Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 160
________________ १५६ व्युत्पत्सिवादः । चाख्यातार्थकृतिविशेषणतयान्वयः, कृतेश्च क्रियाविशेषणतया तथा कृतिबोधने चात्मनेपदरूपस्थाख्यातस्य यगादिसमभिव्याहारकानमपेक्षितम् पचति पचतइत्यादौ तथा कृत्यन्वयावोधात् । चैत्रेण शायते गम्यतइत्यादौ तृतीयाया आधेयतार्थत्वं क्लुप्तमेवेति न तत्कल्पनमधिकमिति तन्न । चैत्रेण पक्वमित्यादौ तृतीयायाः कृत्यर्थकताया आवश्यकत्वात् । तत्र कृत्यर्थकाख्यातविरहेण कृतः कर्तृकर्मवाचकत्वेन कृत्यर्थताविरहात् । यदिच कर्तृकृतः कृतावव शक्तिर्नत विशिष्टे शातत्यादौ त्वाश्रयार्थकतायाः कुप्तत्वेन तत्र कृत्यन्वयादेव कर्तृलाभसंभवादित्युच्यते । तथापि कर्मकृतः कृत्यर्थत्वमप्रसक्तमेव । उक्तप्रत्ययस्य कचित्कर्तृवाचकत्वेऽपि चैत्रेण पाच्या दुष्पचश्चैत्रेणीदनः चैत्रेणौदनस्य पाक इत्यादी कृतां न कृतिबोधकत्वमिति तत्र कृतियोधानुरोधेन तृतीयायाः कृतिवाचकत्वमावश्यकमेव । एवंच चैत्रेण पच्यत इत्यादावपि तृतीययैव कृतिर्वोध्यते । तत्र चैत्रादेः संबन्ध एवाधेयत्वमित्यतएव निर्वाहे कृतावाधेत्वस्य विशेषणतया भानोपगमस्यानुचितत्वात्, तथासति तत्संसर्गस्यापि विषयताकल्पनाधिक्यात् ताह. शवाक्यशानघटितशाब्दसामग्र्यामधिकौपस्थितिनिवेशने च गौरवात् । अथ तत्र कृतेस्तृतीयार्थतोपगमे चैत्रेण पच्यते न मैत्रेणेत्यादौ तृतीयान्तार्थमैत्रीयकृतेरभावः पाकेऽन्वेतीत्युपेयम् । तस्याश्च समवा यसंबन्धावच्छिन्नाभावो मैत्रकर्तृकपाकेऽपीत्यतिप्रसङ्गः । जन्यतायाश्च वृत्त्यनियामकतया तत्संबन्धावच्छिन्नाभावप्रसिझ्यत्येव न,मैत्रकर्तृकपाककर्मत्वाभावस्य कर्मणि तण्डुलादौ प्रतीतिश्च कर्मवाचकपदा. समभिव्याहारस्थले दुर्घट। आधेयत्वस्य तृतीयार्थत्वे चाधेयत्वाभावबोध एव कृतावङ्गीक्रियते । नच तथासति मैत्रचैत्रोभयकर्तृकपाकसत्वे चैत्रीयपाककृती मैत्रवृत्तित्वाभावसत्त्वात् मैत्रेण न पच्यतइति प्रयोगापत्तिरिति वाच्यम् । मैत्रेण न पच्यतइत्यतो वर्तमानपाकानुकूलकृतित्वावच्छेदेन मैत्रवृत्तिस्वाभावबोधनादुक्तस्थले च ताशकृतित्वसामानाधिकरण्येन मैत्रवृत्तित्वसत्त्वात्ताशवाक्याप्रामाण्यात् । वर्तमानत्वस्य कृति विशेषणतया च चैत्रेण पक्ष्यतेऽपच्यत नतु पच्यतइत्युपपद्यते क्रियाविशेषस्य तथात्वात् । यदा मैत्रेणान्यक्रियते नत पच्यते तदा मैत्रेण न गश्च । नचाख्यातेन कालस्य कृतिविशेषणतया बोधनात्कालविशेषविशेषितकृतित्वस्यान्वयिता. वच्छेदकतया तदवच्छेदेन नत्राभावः शक्यो बोधयितुम् नतु कालकियोभयविशेषितकृतित्वावच्छेदेन कर्मप्रत्ययस्थले क्रियायाः कृतिविशेषणत्वाभाधनतटितधर्मस्थान्वयितावच्छेदकस्वाभावादिति वाच्यम् । क्रियाविशेषघटितधर्मस्यान्वयितानवच्छेदकत्वेऽपि तदवच्छिन्नत्वविशिधविशेषणताया अभावसंसर्गतया भानसंभवेन सामञ्जस्यात् । नचान्वयितावच्छेदकावच्छिन्न करणखांश इव समानपदश्रुतेः कर्तृवांशेऽपि शक्तिग्राहकलस्यैवोचितलात् एवंच पाच्यइत्यादिस्थलानुरोधेन सिद्धस्य कार्यकारणभावस्य सामान्यतो धात्वर्थनिष्टविशेष्यतानिरूपितकर्तृत्वप्रकारताकबोधतृतीयासमभिव्याहारतजन्योपस्थित्यादिकार्यका. रणभावरूपताया एवोचितत्वेन चैत्रेण पच्यत इत्यत्रापि तृतीययैव बोधस्य कर्तृतायाः कर्माख्यातादुपस्थितिसंभवेऽपि स्वीकारः ! नह्येवमनिमित्तं सकृदुचरितइत्यस्य बाधः कालादेरन्यतः प्रतीत्यसंभवात्पदान्तरस्यापि तदतिरिक्तैकार्थबोधनव्यापृतरवेन ततस्तदोधाभ्युपगमेप्युक्तबाधस्य समानवादनुशासनमाहितकालशक्तिकादाख्यातादेव बोधाभ्युपगमोहि गत्यभावनिबन्धनः । तृतीयायाः कर्तृत्वबोधकत्वे व्यवस्थितेचाधेयखस्य प्रकारलसंसर्गखयोर्विल्कपे सति भिन्नविषयकप्रत्यक्षप्रतिबध्यप्रतिबन्धकभावलाघवापेक्षा याऽकारणोक्तनियमभशापत्त्यभावसहकृतस्याधेयत्वशक्तिमहतजन्यतदुपस्थितिनियमतत्संसर्गशाब्दबोधविषयत्वाकल्पनलाघवस्य प्रबलत्वेन संसर्गतैव व्यवस्थापनीयाऽन्यथा खनिष्टाधारतानिरूपिताधेयखादीनामधिकाधिकपदार्थघटिताना प्रकारखापत्तराधेयत्वानुभवस्य संसर्गतयाप्युपपत्तेरेतत्तत्त्वस्थ प्रथमायां विस्तरेणोक्तरित्यभिप्रायेण निराकरोति । तति । दुर्घटेति । इदमुपलक्षणम् यत्कर्तृकपाकक्रियाया अप्रसिद्धिस्तृतीयान्ततद्बोधकपदसमभिव्याहारस्थले निरुक्तविशिष्टाभावस्याप्रसिद्ध्या तद्बोधोविशेषदर्शिनां कर्मवाचकपदसमभिव्याहारस्थलेऽपि दुर्घट इत्यपि बोध्यम् । इत्युपपद्यतइति । अन्यथा पाककृतित्वावच्छेदेन तत्र चैत्रवृत्तिलाभावासंभवादतीतभूतभविष्यत्पाककृतौ चैत्रवृत्तित्वस्यैव सत्त्वादनुपपत्तिः स्यात् । तथात्वादिति । प्रकृतक्रियाविशेषितकृतिखस्यावच्छेदकत्वोपगमादित्यर्थः । प्रयोगश्चेति । उपपद्यत इति शेषः । अन्यथा वर्तमानकृतिलाव. च्छेदेन मैत्रवृत्तित्वाभावासंभवात् क्रियान्तरकृतेमैत्रवृत्तित्वात्तदनुपपत्तिः स्यादिति भावः । नचेति । नियमइत्यनेनान्वयः।

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218