Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१५३ अभिविध्यर्थो यावच्छन्दः कार्तिकमारभ्य चैत्रं यावच्छीतं भवतीत्यादौ काशीतः पाटलिपुत्रं यावदृष्टो देव इत्यादावमिविधिस्तत्पर्यन्ताभिव्याप्तिः । पवंच प्रथमे कार्तिकपूर्वकालोत्तरचैत्रोत्तर
कालव्यापकत्वं चैत्रोसरकालाऽवृत्तित्वसहितं शीतभवने द्वितीयेच काशीपश्चिमदेशपूर्वपाटलिपुत्रपूर्वदेशपश्चिमदेशव्यापकत्वं पाटलिपुत्रपूर्वदेशावृत्तित्वसहितं वृष्टौ यावच्छब्देन प्रत्याय्यते । विशेषः पूर्ववत् । यावच्छब्दसमानार्थाकाहशब्दस्थलेऽपि दर्शितैव रीतिरवसया। तद्योगे च पञ्चमी साधुः । यज्ञमनु प्रावर्षदित्यादावनुशब्दार्थः कारकत्वरूपं हेतुत्वम् । अनुलक्षणइत्यत्र कर्मप्रवचनीय समूहाविधायकसूत्रे लक्षणपदस्य कारकहेतुपरत्वात् । तत्रच यज्ञान्वितस्याधेयत्वरूपद्वितीयार्थस्याबया, हेतुतायाश्च निरूपकत्वसम्बन्धेन वृष्टावन्वयः, जन्यत्वं वानुशब्दार्थः तत्र निरूपितत्वरूप. द्वितीयार्थस्य यज्ञान्वितस्यान्वयः, जन्यतायाश्चाश्रयत्वसम्बन्धेन वृष्टावन्वयः। अन्वर्जुनं योद्धार इत्यबाप्रकर्षरूपं हीनत्वमनुशब्दार्थः अर्जुनावधिकत्वं द्वितीयान्तार्थस्तस्य चापकर्षेऽन्वयः । अवधित्वस्यापादानतारूपत्वेऽपि क्रियान्वयाभावान्न पञ्चमीप्रसक्तिः अस्मादयं दीर्घ इत्यादी भवतीत्यस्याध्या. हारेणैव पञ्चम्यपपादनात् । अतः षष्ठ्यपवादतानिर्वाहः । वृक्षं प्रति विद्योतते विद्युत्, मातरं प्रति साधुः, यो मां प्रति स्यात्, वृक्षं प्रतिसिञ्चतीत्यादी लक्षणेत्थंभूतेत्यादिसूत्रानुशिष्टकर्मप्रवचनीयसज्ञकप्रत्यादिशब्देषु प्रथमे परिचायकत्वरूपं लक्षणत्वं परिचेयत्वरूपं वा लक्ष्यत्वं कर्मप्रवचनीयार्थः । वृक्षप्रकाशेन विद्युद्विद्योतनशानावृक्षस्य परिचायकता। द्वितीयार्थश्चाधेयत्वं निरूपितत्वं वा । द्वितीये साधुत्वं प्रियकारित्वं साधुत्वघटप्रियान्वयी संबन्धः कर्मप्रवचनीयार्थः । संबन्धात्वयि प्रतियोगित्वं तनिरूपकत्वं वा द्वितीयार्थः मातृसम्बन्धिप्रियकारीत्याकारको बोधः । तृतीये भागः स्वत्वाश्रयः प्रत्याद्यर्थः । तदन्वयी सम्बन्धो द्वितीयार्थः । इत्थंचास्मत्सबन्धी यो भागः स्यादिति योधः । चतुर्थे कर्मण्येव द्वितीया, षत्वबाध एव संज्ञाफलम् । प्रतिश्च निरर्थकः गृहे
नानाधिकरणत्वेऽपि न व्यापकत्वहानिरिति निष्कर्ष इत्यर्थः । कार्तिक पूर्वकालोत्तरेति। कार्तिकपूर्वववत्क्षणध्वंसाधिकरणक्षणध्वंसानविकरणत्वेसति तादृशपूर्वस्ववत्क्षणध्वंसाधिकरणत्वम् सत्यन्तमात्रं च कार्तिकाधक्षणेऽपि नास्ति कार्तिकपूर्वत्ववत्वपूर्वतृतीयक्षणध्वंसाधिकरणद्वितीयक्षणध्वंसाधिकरणत्वात्, विशेष्यमात्रंतु कार्तिकपूर्वसकलकालसाधारण तादृशपूर्वत्वाश्रयखपूर्वक्षणध्वं. साधिकरणत्वादिति कार्तिकाचक्षणोरपन्नध्वंसप्रतियोगिक्षणध्वंसाधिकरणत्वं विवक्षितम् तच्च न कार्तिकाव्यवहितपूर्वक्षणेऽप्यस्ति कार्तिकाद्यक्षणमारभ्योत्तरकालेषु सर्वत्रैवास्ति, कार्तिकाद्यदिनस्यापि संग्रहाय कार्तिकपूर्वकालोत्तरवप्रवेशः कार्तिकत्वाश्रयोत्तरलप्रवेशे तन्न स्यात् चैत्रोत्तरपूर्वत्वमात्रस्य चैत्रान्त्यक्षणाव्यवहितोत्तरक्षणप्रागभावाश्रयत्वरूपस्य प्रवेशे कार्तिकपूर्व दिवसेषु शीतानधिकरणेष्वपि सत्त्वेन व्यापकता न स्यात् कार्तिकपूर्वकालोत्तरवमानप्रवेशे चैत्रोत्तरप्रीष्मकाले शीतानधिकरणेऽपि तदाश्रयत्वसत्त्वेन व्यापकता न स्यादित्युभयोपादानम् । वायुवहनस्य सर्वमाससाधारण्यात् कार्तिकमारभ्य चैत्रं यावद्वायुतीति प्रयोगोनेष्ट इति तद्वारणाय चैत्रोत्तरकालावृत्तिलमुपात्तम् । कार्तिकमारभ्यचैत्रपर्यन्तं शीतभवनस्थले यथा कार्तिकमारभ्य चैत्रं यावत् शीतंभवतीति प्रयोगस्तथा पौषमारभ्य चैत्रेयावत् शीतं भवतिति प्रयोगोपीष्यत एवेति यत्पूर्वकालोत्तरत्वं प्रविष्टं न तत्पूर्वकालावृत्तित्वं निवेशितम् । विशेषः पूर्ववदिति । यावच्छब्दस्याव्यवहितोत्तरखवरक्षणपूर्वखमर्थः द्वितीयार्थश्च निरूपितत्वमव्यवहितोत्तरखान्वयियावच्छब्दार्थस्य कार्तिकाव्यवहितपूर्वक्षणप्रतियोगिकर्वसाश्रयत्वावच्छिन्नखाश्रयवृत्तिभेदप्रतियोगितावच्छेदकलसंबन्धावच्छिन्नखनिष्ठावच्छेदकताकप्रतियोगिताकभेदवत्त्वरूपव्यापकलस्वानधिकरणकालानियोभयसंवन्धेन समभिव्याहृतशीतादिपदार्थेऽन्वयइत्यादिविशेष इत्यर्थः । नच कार्तिकपूर्वमासादेरपि चैत्रपूर्वत्वात्तत्कार्तिकपूर्वकार्तिकोत्तरत्वाच न शीते व्या. पकत्वसंभव इति वाच्यं खाश्रयकार्तिकपूर्वखानाश्रयकार्तिकस्यैव प्रवेशेनोक्तदोषासंभवात् । भवतीत्यस्याध्याहारेणैवेति । नचावधित्वनिरूपकलस्य दीर्घखएवान्वयेन भवतीत्यध्याहारेपि न क्रियान्वय इति वाच्यं क्रियानन्वयेऽपादानसंज्ञाभावेन तस्मात्संबन्धसामान्ये षष्ठ्येव हि स्यादिति दीर्घभवनएव तस्यान्वयस्य वाच्यत्वात् ।
चतुर्थे कर्मण्येवेति । वृक्षं वृक्षं प्रतिसिञ्चतीति चतुर्थोदाहरणस्थलइत्यर्थों नतु वीप्सास्थल इति वृक्षवृक्षं प्रति वायसा इत्यत्र सकर्मकक्रियाया अध्याहारयोग्याया अप्यभावेन वर्तन्तइत्यादिस्थले निराकात्वेन च कर्मणि द्वितीयाया असंभवेनासङ्गतेः उक्तोदाहरणस्थलेच सेकक्रियाकर्मत्वस्य वृक्षे सत्त्वेन कर्मणिद्वितीयैवस्यानतुकर्मप्रवचनीयरूपोपपदनिमित्तिका कारकविभकेरुषपदविभक्त्यपेक्षया प्रबलत्वादिति भावः । षत्वबाधइति । वक्षवृक्षं प्रतिसिथतीतित्यादौ कर्मप्रवचनीयसंज्ञाया अभावे
२० व्युत्प.

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218