषयत्वमेतावदेवहि नियमः यत्रतु मरणानुकूलव्यापारत्वावच्छिन्नविशेष्यकं मरणान्यफलेष्टसाध्यत्वज्ञानं तत्र साध्यत्वाख्य विषयतायाः फलान्तरानुकूलमरणावच्छिन्नव्यापारत्वावच्छिन्नतयाधिकस्यावच्छेदकत्वेऽपि मरणावच्छिन्नव्यापारवावच्छिन्नलस्याक्षतत्वेन तत्रापि नाव्याप्तिरिति भावः । कृर्तृत्वसंबन्धेनेति । इदश्च न समभिव्याहृतलिडाबोधितस्या. निष्टसाधनलस्य द्यालनिष्ठस्यावच्छेदकीभूतसंबन्धस्य प्रतिपादकम् । बोधितत्वादिति । श्येनेनाभिचरन्यजेतेतिविधिना श्येनसंज्ञकयागद्वारा तत्कृतेरिमरणानुकूलव्यापाररूपाभिचारं प्रत्येच हेतुत्वस्य बोधनन्नतु मरणं प्रतीत्यर्थः । खङ्गाभिघातादादेव श्येनकृतेहेतुत्वादिति । अभिचाररूपेष्टसाधनखस्य लिडर धात्वर्थ एव बोधनम् । उक्तनियमादेव च कृतेस्तसाधनखलाभस्तत्राभिचारपदार्थे व्यापारे मरणस्य विशेषणत्बे सति विशिष्टान्वयबलाधागे मरणसाधनखस्याप्यवगमः स्यात्तथासत्युक्तनियमात्कृतेरपि मरणसाधनता स्यात्तत्रास्तीत्येवकारेण सूचितम् । स्वजनकेति । मरणविशिष्टव्यापारः खपदार्थोऽदृष्टद्वारकतज्जनकवं हि विशेषणीभूतमरणनिरूपिततादृशजनकलसहितमेव तादृशश्च तन्नादृष्टद्वारामरणजनकश्येनद्वारामरणानुकूलायां कृताविति श्येनस्य कारणतावच्छेदकसंबन्धविरहेण पापाजनकलान बलवदनिष्टाजनकत्वस्य बाधः अन्योद्देशेन नाराचप्रक्षेपस्थले तादृशव्यापारस्यादृष्टाद्वारकमरणजनकत्वेन तस्कृतस्तादृशजनकत्वेन मरणं प्रत्यपि तादृशजनकलान्मरणविशि
२१व्यु

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218