Book Title: Vyutpattivada Gudharthatattvaloka
Author(s): Dharmadattasuri
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 150
________________ १४६ व्युत्पत्तिवादः । क्रियादिप्रचयः । तथासत्येकेक क्रियादिव्यकेरपि मासत्वाधिकरणतया तत्र प्रतियोगिव्यधिकरणाध्ययनाभावसत्वेन व्यापकत्वरूप द्वितीयार्थस्य बाधापत्तेः । दिवस स्वपितीत्यादौ च दिवसादिपदं सूर्योदयावधि सूर्योदयान्तरपर्यन्तक्षणकूट परमेवातो नैकदण्डादिमात्रस्वप्ने तथा प्रयोगः । अथ व्यापकत्वस्य द्वितीयार्थत्वएकमासादिव्यापकाध्ययनस्थलेऽपि मासान्तरेऽध्ययनाभावसत्त्वेन मासत्वादिव्यापकताया अध्ययने बाधेन मासमधीतइत्यादिप्रयोगानुपपत्तिः । नच मासपदेन यत्किचित्रिशद्दिनमात्र वृत्तिविशेषधर्मप्रकारेणानुपस्थापनेऽपि तद्धर्मवत्स्वनिरूपिताधेयत्व संबन्धेन मासपदार्थस्याभावेऽन्ययोपगमात् यत्किञ्चिन्मासनिष्ठाभावप्रतियोगितानवच्छेदकत्व मन्वयितावच्छेदके लभ्यतइति न काप्यनुपपत्तिरिति वाच्यम्, तत्तन्मासमात्रवृत्तिधर्मविशेषाणां संबन्धघटकत्वेऽपि शाब्दबोधे संसर्ग तात्पर्यज्ञानस्य हेतुतया संसर्गविशेषोपस्थितेरपेक्षितत्वात् । संबन्धघटकतादृशधर्मान विशिष्याविदुषः शाब्दबोधानुदयप्रसङ्गात् । नचेष्टापत्तिरनुभवविरोधात् । अनागतादिमासवृत्तिताशधर्माणां विशिष्यज्ञानसामय्या असर्वशस्य दुर्लभतयास्मदादीनां सर्वेषामेव तादृशमासत्वव्यापकताबोधोच्छेदप्रसङ्गात् । नच तादृशवाक्यार्थतात्पर्यमेव संसर्ग तात्पर्यमुक्तहाने च वाक्यार्धघटकः संबन्धः संसर्गमर्यादयैव भासतइति विशेषरूपेणानुपस्थितस्यैवोक्तधर्मघटित संबन्धस्य तात्पर्यज्ञाने बाधाभावबलाच्छाब्दबोधे च तात्पर्यज्ञानबलाद्भानमनपवादमेवेति वाच्यम् । एकपदार्थविशिष्टा परपदार्थरूपवाक्यार्थविशेषिततत्प्रतीतीच्छारूपतात्पर्यविषयकनिश्चयस्य प्राग्वाक्यानिश्चये दुर्घटतया तस्य शाब्दधीहेतुत्वे च योग्यतासंशयाच्छाब्दबोधानुपपत्तेर्विशकलिततत्पदार्थतत्तत्संसर्गविषयकत्व विशेषितप्रतीतीच्छाज्ञानस्यैव शाब्दधीहेतुताया उपेयत्वात् तत्रच तादृशसंसर्गोपस्थितेरवश्यापेक्षणीयत्वादितिचेत् । सत्यम् । मासादिघटक तावद्दिनादिनिष्ठ त्रिंशत्वादिरूपमासत्वादिर्मासादिभेदेन नानैव । मासादिपदप्रवृत्तिनिमित्तपरमनुगतरूपेण । अन्यथा शक्त्यानन्त्यप्रसङ्गात् । सर्वोपसंहारेण व्युत्पत्ति विना प्रागप्रतीतमासादेः शाब्दानुभवानिर्वाहाच । नच त्रिंशत्त्वादिकं बुद्धिविशेषविषयत्वरूपं वाच्यम् दिनादेर्द्रव्यानात्मकत्वेन तत्र गुणरूपसङ्ख्याया असम्भवात् द्रव्यात्मकत्वेऽपि क्रमिकेषु तेषु सहयोत्पत्तेरसम्भवात् तत्र बुद्धेरनतिप्रसक्तं वैलक्षण्यमनुगतं दुर्वचम् | जातिरूपस्य तस्य सङ्करप्रसङ्गनिरस्तत्वात् तत्तद्दिनविषयकत्वरूपस्य तादृशवस्तुगतत्रिंशत्त्वविशिष्टस्य परिग्रहे वस्तुतः कतिपयदिनान्तरितदेिवसाधिकरणकत्रिंशद्वाराध्ययनकर्तर्यपि मासमधीत इति प्रयोगापत्तिः स्यादिति चेन्न सूर्योदयक्षणविशिष्टं हि वस्तु दिनमत्रोच्यते वैशिष्ट्यं च स्ववृत्तित्वखपूर्वक्षणावृत्तिलखोत्तरसूर्योदय क्षणाव्यवहितपूर्वक्षणवृत्तिलस्त्रोत्तरसूर्योदय क्षणावृत्तित्वैतश्चतुष्टयसंबन्धेन । तथाच नोक्तदोष इति भावः । दिवसादिपदसूर्योदयावधीत्यादि । सूर्योदयक्षणविशिष्टक्षणत्वावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगिकूटत्वावच्छिन्न परमिलर्थः । वैशिट्यंच स्वपूर्वत्वशून्यत्व स्त्रोत्तरसूर्योदयानुत्तरसूर्योदयक्षणपूर्वत्वोभयसंबन्धेनेति तथादिनद्वयघटकक्षणसमुदायस्य न दिनखापत्तिरिति भावः । कूटपरमेवेति । एवकारेण पूर्वोक्ता खण्डवस्तुनो दिनलव्यवच्छेदः । अस्य फलमाह । अतो नैकेति । एवं संवत्सरादिपदमपि प्रतिमासमेकैकदिनाध्ययनस्थले सम्वत्सरमधीत इत्यप्रयोगान्नाखण्डमासद्वादशकसमुदाय परमपितु निरुताखण्डदिनसमुदायात्मकमासद्वादशकपरमेवेति बोध्यम् । तद्धर्मवत्स्व निरूपिताधेयत्वेति । यत्र प्रकृताध्ययनादौ दिनवृत्तित्रिंशत्त्वेन येन विशिष्टमासवृत्तित्वं योग्यं तत्र तद्विशिष्टस्वनिरूपिताधेयत्वसंसर्गेणेत्यर्थः । परमनुगतरूपेणेत्यर्थः । तथाच मासपदादनुगतरूपोपग्रहेणाननुगततत्तत्रिंशत्त्वविशिष्ट सर्वस्योपस्थितत्वेन तत्तद्धर्मविशिष्टाधेयत्व संसर्गेण योग्येन मासादेरभावेन्वयेन भवति व्यापकत्वहानिः । तात्पर्यज्ञानमपि शाब्दबोधविषयलविशेषे विशेषणं तत्तद्धर्ममनुगतेन रूपेणावगाहमानं संभवत्यैवव्यापकत्वावगाहनं विनापि निर्वाहप्रकारोऽनुपदं वक्ष्यति । अथ तत्तत्रिंशत्वादीनामनुगतं धर्मे वकुमाशङ्कते । नचत्रिंशत्वादिकमिति । सूर्योदय मारभ्यसूर्योदयान्तपर्यन्तस्थायिपदार्थस्यैव पूर्व दिनलोक्त्या तेषां द्रव्यात्मकानामप्येकदा सत्त्वासंभवेनाविद्यमानसमवायिकारणकगुणोत्पत्तेरसंभवात् न तेषु त्रिंशत्वं संख्यात्मकं भवितुमर्हतीत्याह । व्यात्मकत्वेपीति । सङ्करेति । तादृशस्य बुद्धिविशेषस्य कदाचित्प्रत्यक्षस्य कदाचिदनुमितिशाब्दादिरूपस्य संभप्रत्यक्षत्वादिभिः संकरेत्यर्थः । प्रत्यक्षत्वादिव्याप्यानामनेकेषां समभ्युपगमे साङ्कर्यविरहेऽप्यननुगमस्यदुरुद्धरत्वान्न 我 वात्

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218