Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः। त्वमेव विशेषणसम्बन्धे भासतइति नियमः, तथासति शरदि पुष्पन्ति सप्तच्छदा इत्यादौ सप्तच्छदपुष्पोत्पत्तित्वादेः शरदृत्तित्वान्वयितानवच्छेदकतया आख्यातान्तप्रतिपाद्यतावच्छेदकपुष्पोत्पत्तित्वावच्छेदेन च शरत्तित्वान्वये बाधादवच्छेदकावच्छेदेनान्वयानुपपत्तेरन्वयितावच्छेदकसामानाधिकरण्यमात्रेण च तदन्बयोपगमे शरदि पुष्पन्ति सप्तच्छदाः शरदि पुष्पन्ति चम्पका इत्यविशेषेण प्रयोगापत्तेः । यदिच तत्र शरत्संयन्धः सप्तच्छविशेषणतया भासते न पुनराख्यातार्थे धातुमात्रार्थे वा पुष्पोत्पत्ती, अतएव कारकविभक्तिरूपसप्तम्यनुपपत्त्या कालरूपविशेषणपदोत्तरं खातन्येण सप्तमी सर्ववर्मणा सूत्रिता । एवंच क्रियानिमित्तत्वरूपकारकत्वगर्भकर्तृत्वस्याख्यातार्थत्वेन पुष्पोत्पत्तिनिमित्तत्वरूपाख्यातार्थस्य विशिष्टान्वयानुरोधेन शरत्संबन्धेष्यप्यन्वय उपगन्तव्य इति कारकत्वस्याख्यातर्थत्वानुपगमेऽपि शीतलं सरोऽवगाढवतो निदाघदुःखं व्यपैतीत्यादाविवोहे. श्यविधेयभावमहिम्नोद्देश्यविशेषणशरत्संबन्धेन विधेयभूतपुष्पोत्पत्तेः प्रयोज्यप्रयोजकभावस्य संसगमर्यादया भानमिति चम्पकादिपुष्पोत्पत्तौ शरत्संबन्धनिमित्तकस्वाभावानोक्तातिप्रसङ्ग इत्युक्तस्थलेऽवच्छेदकावच्छेदेनान्वय एव नोपेयत इत्युच्यते, तथापि तादशमियमो निष्प्रामाणिक एवं 1 नच तादृशनियमानुपगमइह भवने मैत्रेणैव पक्ष्यते तेमनमित्य तद्भवनाधिकरणकतेमनपाकस्वेन रूपेण शब्दारपाकानुपस्थित्या तदद्वच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वव्यवच्छेदयोधासंभवकथनं दीधितिकृतां विरुध्येत इति वाच्यम् , अवच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मिणि विशेषणतया भासमानमेव रूपं विशेषणे अवच्छिन्नत्वसंबन्धेन विशेषणमित्याशयेन तेषां तदभिधानात् । वि. शेषणसंबन्धे तदवच्छिन्नत्वमेव तदवच्छेदेन विशिष्टबुद्धौ भासतइत्युपगमे शब्दानुपस्थितरूपांवच्छेदेन विशेषणान्वये बाधकाभावात् । नचावच्छेदकावच्छिन्नत्वस्यावच्छेदकावच्छेदेन विशिष्टबुद्धौ विशेषणांशे भानमसंभवदुक्तिकम् घटो द्रव्यमित्यादौ घटत्वावच्छेदेन द्रव्यत्वादिमत्त्वबुद्धौ द्रव्यत्वादिविशेषणस्य स्वरूपतएव भानादिति वाच्यम् । तादृशशाब्दबोधे द्रव्यत्वाद्या अस्यैवाभेदसंबन्धेन विशेषणत्वात् घटत्वादिविशिष्टे द्रव्यत्वादिविशेषणकताशप्रत्यक्षेऽवच्छेदकापच्छेदेन भानानुपगमे क्षतिविरहास्, तथाच मैत्रेण न पच्यतइत्यादौ पाककृतित्वस्यान्वयितानव. च्छेदकत्वेऽपि अर्थलभ्यतादृशधर्मावच्छिन्नत्वस्य संसर्गाशे भानं निराबाधमेवेति चेन्न । मैत्रेण न पक इत्यादी कृतौ मैत्रादिवृत्तित्वाभावयोधासंभवेन कृतिजन्यत्वस्य तृतीयार्थतां स्वीकृत्य क्रियायां मैत्रादिकृतिजन्यत्वाभावबोधस्योपगन्तव्यतया मैत्रेण न पच्यतइत्यादावपि तद्बोधोपगमेन सा. प्रास्यात् । नच यदा मैत्रः सुप्तस्तदा मैत्रेण पक्ष्यते नतु पच्यतइति प्रयोगानुपपत्तिः मैत्रवृत्तिवसमानकृतेरप्रसिच्या तादृशकृतिजन्यत्वाभावप्रत्यायनासम्भवात् वर्तमानत्वाविशेषिततदीयकृतिअन्यत्वाभावस्य बाधितत्वादितिवाच्यम् । आख्यातार्थवर्तमानत्वादेर्नसमभिव्याहारस्थलेऽभावांशएवान्वयस्य व्युत्पन्नत्वातू अन्यथा विनष्टघटं न पश्यतीत्यादी तादृशघटकर्मकवर्तमानदर्शनाद्यपसियाऽन्वयबोधानुपपत्तेः।प्रकृते च मैत्रीयवर्तमानकृत्यप्रसिद्धावपि वर्तमानकालावच्छिन्नतजन्य. स्वाभाघस्यैवपाक प्रतीत्या सामञ्जस्यात् । पाकत्वाद्यवच्छेदेनैव मैत्रादिकर्तृकत्वाभावबोधोपगमामैत्रादिकर्तृकपाकदशायामन्यकर्तृकपाके मैवादिकर्तृकत्वाभावसत्त्वेऽपि न पच्यते मैत्रेणत्यादयो तथासतीति । नियमे सतीत्यर्थः । अनवच्छेदकतयेति । तदवच्छेदेनान्वयासंभवादितिशेषः । क्रियानिमित्तत्प. रूपकारकत्वगर्भेति । क्रियायाधातुलभ्यवानिमित्तत्वेसति कर्तृखादिकमाख्यातार्थः धाखर्थस्य च निरूपितत्वेन निमित्तत्वे कर्तृत्वेचान्वयः । बाधकामावादिति । विशेषणसंसर्गे यद्रूपावच्छिन्नवस्य भानं तद्रूपस्यापि संसर्गघटकतया तस्यपदादुपस्थत्यनपेक्षणात् विशेष्यतावच्छेदकखस्याप्यनभ्युपगमेन शाब्दबुद्धौ विशेष्यविशेषणतयापि भानस्यानावश्यकत्वात् समभियाहारतात्पर्यविशेषादिज्ञानघटितसामय्या विशेषगसंसर्गघटकतया यादृशरूयावच्छिनत्वस्य भानं तस्य तत्संबन्धानुयोगित्वे खरूपतोऽवच्छेदकलमर्थतोलभ्यखशापेक्षितम् । भवति हि वर्तमानकृतौ विषयतया पाकविशेषणत्वेन झातायां खनिष्ठविषयताकत्वेन पाकविशिष्टकृतित्वेनापि कृतिराज्ज्ञातेति न कापि क्षतिरिति भावः। भानादिति । अपेक्षिताया अन्वयितावच्छेदक

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218