Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
१५२
व्युत्पत्तिवादः । यत्वात् । खाधिकरणनिष्ठाभावप्रतियोगितानवच्छेदकत्वमपि तादृशावच्छेदकत्वसंबन्धेन स्वा. वच्छिन्नस्य भेदः । अतस्तादशावच्छेदकत्वत्वावच्छिन्नाभावनिवेशे यत्किञ्चिदशमीप्रागभावाधि करणनिष्ठाभावप्रतियोगितावच्छेदकत्वमादायासिद्धिवारणाय विशिष्य तत्तत्प्रागभावरूपस्वप दार्थस्य संबन्धमध्ये प्रवेश्यतयाननुगमइति निरस्तम् । देशरूपा सीमाच काशीतः को शिकी यावद यातीत्यादौ । तत्र कौशिक्या: गमनसीमात्वं प्रतीयते । तच्च काशीपूर्वकौशिकीपश्चिमदेशब्यापकगमनानधिकरणत्वम् यावत्पदेन च कौशिक्यनधिकरणकत्वे सति काशीपूर्व कौशिकीपश्चिमदेशव्यापकत्वं गमने प्रत्याय्यते । तत्र द्वितीयार्थोऽवधित्वमवधिमत्वं वा प्रतीचीत्वाधन्वयि । निष्कर्षः पूर्ववत्स्वयमूहनीयः ।
धिकरणतिथिष्वपि सत्त्वेन तन्निष्ठभेदप्रतियोगितावच्छेदकत्वस्यैव पूजायां सत्त्वेन तत्र तदनवच्छेदकत्वस्य न प्रसिद्धिसंभवः तत्तच्छुकदशमीप्रागभावत्वेन प्रवेशेच यच्छुक्लदशमीपूर्वषोडशतिथिषु पूजाप्रसिद्धिस्तत्प्रागभावस्य निरुक्तसंवन्धेनाधिकरणेषु वर्तमानाभावप्रतियोगितानवच्छेदकत्वस्य पूजायां प्रसिद्धिसंभवेऽप्युक्तशब्दादनुगतबोधानुपपत्तिरतो दशमीप्रागभावत्वेनोपस्थितानां स्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदस्य संसर्गलाभ्युपगमः तत्र स्वपदार्थस्य नान्तर्भावोन्यनिष्ठावच्छेदकताकप्रतियोगिताकभेदस्यान्यसंसर्गत्वासंभवात् यदशमीप्रागभावव्यक्तः पूर्व कृष्णनवमीमारभ्य सर्वतिथिषु पूजाधिकरणलं तस्यैवोक्तसंबन्धेन पूजायां सत्त्वसंभवः खनिरूपिताधिकरणतावद्वृत्तिभेदप्रतियोगितावच्छेदकत्वसंबन्धे भेदप्रतियोगितावच्छेदकीभूतेपि न खपदाथंप्रवेशः अन्यनिरूपिताधिकरणवघटितस्यान्यसंबन्धवासंभवात् नच खनिरूपिताधिकरणतावदृत्तिभेदप्रतियोगितानवच्छेदकलसंसर्गेपि खपदार्थस्य मास्तु प्रवेशोन्यनिरूपिताधिकरणवस्यान्यसंसर्गलाभावाद्दोषासंभवादिति वाच्यं कतिपयतिथिष्वेव पूजास्थलेऽपि तत्तिथिव्यक्तिवत्यधिकरणतावदृत्तिभेदप्रतियोगितानवच्छेदकत्वस्याधिकरणताक्त्तत्तत्तिथिवृत्त्यभावाधिकरणतावदृत्तितदभावतादृशाभावनिरूपिततत्प्रतियोगित्वतदवच्छेदकलाभावानांच पूजायां सत्त्वेन तादृशप्रयोगापत्तिवारणायाधिकरणतालनिष्ठावच्छेदकताभिन्नावच्छेदकलानिरूपिताधिकरणलनिष्ठावच्छेदकताभिन्नावच्छेदकखानिरूपितेत्यादिक्रमेण प्रतियोगिलनिष्टावच्छेदकताभिन्नावच्छेदकतालनिष्ठावच्छेदकताभित्रावच्छेदकत्वानिरूपितप्रतियोगिताकाभावस्यैव निवेश्यतया सर्वथैव पूजस्यामसतस्तस्य तन्त्र संबन्धत्वासंभवात् । नव निरूपितत्वसंबन्धावच्छिन्नकिञ्चिनिष्ठावच्छेदकताभिन्नाधिकरणतात्वनिष्ठावच्छेदकताभिन्नावच्छेदकलानिरूपितत्वेनाधिकरणनिष्ठावच्छेदकलप्रवेशे तत्प्रागभावनिरूपिताधिकरणलघटिताभावस्य पूजायां संभवइति वाच्यंत. तिथिवृत्तिखविशिष्टतादृशप्रागभावाधिकरणलमादाय प्रागुक्तप्रयोगापत्तितादवस्थ्यात् । तद्व्यक्तिलनिष्ठावच्छेदकलभिन्नावच्छेदकखानिरूपितत्वेन निरूपितत्वसंबन्धावच्छिन्नावच्छेदकलोपादानेहि सएबाननुगमइत्यभिप्रेत्याह। अतइत्यादि। यदिच शुक्दशमीप्रागभावत्वसमानाधिकरणोभयावृत्तिधर्मलसमानाधिकरणावच्छेदकताभिन्नावच्छेदकलानिरूपितनिरूपितत्वसंबन्धावच्छिन्नख. मृत्यवच्छेदकताभिन्नाधिकरणतात्वनिष्टावच्छेदकताभिन्नावच्छेदकत्वानिरूपितस्ववृत्त्यवच्छेदकतानिरूपितेत्यादिक्रमेणावच्छेदकलाभावं निवेश्य तेन रूपेण तस्य संसर्गखोक्तौ न कोऽपि दोषः । स्वपदार्थस्य संसर्गमध्ये प्रवेशाभावेऽपि क्षत्यभावादन्यनिष्ठावच्छेदकत्वघटिताभावस्य तत्संसर्गत्वासंभवात्तव्यक्तित्वानेष्ठावच्छेदकतायाअप्युक्तसामानाधिकरण्येनानुगतरूपेणैव प्रवेशादिति 'विभाव्यते तदा लाधवादेव खनिष्ठावच्छेदकताकप्रतियोगिताकभेदस्य संसर्गत्वेनोपादानमिति विभाबनीयम् ॥
देशव्यापकगमनेति । अत्रव्यापकखनिवेशः कौशिकीयावदगला मध्यप्रदेशादेव कुतश्चित्परावृत्तिस्थलेऽपि काशीतः कौशिकी यावद्गच्छतीतिप्रयोगवारणाय विहितः । अथ यः कश्चित् यावत् कौशिकी प्रयाति सोपि येन केनचिकेन मार्गेणेति तस्यापि गमनं न काशीपूर्वकौशिकीपश्चिमसर्वप्रदेशइति कुत्रापि न व्यापकलसंभव इति चेन्न काशीपूर्वखपश्चिमलयोरधिकरणं काश्यादिसदृशमेव ग्राह्यम् सादृश्यञ्चाखण्डत्वेन तथाच काशीनिरूपितपूर्वखकौशिकीनिरूपितपश्चिमत्लवदखण्डभूभागवृत्तिप्रति-- योगिव्यधिकरणाभावप्रतियोगितानवच्छेदकत्वमेव व्यापकलं पर्यवसितम् एवञ्च काशीपूर्वत्वाधिकरणे यतःपरावृत्तिस्तत्पूर्वदेशेऽखण्डे प्रतियोगिव्यधिकरणगमनाभावसत्त्वान्नापत्तिः यत्र कौशिकीपर्यन्त गमनं तन काशीपूर्वलकौशिकीपश्चिमवाधिकरणे यत्रप्रतियोगित्यधिकरणोऽभावोगमनस्य न तस्याखण्डलं काशीपूर्वलाश्रय निरूपितदक्षिणोत्तरत्वान्यतरत्वावच्छिन्नाभावाश्रयखस्यैवाखंण्डलरूपतया तस्याभावात्तत्तद्भारोऽन्यतरस्यैव सत्त्वात् तादृशाधिकरणेचाखण्डे गमनाभावो न प्रतियोगिव्यधिकरणइत्यनुपपत्तिरपि नेति । यद्वा दैशिकविशेषणलस्वाश्रयनिरूपितदक्षिणोत्तरखान्यतमसंबन्धेन व्यापकत्वं बोध्यमाश्रयेचाखण्डवं नवाच्यमिति भावः । निष्कर्ष इति । पश्चिमत्वं यावच्छब्दार्थः द्वितीयान्तार्थस्य कौशिकीनिरूपितावधिमत्त्वस्य तत्रान्वयः तस्यच स्वावध्यवृत्तिलविशेषितव्यापकत्वसंबन्धेन गमनादिक्रियायामन्वयः व्यापकलं च काशीनिरूपितपूर्वलविशेषितखरूपसंबन्धेन खाधिकरणनिष्ठभेदप्रतियोगितावच्छेदकलसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्वरूपम् खावध्यवृत्तिलविशेषणाद भिविधिस्थलव्यावृत्तिः काशीनिरूपितपूर्ववाधिकरणत्वप्रवेशात् कौशिकीपश्चिमत्वाश्रयकाशीपश्चिमदेशस्य गम

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218