Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai
View full book text
________________
गूढार्थतत्वालोकव्याख्यासहितः ।
१४७ तत्तदिनाघननुगमेनाननुगतत्वादिति वाच्यम् तावत्कालस्थायिनो द्रव्यस्यापि दिनादिरूपत्वसम्भवात्। मीमांसकानुयायिभिरगत्या सङ्खथायाः पदार्थान्तरत्वोपगमाश्च । सजधादिरूपनानादिनादिनिष्ठानुगत. त्रिंशत्त्वादेः सुवचत्वात् एवंमासमधीते चैत्र इत्यादावधिकरणतैव द्वितीयार्थः।मासादिपदार्थतावच्छेतदुक्त मिति भावः । तत्तहिनाद्यननुगमेनेति । प्रागुक्तसूयायक्षणविशिष्टत्वेनानुगतरूपेण दिनविषयकत्वस्य प्रवेशे न्यूनाधिकदिनविषयकज्ञानस्यापि तथात्वेन तद्विषयकत्वस्य त्रिंशत्त्वरूपखासम्भवादिति भावः । तावत्कालस्थायिनो द्रव्यस्यापीति । ननु तावत्कालपदेन यदि मासरूपकालो विवक्षितस्तदा तावत्कालस्थायिनो व्यस्यतस्यैकत्वेन तद्गतात्रिंशत्त्वासम्भवः । तादृशत्रिंशद्तत्रिंशत्त्वसंभवेऽपि तद्विशिष्टस्यानेकस्यैकस्मादविलक्षणकार्यकारित्वेनानेकस्यैकस्य वा तस्य मासपदार्थत्वे एकदिनाध्ययनस्थलेमासमधीतइति प्रयोगापत्तिः दिनादिरूपलोक्त्यनुपपत्तिश्च । यदि दिनमात्रकालस्य विवक्षा तदा तन्मात्रस्थायिनां तेषामेकदा सत्त्वासम्भवेन पूर्वोक्तदोषानिवृत्तिः । नचैकैकदिनन्यूनकालवृत्त्युत्तरोत्तरोत्पन्नत्रिंशत्समुदायस्य चरमकालवृत्तितया तेषु द्रव्येषु त्रिंशत्त्वरूपसंख्यासंभवस्तदधिकरणे कास्मंश्चिदपिद्रव्येऽध्ययनाभावे मासमधीत इतिप्रयोगासंभव इति वाच्यम् । चरमद्रव्यमात्रेऽध्ययनस्थलेऽपि मासमधीत इतिप्रयोगापत्तेः । तत्काले सर्वस्य विद्यमानत्वेनाध्ययनाधिकरणतयाप्रतियोगिव्यधिकरणतदभावस्य तत्रासत्त्वादिति चेन्न प्रागुक्तं यत्सूर्योदयक्षणविशिष्टवस्तुरूपं दिन तदवच्छेद्यस्य खसमानाधिकरणाधिकरणबनिरूपकाभावस्यैव विवक्षितत्वात्प्रतियोगिवैयधिकरण्यस्यानुपादेयत्वात् यस्मिन् दिने कस्मिंश्चिदपि क्षणे नाध्ययनं तदेवदिनं तादृशत्रिंशत्त्वाधिकरणसम्बर्द्ध तनिष्टाध्ययनाद्यभावाधिकरणतावच्छेदकमेवश्चोक्तस्थले त्रिंशत्त्वाधिकरणे चरमपदार्थातिरिक्त सर्वत्रैवाध्ययनाभावाधिकरणलस्य दिनावच्छेद्यस्य संभवेन न व्यापकलसंभवः एवं त्रिंशद्दिनमध्ये कस्मिंश्चिदपि दिनेऽध्ययनाभावे तहिनावच्छिन्नाधिकरणलस्य तादृशत्रिंशत्त्वसमानाधिकरणस्य संभवात् सुतरां न व्यापकलसंभवः निरुक्तेषु त्रिंशत्खेव दिनेष्वध्ययनस्थल एव दिनावच्छिन्नाधिकरणस्याध्ययनाभावनिरूपितखसंभवेनाध्ययनस्य व्यापकलसंभवः । अथ वा तावत्कालेल्यादिग्रन्थस्य त्रिंशत्त्वोपपादन उपपादितत्रिंशत्त्वस्य मासपदार्थप्रवृत्तिनिमित्तत्वे च न तात्पर्य किन्तु यथासूर्योदयक्षणविशिष्टस्यैकस्य द्रव्यस्य दिनखं तथा त्रिंशद्दिनस्थायिनो द्रव्यस्य मासखं तद्गतकलस्य च मासपदार्थतावच्छेदकत्वं तत्समानाधिकरणनिरुक्तदिनावच्छेद्याधिकरणलनिरूपकाभावप्रवेशे प्रतियोगिवैयधिकरण्यस्यानुपादा. नेनाखण्डपदार्थस्य मासात्मकत्वेपि पूर्वोपदर्शितग्रन्थस्थदोषस्यासंभवात्तत्रैव ग्रन्थे प्राक् तथाभिधानन्तु निरुक्तदिनगतानुगतत्रिंशस्वसंभावनया तत्संभवेच निरुक्तदिनावच्छेद्यत्वविशेषिताधिकरणताघटितव्यापकलापेक्षया प्रतियोगिवैयधिकरण्यघटितत्रिंशत्त्वव्यापकले लाघवात् एवञ्च द्रव्यस्वेत्येकवचनं दिनादीत्यादिपदं च नानर्थकम् । अथैवमपि तादृशत्रिंशत्त्वानामुक्ताखण्डमासगतैकलानांवा कथमनुगमसंभवः तावतां द्रव्याणामनुगमकाभावात् एकस्य च तस्य त्रिंशद्दिनस्थायित्वेनानुगमने त्रिंशत्त्वस्य पुनर्निर्वचनापत्तेरितिचेत् तदादीनामिव मासादिषदानामपि स्वप्रयोजकबुद्धिविषयतावच्छेदकधर्मावच्छिन्ने एव हि शक्तिः कस्मिंश्चिन्मासनिष्ठे त्रिंशत्त्व एकत्वे वा गृहीतेमासपदप्रयोजकवुद्धिविषयतावच्छेदकत्वग्रहे तेनैव प्रत्यासत्या मानसाखिलतादृशधर्मग्रहे तदुपलक्षितधर्मावच्छिन्ने मासादिपदशक्तिप्रहे तदुपलक्षिततद्विशिष्टोपस्थितौ रामादिपदाजातित्वेन तच्छरीरगतजातेरुपस्थितावपि जातिखानवगाहिजातिविशेषावगाहिशाब्दबोधवत्तात्पर्ययोग्यताज्ञानादिसहकारिवशात् तादृशविषयतावच्छेदकखानवगाही त्रिंशत्वादिविशेषावगाही शाब्दबोधोजायत इति गृहाण । नचैवमपेक्षाबुद्धिविषयलपक्षपरित्यागो व्यर्थमिति वाच्यं तादृशविषयलव्यक्तेरनेकतयोक्तेनानुगतरूपेणोपस्थितपत्किञ्चिद्विषयत्वमादायैकदिनाध्ययनस्थलेऽपि मासमधीत इति प्रयोगापत्तेः । विषयतासंबन्धेन बुद्धिव्यक्तस्तथात्वे च तावत्कालेत्यादिग्रन्थस्य सङ्खधाया अपि तथालप्रतिपादनपरत्वेनासंगतिविरहोऽवसेयः उक्तरीत्यानुगमासामञ्जस्यमनुचिन्त्य वा मीमांसकानुयायिभिरगत्येत्यायुक्तमिति तत्रच सूर्योदयक्षणविशिष्टवस्तुखव्याप्यत्रिंशत्त्वत्वेनानुगमसंभवः । नचैकसूर्योदयक्षणविशिष्टत्रिंशद्वस्तुगतत्रिंशत्त्वमादायकदिनाध्ययनस्थलेऽपि मासमधीतइतिप्रयोगापत्तिरितिवाच्यम् । एकसूर्योदयक्षणविशिष्टवस्तुद्वयावृत्तिलस्य विशेषणात् । नचैवमप्यतिव्यवहिततादृशवस्तुगतत्रिंशत्वमादाय मासमधीत इति प्रयोगापत्तिरिति वाच्यं खाश्रयाव्यवहितोत्तरत्वशून्यावृत्तित्वस्य विवक्षितलात् । नच व्याप्यत्वविशेषणं व्यर्थमिति वाच्यं सूर्योदयक्षण विशिष्टेकवस्तुमासस्थायिपरस्पराव्यवहितोनत्रिंशद्वस्तुगतत्रिंशत्त्वमादायैकैकमासगतैकैकाध्ययनस्थलेऽपि मासमधीतइति प्रयोगापत्तेरिति । व्यापकत्वे शक्त्यपेक्षया लाघवादाह । अधिकरणतैवद्वितीयार्थ इति । अधिकरणतायां प्रकृत्यर्थस्याधेयतामात्रभाने मासमध्य एकदिनाध्ययनस्थले मासमधीत इति प्रयोगापत्तिः स्यादतआह । मासादिपदार्यता. बच्छेदकेत्यादि । यद्यप्यवच्छेद्यत्वं त्रिंशत्त्वादिनिरूपितमात्रमेकदिनमात्राध्ययनस्थले तादृशाधिकरणत्वतद्दिनोत्तरसकलदिननिष्ठतत्तद्वस्तुगतान्यतमत्यावच्छिन्नं तादृशावच्छिन्नत्वमादाय मासमधीत इतिप्रयोगप्रसञ्जकं सामान्यतोऽधिकरणतात्वावच्छिम्भ तु न संभवत्यधिकरणतात्वस्य तदतिरिक्तवृत्तिलादधिकरणतात्वव्याध्यधर्मावच्छिन्नञ्च तदेकमासघटकप्रतिदिवसमध्ययनाचनेकक्रियानिरूपिताधिकरणत्वसत्त्वस्थले तावदधिकरणनिष्ठान्यतमलावच्छिन्नमुक्तावच्छेद्यत्वमादाय मासमधीत इति प्रयोगस्यापादक चैत्रीयाध्ययनाधिकरणतात्वमपि मासान्तरनिष्ठाधिकरणतासाधारणमतिप्रसङ्गानोक्तावच्छेद्यतावच्छेदकं तथापि चैत्रीयाध्ययनाधि.

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218