Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
१६०
व्युत्पत्तिवादः। नियमात् । अथ मरणोद्देशेनानुष्ठितस्थापि यत्र खगाभिघातत्वादिनैवेष्टसाधनस्वकृतिसाध्यत्व धीविषयता नतु मरणानुकूलत्वविशेषिततद्रूपेण, तत्र न मरणानुकूलत्वविशिष्टविषयिणी कृतिरिति तादृशव्यापारकर्तुर्न वधत्वविशिष्टकर्तृत्वमिति कथमुक्तविशेषणस्य विशिष्टकर्तृतानिर्वाहकत्वम् यदि च मरणोद्देशनानुष्ठीयमानत्वस्य मरणानुकूलत्वेन कृतिविषयत्वमेवार्थ इत्युपेयते, तदा व्या. पारे तादृशविशेषणस्य तत्कर्तरि विशिष्टकर्तृतानिर्वाहकत्वेऽप्युक्तस्थले खड्गाभिघातादौ तादृश. लक्षणाव्याप्तिारैव तत्र संपूर्णप्रायश्चित्तस्य निर्विवादतया लक्ष्यताया आवश्यकत्वात् । नच विशेषणीभूतफलनिष्ठोद्देश्यताख्यविषयतानिरूपकत्वे सति व्यापारनिष्ठसाध्यताख्थविषयतानिरूप. कत्वमेव विशिष्टविषयकत्वं कृतरित्युपदर्शितस्थलेऽनुकूलतासंबन्धेन मरणवैशिष्ट्यस्य साध्यतारूपविषयतावच्छेदकताविरहेऽपि न विशिष्टकर्तृत्वानिर्वाह इति मरणोद्देशेनानुष्ठीयमानत्वस्य मरणकामनाधीनकृतिविषयत्वरूपतैवेति वाच्यम् । ब्राह्मणं न हन्यादित्यादौ धात्वर्थतावच्छेदकस्य मरणस्य खोद्देश्यकत्वसंबन्धेन कृतावन्वयसंभव एव निरुक्तविशिष्टकर्तृत्वस्य निषधविधिविषयत्वसंभवात्, व्यापारविशेषणतयोपस्थितस्य कृत्यंशे विशेषणत्वस्य व्युत्पत्तिविरुद्धत्वात् । अथ मरणोपलक्षितव्यापारकर्तृत्वस्य तारशनिषेधविषयत्वेऽपि न क्षतिः । अन्योद्देशेन नाराचक्षेपस्यापि ब्राह्मणमरणोपधायकस्य नरकसाधनत्वात् । परंतु मरणरूपप्रायश्चित्तविधेरेव तद. विषयकत्वमुपपादनीयम् तच्च मरणोद्देशेन तदनुकूलव्यापारे कर्तृत्वबोधकस्य शब्दस्य तद्विधावम्तर्भावएवोपपद्यतइति चेत् । एवमपि प्राह्मणमरणकामनया यत्र न तन्मरणानुकूलव्यापारातुठानमपितु फलान्तरकामनाधीनतम्मरणानुकूलव्यापारत्वप्रकारकचिकीर्षया तदनुष्ठितं तत्राग्या. प्तिरेतन्मते दुर्वारैव, तत्रापि संपूर्णस्यैव प्रायश्चित्तस्याचरणादलक्ष्यतोपगमासम्भवादिति मैवम् । यत्र हि मरणानुकूलव्यापारत्वेन कृतिसाध्यतादिधीस्तत्रैव यत्र व्यापारविशेषत्वेनैव तद्धीस्तत्रापि मरणरूपफलकामनाधीनव्यापारविषयिणी कृतिमरणानुकूलत्वेन व्यापारमवगाहते । कृतेः कामनाविषयफलोपरागेणोपायविषयतोपगमात् । विटहलफलभानोपगमे यत्र तृप्तिकामनया भोजनं फलान्तरकामनया च गमनमवगाहमाना समूहालम्बनकृतिस्तत्रतृप्तये गमनं करोतीति व्यवहारापत्तेः । उपायांशे मरणस्यानुकूलत्वं संबन्धः प्रकारो वेत्यन्यदेतत् । एवंच मरणावच्छिन्नव्यापारविषयकत्वमुभयत्रैव कृतेरिति विशेषणावच्छिन्नविषयककृतिमत्त्वं विशिष्टकर्तृत्वमुभयस्थले निष्प्रत्यूहम् । मरणोद्देशेनानुष्ठीयमानत्वमपि मरणानुकूलत्वोपरागेण कृतिविषयत्वरूपं लक्षणघटकमिति न काचिदनुपपत्तिः । यद्यप्यदृष्टद्वारा पाकानुकूलकृतिमतोपि न पाकादिकर्तृत्वमिति तत्तक्रियाक
द्देशेनानुष्ठीयमानस्य वारणायादृष्टाद्वारकेति । मरणोद्देशेनानुष्ठितस्यापीति । तलच मरणरूपफलेक्षाजन्यकृति विषयलं मरणनिष्ठोद्देश्यत्वाख्य विलक्षणविषयतानिरूपितसाध्यत्वाख्यकृतिविषयत्वं वा । इष्टसाधनत्वेति । इष्टसाधनत्वकृतिसाध्यत्वप्रकारतानिरूपितविशेष्यता यद्धर्मावच्छिन्ना भवति कृतेः साध्यताख्यविषयतापि तद्धर्मावच्छिन्नैव भवतीति नियमः तथाचोक्तस्थले मरणोद्देशेनानुष्ठीयमानत्वेऽपि व्यापारस्य कृतेर्मरणानुकूलव्यापारवावच्छिन्नसाध्यताख्यविषयताकलाभावासादृशव्यापारकर्तुर्मरणानुकूलव्यापारत्वविशिष्टकर्तृत्वस्य न संभव इत्युक्तविशेषणस्य कथं तनिर्वाहकल मितिभावः । नन्वनुष्ठीयमानत्वघटकसाध्यत्वाख्यविषयता मरणानुकूलव्यापारत्वावच्छिन्नैव विवक्षिता तादृशी च सा यत्र व्यापारस्य तत्रावश्यं तस्कर्तुस्तादृशधर्मावच्छिन्नविलक्षणविषयताककृतिमत्त्वेन विशिष्टव्यापारकर्तृत्वं प्रकृते चोक्तरूपानुष्ठीयमानवस्यैव खनाधभिषा तरूपव्यापारे विरहेण तत्कर्तुर्विशिष्टव्यापारकर्तृलाभावेऽपि न तद्विशेषणविशिष्टव्यापारकर्तृत्वनिवाहक्षतिरित्यभिप्रेत्याह । यदिचेति । तारशलक्षणाव्याप्तिरिति । संपूर्णप्रायश्चित्तप्रयोजकहिंसालक्षणस्याव्याप्तिस्तद्धटकस्योक्तरूपानुष्टीयमानत्वस्याभावादित्यर्थः । मरणोपलक्षितब्यापारेति। मरणोपधायकव्यापारनिष्ठविषयकतादृशव्यापारानुकूलकृतिमात्रं तत्त्वं नतु कृतौमरणनिष्ठोद्देश्यताकत्वस्यापि प्रवेशः तस्य न ब्राहाणं हन्यादिल्यादावाख्याताकृतौ मरणोपधायकव्यापाररूपधाखर्थान्वयादेव लाभसंभयो धावविशेषणमरणस्यान्वयासंभवेऽपि क्षत्यभाव इत्यर्थः । दुरिवेति । मरणकामनाजन्यकृतिविषयलरूपलक्षणघटकविशेषणस्यासत्त्वादिति शेषः । नकाचिदनुपपस्तिरिति । मरणकामनायां सत्यां खाद्यभिघातत्वादिनैन

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218