Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 153
________________ गूढार्थतत्वालोकव्याख्यासहितः । व्यापकतयाधिककालव्यापकस्य होमस्य शास्त्रार्थतावारणायैकपदोपादानात् । तथा सति तस्य केवलार्थतया मालमात्र व्यापकतालाभात्तादृशप्रयोजनोपपत्तेः । अतपवच यावजीवमग्निहोत्रं जुहो। तीतिश्रुतियोधिताग्निहोत्रानुवादेन सतिलबीहिचरुरूपद्रव्यस्य मासैकरूपकालस्यच विधाने वाक्यभेदः स्यादिति तादृशद्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रपक्षप्रतिपाद्यस्य कर्मान्तरस्यैव विधायिका तादृशी श्रुतिरिति सिद्धान्ते यावजीवकालान्तर्गतमासरूपकालांशेऽप्यनुवादकतासम्भवात्प्राप्ताग्निहोत्रानुवादेन द्रव्यस्यैव विधानमुचितमिति पूर्वपक्षो निरस्तः । यावज्जीवमित्यादिश्रुत्या यावज्जीवव्यापकत्वे बोधितेऽर्थतो मासैकव्यापकतालाभेऽपि उपसच्चरकरणकत्वविशिष्टहोमे तन्मात्रव्यापकताया अलाभेन तस्यापिविधेयतया वाक्यभेदस्य प्राप्ताग्निहोत्रानुवादेन द्रव्यविधिपक्षे दुर्वारत्वात् । अथ तादृशश्रुते व्यकालोभयविशिष्टस्य गौणाग्निहोत्रप्रतिपाद्यस्य कर्मान्तरस्य विधायकत्वेऽपि न कथं वाक्यभेदः । विधेयभेदस्यैतावताप्यपरिहारात् । प्रत्युत धर्मिणोऽप्यधिकस्य विधानात् । एवंच 'प्राप्त कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नत' इत्यपि नियुक्तिकमिति चेन्न । यत्र विधेयांशे युगपदनेकधर्माणां विशेषणतया भानं तत्र विधेयविशेषणमेदेऽपि विशिष्टनिष्ठविधेयत्वाभेदेन वाक्यभेदविरहात् । अन्यथा भूतलं नीलघटवदित्यादावपि नीलबद्धटवदित्यादाविव वाक्यभेदप्रसङ्गात् । अनुवाद्यांशे विशेषणतया यत्रानेकेषां विधानं तत्र तेषां विधेयता भिन्नैवेति वाक्यभेदः । यद्यपि तत्रोक्सचरकरणक होमाधिकरणतात्वेन बाधिकारिविशेषकृततादशहोमाधिकरणतात्वेन वा मासैकव्यापकता मा. सन्यूनकालहोतृकृतहोमाधिकरणतायामप्यन्यान्यदिने पुरुषान्तरकर्तृकहोमाधिकरणतासरवेनाक्षतैव, तत्तत्पुरुषकर्तृकतादृशहोमाधिकरणतात्वेन व्यापकतायाः श्रुतितात्पर्यविषयत्वे च विधेयानन्त्यम्, तथापि विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयावृत्तितादृशचरुहोमाधिकरणतामात्रवृत्तिधर्मत्वेनानुगतीकृत्य तत्तत्पुरुषकर्तृकतारशचरुहोमाधिकरणतात्वावच्छिन्नव्यापकतानां संसर्गविधया विव. क्षितत्वान्न दोषः । तारशाधिकरणताद्वयावृत्तित्वं . च, स्ववृत्तित्वस्वनिरूपकहोमकर्तृनिष्ठभेदप्रतियोगिकर्तृकहोमाधिकरणतावृतित्वोभयसंबन्धेनाधिकरणताविशिष्टान्यत्वरूपमनुगतं बोध्यम् । मासमधीतइत्यादावपि चैत्रादिकर्तृकाध्ययनाधिकरणतात्वरूपव्यापकत्तावच्छेदकधर्मस्योक्तानुगतरूपेणैवानुगमः कार्यः अतो मासमधीयानो दृष्ट इत्यादी विशिष्य चैत्रत्वाद्यनुपस्थितावपि नान्वयबोधानुपपत्तिः। अन्यत्स्वयमूहनीयम् । दण्डं विना न घट उत्पद्यते, रासभं विनापि घट उत्पद्यत, इत्यादौ विनापदार्थोऽभाववान् । तत्पदसमभिव्याहृतद्वितीयाया अभावान्वयिप्रतियोगित्वमनुयोगित्वं वार्थः। अभाववतश्चोत्पत्तावाधारत्वेनान्वयः, तथाच दण्डाभावववृत्त्युत्पत्तिकत्वाभाववान् घटो, रासभाभावववृत्त्युत्पत्तिको घट इत्याकारको बोधः । यद्यपि निपातार्थे नामार्थस्य साक्षादपि भेदेनान्वयः तथापि संभवति सार्थकत्वे विभक्तनिरर्थकत्वमनुचितमिति द्वितीयायाः सार्थकत्वमुपेयते । भूतले न घटश्चन्द्रश्व मुखमित्यादौ प्रथमायाः प्रतियोगिताद्यर्थकत्वे प्रथमैव न साधुः स्यात् । प्रातिपदिकार्थान्वयिनोन्यपदेनाभिधानस्थल एव प्रातिपदिकार्थत्यादिसूत्रेण प्रथमाविधानादिति तत्र प्रतियोगित्वादिः संबन्धविधयैव भासत इत्युपेयते । दण्ड विना न घटोत्पत्तिरित्यादौ च विनान्तार्थे घटोत्पत्याद्यभावान्व येऽनुयोगिविशेषणदण्डाद्यभावस्य च तदनुयोगितावच्छेदकत्वं भासते । द्रव्ये न गन्ध इत्यप्रयोगात् उपलक्षणीभूतधर्मावच्छिन्ने न नञर्थाभावान्वय इतिव्युत्पत्तेरिति रासभंविना न घटोत्पत्तिरिति तवं भवत्येवेति । सतिलबीहिचरुरूपद्रव्यस्येति । उपसचस्करणकलविशिष्टेति च कथमुक्तमिति न प्रतीयते मीमांसाद्वितीयाच्यायतृतीयपादचतुर्विंशतिसूत्रभाष्यवार्तिकन्यायसुधादिपर्यालोचनयोपसत्संज्ञककर्मोत्तरकाललरूपगुणवैशिध्वस्यैव प्रतीतेः अ. मिहोत्रसंज्ञोत्थापितातिदेशादेवाग्निहोत्राङ्गद्रव्यस्यैव प्राप्तेश्चेति । अन्यपदेनाभिधानेति । नेहार्थवत्वं पदलं तथासति तादृश्या

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218