Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
१५४
व्युत्पत्तिवादः ।
गृहेऽश्वइत्यादाविव व्यापकताया द्विरुक्तिबललभ्यत्वात्प्रतिशब्दस्य व्यापकतार्थकत्वउक्तार्थकत्वेन गृहं व्याप्नुवतेऽश्वा इत्यादाविव द्विरुक्तिरेव न स्यात् । नच प्रतिशब्दस्यापि व्यापकतार्थकत्वं प्र. तिदिनमधीतइत्यादौ क्लप्तम् द्विरुक्तेरपि वृक्षं वृक्ष सिष्यतीत्यादौ क्लप्तमिति प्रकृते संभेदेनान्यतरवैयर्थ्यमितिन्यायायोरेव व्यापकताबोधकत्वमवर्जनीयमिति वाच्यम् । प्रतिमासमधीतइत्यादावल्य. यीभावे हि प्रथमातिरिक्तविभक्तरसाधुत्वेन प्रतिशब्देन मासान्वितव्यापकत्वं क्रियायां बोभ्यते विभक्तिः साधुत्वार्था । वृक्ष वृक्षं प्रति सिञ्चतीत्यत्रतु सेके द्वितीयार्थकर्मत्वावरुद्धप्रकृत्यर्थवृक्ष. विशेषितव्यापकता बोधयितुं न शक्यते । एकविशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वे व्युत्पत्ति विरोधात् । कर्मस्वसंबन्धस्यैव च व्यापकताघटकत्वेन स्वीकरणीयतया वृत्त्यनियामकस्य तस्य तथात्वासंभवाश्च । तस्य सेककर्मत्वआश्रयतासंबन्धवितव्यापकताप्रत्यायनमपि न युज्यते । प्रकृत्यर्थसुबर्थयोरन्तरा नअर्थातिरिक्तभानस्य ध्यत्पत्तिविरुद्धत्वात् । नामढस्येतरोत्पतेः नानुप मृध प्रादुर्भावादिस्यादौ नार्थमात्रस्य पञ्चम्यर्थहेतुताया विशेषणत्वेन प्रकृत्यर्थस्य च विशेष्यत्वेना. न्वयात् । तस्मात्प्रतिरनर्थक एव । द्विरुक्तान्वये तात्पर्यबलाच सेचनकर्मत्वे वृक्षादेापकत्वं संसर्गतयैव भासते । यदिच वृक्षं प्रति सिञ्चतीत्यादावुपसर्गस्य प्रताच्यो द्योत्यो वा कश्चिद
प्रतेरुपसर्गसंज्ञाया दुरितयोपसर्गस्थनिमित्तपरस्य धावादेः सस्य षत्वं स्यादिति तदाधनायोपसर्गसंज्ञाबाधकैतत्संज्ञाकरणं तथासति प्रतेरुपसर्गवाभावान सस्य षलमिति भावः । उक्तार्थकत्वेनेति । प्रतिशब्देनोक्तोव्यापकलरूपोर्थो यस्यास्तत्त्वेन द्विरुक्तस्तदर्थ सा नादरणीयेत्यर्थः । यद्यपि द्विरुक्तिर्न शब्दरूपाऽपितु समानानुपूर्वीकशब्दस्यावृत्तिरिति न तस्यार्थसंभवस्तधाप्यावृत्तशब्दस्य व्यापकवघटितार्थे लाक्षणिकतया तात्पर्यग्राहकत्वेन द्विरुक्तेलक्ष्यार्थबोधप्रयोजकत्वेन स्वप्रयोज्यत्वबोधविषयरूपोर्थः कथञ्चित्संभवतीति बोध्यम् । नशक्यत इति । अनुषक्तेन प्रतिशब्देनेत्यनेन संबध्यते प्रतिशब्दस्य विशिष्य वृक्षादिव्यापकत्वे शक्तावानन्त्यं स्यादतः सामान्यतएव व्यापकले शक्तिर्वाच्या तथाच विशेषव्यापकतालाभाय द्वितीयाप्रकृस्वर्थस्यैव तत्र निरूपितत्वसंबन्धेनान्वयो बाच्यः सच न संभवति धर्मिपारतयं विनैकपदार्थनिष्टविशेष्यतानिरूपितविशेषणताप्रयोजकोपस्थितीयविषयत्वस्य तदन्यपदार्थनिष्ठविशेष्यतानिरूपितविशेषणताप्रयोजकत्वाभावनियमात् प्रकृतिद्वितीययोः परस्परान्वये प्रकृतिप्रत्ययौसहार्थमित्यादिन्यायेन गृहीताकाङ्गत्वेन द्वितीयार्थन कर्मलेन प्रकृत्यर्थान्वयस्यावश्यकत्वादृक्षपदजम्योपस्थितीयविषयतायाः कर्मनिष्ठविशेष्यतानिरूपितविशेषणत्वप्रयोजकलावश्यम्भावे व्यापकत्वनिष्ठविशेष्यतानिरूपितकिशेषणत्वप्रयोजकत्वासंभवात् , प्रत्ययार्थविशेष्यतानिरूपितखार्धनिष्ठविशेषणताकबोधसामग्यास्तदितरार्थविशेष्यकस्वार्थबोधे प्रतिबन्धकत्वे पर्यवसानादिति भावः । एतेन युगपदुपस्थितानां पदार्थानां विशेष्ये विशेषणमितिन्यायेन शाब्दबुद्धिपक्षस्यैवाभ्यर्हितलेनोपस्थितस्य वृक्षस्य विनिगमकाभावेन कर्मत्वव्यापकत्वयोरुभयोर्युगपदन्वयः स्यादेवेति निरस्तम् । प्रतिशब्दस्य कर्मत्वसंबन्धेन व्यापकत्वमर्थस्तादृशेच व्यापकत्वे तात्पर्यवाहिका द्वितीयेति द्वितीयार्थाविशेषणस्य प्रत्यर्थस्य व्यापकलेऽन्वयसंभव इत्यत आह । कर्मत्वसंबन्धस्यैवेति। तथात्वेति । व्यापकताघटकत्वेत्यर्थः । तस्येति । प्रतिशब्दस्येत्यर्थः । सेककर्मत्वइति । यद्यपि द्वितीयया नसेककर्मतात्वेनोपस्थितिस्तथापि समभिव्याहारबलाक्षनिष्ठाभावप्रतियोगितानवच्छेदकसेक. कर्मतालवत्त्वरूपव्यापकत्वस्य प्रतिशब्दतोद्वितीयार्थकर्मत्वे भानाभ्युपगमे तथा लाभसंभवोऽत्रपक्षे कर्मत्वे वृक्षपदार्थस्यानन्वयनैकाविशेषणत्वेनेत्यादिनियम विरोधस्यापि नावकाशः प्रतिशब्दार्थव्यापकखएच तस्य भानोपगमादितिभावः । व्युत्पत्तिविरुद्धत्वादिति । प्रत्ययस्य प्रकृत्यान्वितस्वार्थबोधकलव्युत्पत्तिबिरुद्धत्वादित्यर्थः । ननर्धातिरिक्त्यस्य फलमाहनामूढेत्यादि । तेषां मोहः पापीयान् नामूलस्यतरोत्पत्तेरिति न्यायसूत्रम् अभावाद्भावोत्पत्तिर्नानुपमृद्यप्रादुर्भावादिति च तेषां दोषाणां मध्ये मोहो मिथ्याज्ञानं पापीयान् अमूढस्य मोहरहितस्य इतरयो रागद्वेषयोरुत्पत्तिर्न यत इत्यर्थः । अभावादेव भावोत्पत्तिः बीजमनुपमृद्य बीजनाशमविधायाङ्करस्य प्रादुर्भावो न यत इतिच अत्रमोहाभावप्रयुक्तरागद्वेषोत्पत्यभावस्य बीजविनाशाभावप्रयुक्ताङ्गुरप्रादुर्भावाभावस्य च हेतुत्वं विवक्षितं न यतः पञ्चमी तदर्भयोरुत्पत्तिप्रादुर्भावयोरिति प्रकृत्यर्थस्य नमः र्थाभावे प्रतियोगितासंबन्धनान्बयस्तस्य पञ्चम्यर्थहेतुत्वे इति प्रकृतिप्रत्ययार्थयोरन्तरा नर्थस्य भानात्तदतिरिक्तोपादानमाव. श्यकमिति भावः ॥ संसर्गतथैवैति । एक्कारेण प्रकारतया भानव्यवच्छेदस्तेनकर्मत्वएव वृक्षपदार्थस्यान्वयः नतु प्रतिशब्दार्थव्यापकत्वे वृक्षांदिघटितार्थे तस्य लक्षणातएव ततोविशेषव्यापकतालाभादिति शङ्का निरस्ता, वृक्षाक्षसिञ्चतीत्यत्र व्यापकत्वबोधस्य प्रकृत्यर्थसंगर्गतयैव निर्वाह्यतया प्रतिशब्दसमभिन्याहारस्थलेऽपि ताशसामग्या अक्षतत्वेन ततएव तथैव व्याप.

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218