Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः । गमनादिक्रियासमानकालीनतारशक्रियाकर्तृत्वरूपसाहित्याभावः, क्रियान्वयिखकर्तृकतादृशक्रियाकालीनत्वाभाव एच वा विनार्थः । कर्तृत्वे पुत्रादेराधेयत्वेनान्वयः । विभक्तिः साधुत्वार्थव अस्तुवाधेयत्वं द्वितीयार्थः। सप्तम्या आधेयत्वार्थकत्वेऽपि नात्र सप्तमीप्रसक्तिस्तस्याः कारकविभक्तित्वेन क्रियान्वयिस्वार्थबोधकत्वात् । अतःशेषषष्ठीप्रसत्या तामेवोपपदविभक्तिद्धितीया बाधत इतिसर्वा उपपदविभक्तयः षष्ठ्यपवादिकाइत्यस्याविरोध इति । विनासमानार्थकयोतेऽन्तरेणेति निपातयोरपि दर्शितैव रीतिः। एवं विनायुक्ततृतीयापञ्चमीस्थलेऽपि मर्यादाभिविध्यर्थकयावच्छब्दयोगेपि द्वितीया दृश्यते, तत्र मर्यादार्थको यावच्छब्दः । आरभ्य तस्यां दशमी तु यावत्प्रपूजयेत्पर्वतराजपुत्रीमित्यादौ मर्यादा सीमा कालरूपा देशरूपा च कालनिष्ठं तत्त्वंच, तत्कालसमभिव्याइतकालप्रागभावानधिकरणस्वप्रागभावाधिकरणस्वसजातीययावत्कालवृत्तिसमभिव्याहृतक्रियानधिकरणत्वम् । एवंचोक्तस्थले यावच्छब्देन पूजारूपक्रियायां शुक्लदशमीनिष्ठतारशसीमात्वनिरूपकत्वं प्रत्याय्यते । तावतैयार्थतः शुक्लदशम्या मर्यादात्वं लभ्यते । तनिष्ठसीमात्वनिरूपकत्वंच तदवृतित्वे सति कृष्णनवमीप्रागभावानधिकरणशुक्लदशमीप्रागभावाधिकरणतिथिकूटव्यापकत्वम् । तावता षोडशतिथ्यधिकरणकषोडशपूजारूपस्यैककर्मणो विधेयतया लाभः व्याप्यकालसमुदाये स्वजातीयत्वविशेषणात्पजायामक्तविशेषणद्वयाक्रान्तदण्डादिसमुदायाव्यापकत्येपि न बाधः । अन्वयितावच्छेदकरूपेण साजात्यस्य विवक्षणादुक्तस्थले च तिथिमित्यस्याध्याहारेण दशमीपदार्थताचच्छेदकस्य तिथित्वघटितत्वेन वा यावत्पदार्थान्वयितावच्छेदकतया तिधित्वभानात्तेन रूपेण दण्डादेर्दशमीसजातीयत्वाभावात । तिथिश्चाखण्डकालविशेषरूपा, नतु चन्द्रमण्डलकलारम्भाद्यनुगुणक्रियाप्रचयरूपा पूजायास्तावक्रियावृत्सित्वासम्भवात् । अनच प्रागभाव एव यावत्पदार्थः द्विती.
प्रतियोगित्वमनयोगित्वं वा. तत्र तत्प्रत्यर्थदशम्या अन्वयः तावता दशमीप्रतियोगिकप्रागभावलाभः । तस्य स्वप्रतियोग्यवृत्तित्त्वविशिष्टव्यापकतासंबन्धेन पूजारूपसममिव्याहतक्रियायामन्वयः व्यापकत्वंच खाधिकरणतिथिनिष्ठाभावप्रतियोगितानवच्छेदकपूजाविशेषत्ववत्त्वम् । स्वाधिकरणत्वच खाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदविशिकालिकविशेषणतासंबन्धेन । एतेन कृष्णनवमीप्रागभावाधिकरणप्रतियोगिकभेदस्याव्यावर्तकतया तत्सामान्यभेदनिवेशे भाविकृष्णनवमीप्रागभावाधिकरणत्वमादाय नाप्रसिद्धिः । तथासत्यपि तत्तद्दशमीप्रागभावाधिकरणकालस्य स्वाधिकरणकृष्णनवमीप्रागभावावच्छिन्नभेदवत्वसंबन्धेन तत्तत्प्रागभावाधिकरणत्वाक्षतेः । नचैवमपि व्यवहितपूर्वकृष्णनवमीप्रागभावावच्छिन्नभेदघटितसंबन्धेनाव्यवहितपूर्वकृष्णनवमीपूर्वतिथीनामपि तत्तदशमीप्रागभाववत्वात्तदधिकरणतिथिव्यापकत्वं पूजायां न संभवतीति वाच्यम् खावच्छिन्नकृष्णनवमीप्रागभावाधिकरणत्वसंबन्धे स्वावच्छिन्नभेदस्यैव प्रागभावसंवन्धे निवेशनीसंभवेन कर्तृत्वनिरूपकसमभिव्याहृतक्रियासमानदेशकालिकक्रियाकतत्वरूपसाहित्यस्याभाव एव विनापदार्थस्तत्र प्रथमकर्तृत्वे च पुत्रादिपदार्थस्यान्वये दोषाभावात् पहुँविनागत इत्यस्याप्रामाण्यमेवेष्यते प्रामाण्येच प्रकृतक्रियाकर्तवाभाव एवच विनापदार्थस्तत्रैवाधेयतासंबन्धेन पंग्वादेरन्वयस्तस्य समानकालीनत्वेन प्रकृतक्रियादावन्वय इति बोध्यम् । लाघवादाह । क्रियान्वयीति ।अवृत्तित्वविशिष्टब्यापकत्वसंबन्धेनेति । निरुक्तावृत्तित्वे सति स्वव्यापकत्वसंबन्धेनेत्यर्थः। स्नपदार्थों दशमीप्रागभावः । अव्यावर्तकतयेति । विशेषभेदोभयभेदादिकमादाय कृष्णनवमीप्रागभावाधिकरणकालेपि सत्त्वादित्यर्थः । सामान्यभेदेति । कृष्णनवमीप्रायभावत्वातिरिक्तधर्मानवच्छिन्नप्रागभावनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपितप्रतियोगिताकभेदेत्यर्थः । अप्रसिद्धिरिति । दशमीप्रागभावाधिकरणत्वेनाभिमतकाले न प्रसिद्धिरित्यर्थः । तथासत्यपीति । उक्तसामान्यभेदस्याप्रसिद्धत्वे सत्यपि स्वाधिकरणं यत्कृष्णनवमीप्रागभाबाधिकरणं तत्सामान्यभेदस्य विवक्षितस्याभिमतकाले सत्त्वेन क्षत्यभावादित्यर्थः । एवमपीति । कृष्णनवमीप्रागभावे दशमीप्रागभावावच्छिन्नखनिवेशेपीत्यर्थः । खावच्छिमकृष्णनवमीत्यादि । यद्यपि सर्वाशे न्यूनवारकेतरवारकपर्याप्तिनिवेशं विधाय खावच्छिन्नकृष्णनवमीप्रागभावावच्छिन्नमेदनिवेशेपि नोक्तदोषस्तथापि लाघवादुक्तप्रकारानुसरणं कृतमिति बोध्यम् । खपदार्थस्योपस्थितशुक्लदशमीत्वेन व्यापकताशरीरे प्रवेशे शुक्लदशम्याः प्रागुक्तसंबन्धेनाधिकरणवस्य पूजानाधिकरणेषु यत्किञ्चिन्च्छुलदशमीप्रागभावावच्छिन्नकृष्णनवमीप्रागभावान

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218