Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 163
________________ गूढार्थतत्वालोकव्याख्यासहितः । १५९ चीनत्वेऽपि दर्शितरीत्या तस्य स्वतन्त्रकर्तृत्वनिर्वाहस्तथापि तद्वाचकपदोत्तरं तृतीयानुपपत्तिः कर्तृस्वस्य णिच्प्रत्ययेनाभिधानादिति चेन्न । कर्तृत्वनिर्वाहकत्व संबन्धेन पाकाद्यन्वयिनो हेतुकर्तृव्यापारस्य णिजर्थत्वेन स्वतन्त्रकर्तृत्वस्य णिचानभिधानात् । कर्तृत्वरूपफलावच्छिन्नस्य तादृशव्यापारस्य जिर्थतामतेऽपि आश्रयोपरतस्यान्यतो भानानिर्वाहेण कर्तुरनभिधानात्तृतीयोपपत्तेः । आख्यातस्य धवाचकत्वेऽपि कृतिविशिष्टबोधकत्वरूपस्य कर्त्रभिधानस्याक्षतत्वाश्चैत्रः पचतीत्यादौ न तृतीया । नचैवं मुख्यविशेष्यतया कृतिविवक्षया चैत्रेण पचतीति स्यादिति वाच्यम् । आश्रयातिरिक्तांशे विशेषणतया कृतिबोधनस्यैव कर्त्रभिधानरूपत्वात् तथा तदभिधानं च लकृत्तद्धितसमासानामेव । अतएव तैरेवाभिधानं वृत्तिकृता विवृतम् । इदं त्ववधेयम् । यद्यपि स्वतन्त्र व्यापारमात्र पव तृतीयादेरनुशासनं, तथापि लाघवात्कृतिरूप एव कर्तृत्वे तृतीयादेः शक्तिः I अचेतनव्यापारे निरूढलक्षणैव । अनुशासनस्यानादितात्पर्य मात्र ग्राहकत्वात् । लाघव सहकृतस्यैव तारशतात्पर्यस्य शक्तिकल्पकत्वात् । व्यापारे तत्सत्त्वेऽपि गौरवेण शतयसिद्धेः । एवंच कर्तृत्वपकृतिबोधस्थले कारकान्तरव्यापारानधीनत्वं न प्रतीयतइतितदन्तर्भावेण शक्तिकल्पने मानाभावः । व्यापारलाक्षणिकेन कर्तृप्रत्ययेन लक्षणया तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गवारणात् अन्यथा तदन्तर्भावेण कृतिशक्तावपि तारशातिप्रसङ्गस्य दुर्वारत्वादिति घटो जायते, मोदनः सिद्ध्यतीत्यादौ सत्कार्यविद्वेषिणां नैयायिकानां कारकत्वं कर्तृत्वं च घटादेर्यथाश्रुतसूत्रानुसारेण दुरुपपादमेव | मुख्यंच क्रियाकर्तृत्वंक्रियानुकूलकृतिमात्रम् | एक क्रियाविषयककृतितो यत्र नान्तरीयकक्रियान्तरनिर्वाहस्तत्कृतिमतस्तत्क्रियाकर्तृत्वाभावात् । अतएव मत्तो भूतं नतु मया कृतमिति व्यपदेश इति । तत्क्रियानुकूलत्वे सति तद्विषयक कृतिस्तत्कर्तुत्वम् । अभ्योद्देशेन नाराचक्षेपाद्यत्र ब्राह्मणवधस्तत्र मरणानुकूलस्य नाराचक्षेपरूपव्यापारस्य कृतिविषयत्वेऽपि ब्राह्मणमरणानुकूलव्यापारत्वेन तस्यानभिसंहितत्वात्तेन रूपेण कृतिविषयत्वं न तादृशव्यापारस्येति ब्राह्मणवधत्वविशिष्टकर्तृत्वं न तादृशव्यापारकर्त्तुरिति न तस्य संपूर्णप्रायश्चित्तम् । अतपव संपूर्णप्रायश्चित्तप्रयोजकस्य कर्तृव्यापारस्य लक्ष्यताभिप्रायेण हिंसालक्षणे मणिकृतां मरणोद्देशेनानुष्ठीयमानत्वादृष्टा द्वारकत्वविशेषणयोरुपादानमिति मिश्राभिधानसङ्गतिः । मरणोद्देशेनानुष्ठीयमानस्य व्यापारस्यावश्यं मरणानुकूलव्यापारत्वेन प्रतिसंहितत्वात्तादृशरूपेण कृतिविषयत्वमिति तादशविशेषणस्य विशिष्टकर्तृता निर्वाहकत्वात्तद्विशेषणवतो व्यापारस्य नियमेन लक्ष्यत्वात् । तच्छ्रन्यस्य वालक्ष्यत्वआश्रयातिरितांशेविशेषणतयेति । व्यर्थकर्तृत्वस्याश्रयातिरितांश आख्यातार्थे विशेषणत्वेन णिचा तदभिधानासंभव : आख्यातार्थकृतेर्मुख्यविशेष्यत्वे तस्या आश्रयातिरिक्ता विशेषणत्वेनाख्यातेन कर्त्रभिधानसंभवः तद्धितेन तु व्याकरणमधीत इति वैयाकरण इत्यादौ समासेन तु कृतपाक इत्यादौ कर्त्रभिधानं बोध्यम् । अन्यथेति । लक्षणाया अनादितात्पर्यमूलायास्समभिव्याहृतकारकान्तरव्यापाराधीनव्यापारबोधकत्वनियमानभ्युपगम इत्यर्थः । अतिप्रसङ्गेति । केवलव्यापारबोधतात्पर्येण लक्षणया काष्ठानि स्थाली चैत्रः पचतीति स्वारसिकप्रयोगापत्तिरित्यर्थः । सत्कार्यविद्वेषिणामिति । सत्कार्यवादिनामभिब्यक्तिरूपधात्वर्थानुकूलावस्थितिविशेषादिरूपव्यापारस्याभिव्यक्तिपूर्व विद्यमाने घटादौ संभवेन तस्य कारकत्वकर्तृत्वयोस्संभवेऽपि म्यायनये जन्मनः प्राग्धटादेरसतः कारकत्वकर्तृत्वयोर्न संभव इति भावः । यथाश्रुतसूत्रेति । स्वतन्त्रः कर्तेत्यस्य समभिव्याहृतकारकान्तरव्यापारानधीनव्यापाराश्रयः कर्तेति यथाश्रुतोर्थस्तदवलम्बनेनेत्यर्थः । पाकादेः कृतिर्गमनज्ञान जन्मादेराश्रयत्वं नाशादेः प्रतियोगिखादिकं यद्यत्कर्तृत्वत्वेन प्रामाणिकव्यवहारगोचरस्तावदन्यतमाश्रयः कर्तेत्ययभाश्रुतार्थावलम्बनेन घटादीना जम्मादिक्रियाकर्तृत्वं भवति सूपपादमिति भावः । तत्क्रियेति । नान्तरीयकक्रियेत्यर्थः । हिंसालक्षण इति । मरणोदेशेनानुष्ठीयमानत्वे सत्यदृष्टा द्वार कमरणानुकूलल वस्त्वमिति लक्षण इत्यर्थः । संपूर्णेत्यादी त्यन्तं मिश्रग्रन्थः । हिंसामात्रस्य लक्ष्यत्वे मरणानुकूलकृतिविषयत्वमात्रं लक्षणमुच्येताननान्तरीयकव्यापारे मरणानुकूलेऽपि कृत्यविषयतया हिंसालाभावास्कृतिविषयत्व पर्यन्तानुधावनम् । अन्योद्देशेनानुष्ठितनाराचादिप्रक्षेपस्य वारणाय सत्यन्तम्, श्येनयागस्य शत्रुमरणो

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218